देवा वा अर्बुदेन च पावमानीभिश्च ग्राव्णो अभिष्टुत्या आप्नुवन्नमृतत्वम् ।
15,1.1आप्नुवन्त्सत्यम्संकल्पम् ।
15,1.2तथो एव एतद्यजमानो यदर्बुदेन च पावमानीभिश्च ग्राह्णो अभिष्टौत्याप्नोत्यमृतत्वम् ।
15,1.3आप्नोति सत्यम्संकल्पम् ।
15,1.4अथ स्तुते पवमाने दधि घर्मेण चरन्ति ।
15,1.5अत्र कालो हि भवति ।
15,1.6अथो सवनस्य एव सरसतायै ।
15,1.7अथ हविष्पङ्क्त्या चरन्ति तस्या उक्तम्ब्राह्मणम् ।
15,1.8भारद्वाज्या मध्यंदिने प्रस्थितानाम्यजति ।
15,1.9भरद्वाजो ह मध्यंदिन इन्द्राय सोमम्प्रददौ ।
15,1.10सा वा ऐन्द्री त्रिष्टुब्भवति ।
15,1.11आहुतीनाम्प्रतिष्ठित्यै ।
15,1.14अथ होत्राः सम्यजन्ति तासामुक्तम्ब्राह्मणम् ।
15,1.15अथ इडा अथ होतृ चमसस्तस्य उक्तम्ब्राह्मणम् ।
15,1.16हुतेषु दाक्षिणेषु दक्षिणा नीयन्ते ।
15,1.17अथो दक्षिणाभिर्वै यज्ञम्दक्षयति ।
15,1.20तद्यद्दक्षिणाभिर्वै यज्ञम्दक्षयति ।
15,1.21तस्माद्दक्षिणा नाम ।
15,1.22आत्म दक्षिणम्वै सत्रम् ।
15,1.23तस्मादहरहर्जपेयुः ।
15,1.24इदमहम्माम्कल्याण्यै कीर्त्यै स्वर्गाय लोकाय अमृतत्वाय दक्षिणाम्नयन्ति ।
15,1.26वैश्वामित्रीम्मरुत्वतीय ग्रहस्य पुरोनुवाक्यामनूच्य वैश्वामित्र्या यजति ।
15,1.27सवन ततिर्वै मरुत्वतीय ग्रहः ।
15,1.28वाग्वै विश्वामित्रः ।
15,1.29वाचा यज्ञस्तायते ।
15,1.30ते वा ऐन्द्र्यौ त्रिष्टुभौ भवतः ।
15,1.31ऐन्द्रम्हि त्रैष्टुभम्माध्यंदिनम्सवनम् ।
15,1.32अनुवषट्करोत्याहुतीनामेव शान्त्यै ।
15,1.33आहुतीनाम्प्रतिष्ठित्यै ।
15,1.34अथ षड्विधम्मरुत्वतीयम्शंसति ।
15,2.1षड्वा ऋतवः संवत्सरः ।
15,2.2संवत्सरस्य एव आप्त्यै ।
15,2.3अनुष्टुभम्गायत्रीम्बृहतीमुष्णिहम्त्रिष्टुभम्जगतीमिति षट्छन्दांसि शंसति ।
15,2.4तस्मात्षड्विधम्भवति ।
15,2.5आ त्वा रथम्यथा ऊतय इत्यनुष्टुभा मरुत्वतीयम्प्रतिपद्यते ।
15,2.6पवमान उक्थम्वा एतद्यन्मरुत्वतीयम् ।
15,2.7अनुष्टुप्सोमस्य छन्दः ।
15,2.8उक्तम्पद विग्रहणस्य ब्राह्मणम् ।
15,2.9गायत्रीः शंसति ।
15,2.10प्राणो वै गायत्र्यः ।
15,2.11प्राणमेव तदात्मन्धत्ते ।
15,2.12इदम्वसो सुतमन्ध इत्यनुचरः सुतवान्पीतवान् ।
15,2.13पवमान उक्थम्ह्येतत् ।
15,2.14इन्द्र नेदीय एदिहि इति इन्द्र निहवः प्रगाथ ।
15,2.15नेदीय उपनिष्क्राम इति ह एनम्मरुत ऊचुः प्रधर्षयन्तः ।
15,2.16सो अब्रवीद्द्हत्वा वृत्रम्विजित्य युष्माभिर्मे अयम्सह सोम पीथ इति ।
15,2.17तैरेव अस्य एष सह सोम पीथः ।
15,2.18प्र नूनम्ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रगाथः ।
15,2.19प्रहर इत्ह एनम्ब्रह्मा उवाच प्रधर्षयन् ।
15,2.20सो अब्रवीद्द्हत्वा वृत्रम्विजित्य त्वया मे अयम्सह सोम पीथ इति ।
15,2.21स एष ब्रह्मण एव सोम पीथः ।
15,2.22तस्मिन्देवता अन्वाभजत इति ह स्म आह कौषीतकिः ।
15,2.23यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति ।
15,2.24अत्र देवता अन्वाभक्ताः ।
15,2.25तदाहुर्यन्नेव स्तोत्रियो न अनुरूप इन्द्र निहवश्च ब्राह्मणस्पत्यश्च प्रगाथावथ कस्मात्पुनरादायम्ककुप्कारम्शस्येते इति ।
15,3.1पुररादायम्वै सामगाः पवमाने स्तुवते ।
15,3.2तस्य एव एतद्रूपम्क्रियते ।
15,3.3अग्निर्नेता भग इव क्षितीणाम्त्वम्सोम ऋतुभिः सुक्रतुर्भूरित्यग्नीषोमीये ।
15,3.4अग्नीइषोमौ वा अन्तर्वृत्र आस्ताम् ।
15,3.5ताविन्द्रो न अशक्नोदभि वज्रम्प्रहर्तुम् ।
15,3.6तावेतम्भागमुपनिचक्रामताम् ।
15,3.7यश्च एनयोरसौ पौर्णमासे ।
15,3.8तदेतद्वार्त्रघ्नमेव उक्थम्यन्मरुत्वतीयम् ।
15,3.9एतेन हि इन्द्रो वृत्रमहन् ।
15,3.10पिन्वन्त्यपो मरुतः सुदानव इति पिन्वन्त्यपीया ।
15,3.11आपो वै पिन्वन्त्यपीया ।
15,3.12तद्यदेव वृत्रम्हतमापो व्यायन् ।
15,3.13यत्प्रापिन्वंस्तस्मात्पिन्वन्त्यपीया ।
15,3.14सा वै जगती ।
15,3.15तया सर्वाणि सवनानि जगद्वन्ति भवन्ति ।
15,3.16जनिष्ठा उग्रः सहसे तुरीय इति जातवन्मरुत्वतीयम् ।
15,3.17एतद्वा इन्द्रो जायते यद्वृत्रमहन् ।
15,3.18एतदु वा एष जायते यो यजते ।
15,3.19तस्य प्रथमायामध्वर्युः सकृन्मद्वत्प्रत्यागृणाति ।
15,3.20अत्र हि इन्द्रः प्रथमममाद्यत् ।
15,3.21तदेतत्पृतनाजि देव सूक्तम्यन्मरुत्वतीयम् ।
15,4.1एतेन हि इन्द्रः पृतना अजयत् ।
15,4.2तस्य मध्ये निविदम्दधाति ।
15,4.3मध्ये वा इदमात्मनो अन्नम्धीयते ।
15,4.4अथ निविदः शंसति ।
15,4.5प्राणा वै निविदः ।
15,4.6प्राणानेव तदात्मन्धत्ते ।
15,4.7तासामेक एकम्पदमवग्राहम्शंसति ।
15,4.8एक एकमेव तत्प्राणमात्मन्धत्ते ।
15,4.9उत्तमेन प्रणौति ।
15,4.10इममेव तत्प्राणमुत्सृजते ।
15,4.11तस्माद्द्हि इमम्प्राणम्सर्वे प्राणा अनुप्राणन्ति ।
15,4.12अथो अन्नम्निविद इत्यप्याहुः ।
15,4.13तस्मादेना आरतम्शंसेत् ।
15,4.14अत्वरमाण इव हि प्रतिकामिनमन्न अद्यमत्ति ।
15,4.15ये त्वाहिहत्ये मघवन्नवर्धन्नित्युक्थम्शस्त्वा यजति ।
15,4.16ये शाम्बरे हरिवो ये गविष्ठाविति ।
15,4.17एतैर्वा एष एतानि सह वीर्याण्यकरोत् ।
15,4.18तैरेव अस्य एष सह सोम पीथः ।
15,4.19सा वा ऐन्द्री त्रिष्टुब्भवति ।
15,4.20ऐन्द्रम्हि त्रैष्टुभम्माध्यंदिनम्सवनम् ।
15,4.21अनुवषट्करोत्याहुतीनामेव शान्त्यै ।
15,4.22आहुतीनाम्प्रतिष्ठित्यै ।
15,4.23वागेव असौ प्रथमा अनुष्टुप् ।
15,4.24ताम्पञ्च गायत्र्यो अनुवर्तन्ते ।
15,4.25मन इन्द्र निहवः श्रोत्रम्ब्राह्मणस्पत्यः ।
15,4.26प्राणो अपानो व्यान इति तिस्र एक पातिन्यः ।
15,4.27आत्मा सूक्तम्यदन्तरात्मंस्तन्निवित् ।
15,4.28प्रतिष्ठा परिधानीय अन्नम्याज्या ।
15,4.29अथ निष्केवल्यम् ।
15,5.1बह्व्यो देवताः प्राच्यः शस्यन्ते बह्व्य ऊर्ध्वाः ।
15,5.2अथ एतदिन्द्रस्य एव निष्केवल्यम् ।
15,5.3तन्निष्केवल्यस्य निष्केवल्यत्वम् ।
15,5.4अथ यद्बृहत्या प्रतिपद्यते ।
15,5.5बार्हतो वा एष य एष तपति ।
15,5.6तदेनम्स्वेन रूपेण समर्धयति ।
15,5.7द्वे तिस्रः करोति पुनरादायम् ।
15,5.8तत्प्रजात्यै रूपम् ।
15,5.9द्वाविव वा अग्रे भवतः ।
15,5.10तत उपप्रजायते ।
15,5.11प्रतिरूपमनुरूपम्कुर्वीत ।
15,5.14प्रतिरूपो ह एव अस्य प्रयाजामाजायते न अप्रतिरूपः ।
15,5.15धाय्याम्शंसति ।
15,5.16प्राणो वै धाय्याः ।
15,5.17प्राणमेव तदात्मन्धत्ते ।
15,5.18प्रगाथम्शंसति ।
15,5.19पशवो वै प्रगाथः ।
15,5.20पशूनामेव आप्त्यै ।
15,5.21अथो प्राण अपानौ वै बार्हतः प्रगाथः ।
15,5.22प्राण अपानावेव तदात्मन्धत्ते ।
15,5.23इन्द्रस्य नु वीर्याणि प्र वोचमिति पञ्चदशर्चम्निष्केवल्यम् ।
15,5.24पञ्चदशो वै वज्रः ।
15,5.25वज्रेण एव तद्यजमानस्य पाप्मानम्हन्ति ।
15,5.26तस्य मध्ये निविदम्दधाति ।
15,5.27मध्ये वा इदमात्मनो अन्नम्धीयते ।
15,5.28अथ निविदः शंसति ।
15,5.29प्राणा वै निविदः ।
15,5.30प्राणानेव तदात्मन्धत्ते ।
15,5.31तासामेक एकम्पदमवग्राहम्शंसति ।
15,5.32एक एकमेव तत्प्राणमात्मन्धत्ते ।
15,5.33उत्तमेन प्रणौति ।
15,5.34इदमेव तत्प्राणमुत्सृजते ।
15,5.35तस्माद्द्हि इमम्प्राणम्सर्वे प्राणा अनुप्राणन्ति ।
15,5.36अथो अन्नम्निविद इत्यप्याहुः ।
15,5.37तस्मादेना आरतम्शंसेत् ।
15,5.38अत्वरमाण इव हि प्रतिकामिनमन्न अद्यमत्ति ।
15,5.39नितराम्परिधानीयाम्शंसेत् ।
15,6.1तथा ह पत्न्यप्रच्यावुका भवति ।
15,6.2अनुदायिततराम् ।
15,6.3तथा ह पत्न्यनुद्धत मना इव भवति ।
15,6.4आत्मा वै स्तोत्रियः प्रजा अनुरूपः ।
15,6.5महिषी धाय्या प्रगाथः पशवः ।
15,6.6आत्मा सूक्तम्यदन्तरात्मंस्तन्निवित् ।
15,6.7प्रतिष्ठा परिधानीय अन्नम्याज्या ।
15,6.8पवमाने स्तूयमाने होतारम्मृत्युः प्रत्यालीयत ।
15,6.9तमाज्येन न्यकरोदन्यत्र स्तोत्रियात् ।
15,6.10आद्ये साम आज्ये प्रत्यलीयत ।
15,6.11तम्प्रौगेण न्यकरोदन्यत्र स्तोत्रियात् ।
15,6.12तम्माध्यंदिने पवमाने प्रत्यालीयते ।
15,6.13तम्मरुत्वतीयेन न्यकरोदन्यत्रे एव स्तोत्रियात् ।
15,6.14अथ वै निष्केवल्यम्स्तोत्रियेण एव प्रतिपद्यते ।
15,6.15तद्यथा अभये अतिमुच्य मृत्युम्यथा अतिमुमुचान एवम् ।
15,6.16तदाहुर्निष्केवल्यमेव इदम्निष्केवल्यमदो महा व्रते शस्यन्ते वा अमुत्र चतुरुत्तराणि कथमिह उपाप्यन्त इति ।
15,6.17तानि वा इह उपाप्ततराणि भवन्ति ।
15,6.18स्तोत्रिय अनुरूपौ संशस्तौ सप्त चतुरुत्तराणि सम्पद्यते ।
15,6.19चतुरक्षरम्च पदमुदैति ।
15,6.20स्तोत्रिय अनुरूपौ संशस्तौ सप्त चतुरुत्तराणि सम्पद्यन्ते ।
15,6.19चतुरक्षरम्च पदमुदैति ।
15,6.20ते पशवः ।
15,6.21तान्पशून्यजमाने दधाति ।
15,6.22विराड्वा अग्निष्टोमः ।
15,6.23नवति शतम्स्तोत्रियाः सम्पद्यन्ते ।
15,6.24प्रत्यक्षमेव एतदग्निष्टोमस्य रूपमुपैति यद्विराजा यजति ।
15,6.25पिबा सोममिन्द्र मन्दतु त्वा इति पदम्परिशिष्य विराजो अर्धर्चे अवानिति ।
15,6.26श्रीर्विराडन्न अद्यम् ।
15,6.27श्रियाम्तद्विराज्यन्न अद्ये प्रतितिष्ठति ।
15,6.28उत्तरेण विराजो अर्धर्चेन वषट्करोति ।
15,6.29स्वर्ग एव तल्लोके यजमानम्दधाति ।
15,6.30अनुवषट्करोत्याहुतीनामेव शान्त्यै ।
15,6.31आहुतीनाम्प्रतिष्ठित्या आहुतीनाम्प्रतिष्ठित्यै ।
15,6.32