मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 17

3
खण्डिका 1

आनुष्टुभो वा एष वज्रो यत्षोडशी ।

17,1.1

तद्यत्षोडशिनमुपयन्ति ।

17,1.2

आनुष्टुभेन एव तद्वज्रेण यजमानस्य पाप्मानमपघ्नन्ति ।

17,1.3

स वै हरिवान्भवति ।

17,1.4

प्राणो वै हरिः ।

17,1.5

स हि हरति ।

17,1.6

तस्माद्द्हरिवान्भवति ।

17,1.7

तदसौ वै षोडशी यो असौ तपति ।

17,1.8

एतमेव तत्प्रीणाति ।

17,1.9

अथो षोडशम्वा एतत्स्तोत्रम्षोडशम्शस्त्रम् ।

17,1.10

तस्मात्षोडशी इत्याख्यायते ।

17,1.11

तद्यत्षोडशिनमुपयन्ति ।

17,1.12

षोडश कलम्वा इदम्सर्वम् ।

17,1.13

अस्य एव सर्वस्य आप्त्यै ।

17,1.14

अथो इन्द्रो वै षोडशी ।

17,1.15

तस्माद्द्हरिवान्भवति ।

17,1.16

हरि स्तवो हि इन्द्रः ।

17,1.17

इन्द्र जुषस्व प्र वहा याहि शूर हरी इह इति ।

17,1.18

ताः पञ्चविंशत्यक्षराः ।

17,1.19

एक एका नवभिर्नवभिरक्षरैरुपसृष्टाः ।

17,1.20

आत्मा वै पञ्चविंशः ।

17,1.21

प्रजा पशव उपसर्गः ।

17,1.22

प्रजया एव तत्पशुभिः प्रेष्यैरन्न अद्येन इत्यात्मानमुपसृजते ।

17,1.23

ताश्चतुस्त्रिंशदक्षराः सम्पद्यन्ते ।

17,1.24

स्वराड्वै तच्छन्दः ।

17,1.25

यत्किंच चतुस्त्रिंशदक्षरम्स्वाराज्यमनेन आप्नोति ।

17,1.26

ताः संशस्ताः पञ्च अन्बुष्टुभः सम्पद्यन्ते ।

17,1.27

दश अक्षरम्च पदमुदैति ।

17,1.28

एक एकस्यै द्वे द्वे ।

17,1.29
खण्डिका 2

त्वावतः पुरूवसो इति गायत्रीमुपसंशंसति ।

17,2.1

एतेषामेव अक्षराणाम्सम्पदे ।

17,2.2

अथो एतया सह स्तोत्रियः षडनुष्टुभः सम्पद्यन्ते ।

17,2.3

तस्मादेताम्शंसति सम्पदे ।

17,2.4

एतत्प्रतिरूपमु ह एके अनुरूपम्कुर्वन्ति ।

17,2.5

तदु वा आहुरसौ वै षोडशी यो असौ तपति ।

17,2.6

न वा एतस्य अन्यो अनुरूपो अस्ति ।

17,2.7

स यो अत्र अनुरूपम्कुर्वन्तम्ब्रूयात् ।

17,2.8

अथ अतः ऊर्ध्वानि छन्दांसि विहरति ।

17,2.11

प्राणा वै छन्दांसि ।

17,2.12

प्राणानेव तदात्मन्व्यतिषजत्यविवर्हाय ।

17,2.13

तस्माद्द्हि इमे प्राणा विष्वञ्चो वा अन्तो न निर्वान्ति ।

17,2.14

अथो आनुष्टुभो वै षोडशी ।

17,2.15

सर्वाण्येव एतत्छन्दांस्यनुष्टुभमभिषम्पादयति ।

17,2.16

गायत्रीश्च पङ्क्तीश्च विहरति ।

17,2.17

यजमानच्छन्दसम्पङ्क्तिः ।

17,2.18

तेजो ब्रह्म वर्चसम्गायत्री ।

17,2.19

तेज एव तद्ब्रह्म वर्चसम्यजमाने दधाति ।

17,2.20

उष्णिहश्च बृहतीश्च विहरति ।

17,2.21

यजमानच्छन्दसमेव उष्णिक् ।

17,2.22

पशवो बृहती ।

17,2.23

बार्हतानेव तत्पशून्यजमाने दधाति ।

17,2.24

द्विपदाम्च विंशत्यक्षराम्त्रिष्टुभम्च विहरति ।

17,2.25

यजमानच्छन्दसमेव द्विपदा ।

17,2.26

बलम्वै वीर्यम्त्रिष्टुप् ।

17,2.27

बलमेव तद्वीर्यम्यजमाने दधाति ।

17,2.28

द्विपदाश्च षोडश अक्षरा जगतीश्च विहरति ।

17,2.29

यजमानच्छन्दसमेव द्विपताः ।

17,2.30

पशवो जगती ।

17,2.31

जागतानेव तत्पशून्यजमाने दधाति ।

17,2.32
खण्डिका 3

गायत्रीः शंसति ।

17,3.1

प्राणो वै गायत्र्यः ।

17,3.2

प्राणमेव तदात्मन्धत्ते ।

17,3.3

सप्त पदाम्शंसति ।

17,3.4

सप्त वै छन्दांसि ।

17,3.5

सर्वेषामेव छन्दसामाप्त्यै ।

17,3.6

अथो एतया सह गायत्र्यश्चतस्रो अनुष्टुभः सम्पद्यन्ते ।

17,3.7

तस्मादेताम्शंसति सम्पदे ।

17,3.8

अथ नित्या अनुष्टुभः शंसति ।

17,3.9

आनुष्टुभो वै षोडशी ।

17,3.10

तदेनत्स्वेन छन्दसा समर्धयति ।

17,3.11

ता वा अष्टौ भवन्ति ।

17,3.12

एताभिर्वै देवाः सर्वा अष्टीराश्नुवत ।

17,3.13

तथो एव एतद्यजमान एताभिरेव सर्वा अष्टीरश्नुते ।

17,3.14

त्रिः शस्तया परिधानीयया दश सम्पद्यन्ते ।

17,3.15

दश दशिनी विराट् ।

17,3.16

श्रीर्विराडन्न अद्यम् ।

17,3.17

श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

17,3.18

उद्यद्ब्रध्नस्य विष्टपमिति परिदधाति ।

17,3.19

अदो वै ब्रध्नस्य विष्टपम्यत्र असौ तपति ।

17,3.20

तदेव तद्यजमानम्दधाति ।

17,3.23

त्रिवृता एव तद्वज्रेण यजमानस्य पाप्मानम्हन्ति ।

17,3.24

त एते श्लोका घोषा वीर्याणि इत्युक्थानाम् ।

17,3.25

श्लोकी घोषी वीर्यवान्कीर्तिमान्भवति य एवम्वेद उक्थानाम्वीर्याणि ।

17,3.26

ताः संशस्ताश्चत्वारिंशदनुष्टुभः सम्पद्यन्ते ।

17,3.27

चत्वारिंशदक्षरा पङ्क्तिः ।

17,3.28

प्रतिष्ठा वै पङ्क्तिः ।

17,3.29

सर्वेष्वेव तद्भूतेषु यजमानम्प्रतिष्ठापयति ।

17,3.30

विहृतया त्रिष्टुभा यजेदिति ह एक आहुः ।

17,3.31

एवा हि वाज्यपाः पूर्वेषाम्हरिवः सुतानाम्वाजो हि वाज्यथो इदम्सवनम्केवलम्ते ।

17,3.32

वोढा हि वाजी ममद्द्हि सोमम्मधुमन्तमिन्द्र जिष्णुर्हि वाजी सत्रा वृषन्जठर आवृषस्व इति ।

17,3.33
खण्डिका 4

अविहृतया इत्त्वेव स्थितम् ।

17,4.1

संसिद्धानि वा एतानि देव पात्राणि यद्याज्याः ।

17,4.2

संसिद्धेन एव तद्देव पात्रेण देवेभ्यो हविः प्रयच्छति ।

17,4.3

तन्न रात्र्यामुपेयात् ।

17,4.4

इन्द्रो वै षोडशी ।

17,4.5

न वा इन्द्रादन्यदुत्तरमस्ति ।

17,4.6

बहु रात्र्यामुपाह्वयते ।

17,4.7

पर्याया इव त्वदाश्विनम् ।

17,4.8

तत एव एनम्चतुर्थे अहन्युपेयात् ।

17,4.9

तद्वै षोडशिन आयतनम् ।

17,4.10

तद्वै तदहः षोडश्यन्तम्संतिष्ठते ।

17,4.11

तदु वा आहुरुपेयादेव एतत् ।

17,4.12

कृत्स्नो वा अहोरात्रे यत्षोडशी ।

17,4.13

तद्यद्षोडशिनमुपयन्ति ।

17,4.14

अहोरात्रयोरेव कृत्स्नतायै ।

17,4.15

अथ यदतिरात्रमुपयान्ति ।

17,4.16

एतावान्वै संवत्सरो यदहोरात्रे ।

17,4.17

तद्यदतिरात्रमुपयन्ति ।

17,4.18

संवत्सरस्य एव आप्त्यै ।

17,4.19

अथो द्वयम्वा इदम्सर्वम्स्नेहश्चैव तेजश्च ।

17,4.20

तदुभयमहोरात्राभ्यामाप्तम् ।

17,4.21

तद्यदतिरात्रमुपयन्ति ।

17,4.22

स्नेह तेजसोरेव आप्त्यै ।

17,4.23
खण्डिका 5

गायत्रान्त्स्तोत्रिय अनुरूपान्शंसन्ति ।

17,5.1

ज्योतिर्वै गायत्री ।

17,5.2

तमः पाप्मा रात्रिः ।

17,5.3

तेन तज्ज्योतिषा तमः पाप्मानम्तरन्ति ।

17,5.4

पुनरादायम्शंसन्ति ।

17,5.5

एवम्हि सामगाः स्तुवते ।

17,5.6

यथा स्तुतम्वनुशस्तम्भवति इति ।

17,5.7

तदाहुरतः कस्मादुत्तमात्प्रतीहारादूर्ध्वमाहूय साम्ना शस्त्रमुपसंतन्वन्ति इति ।

17,5.8

पुरुषो वै यज्ञः ।

17,5.9

तस्य शिर एव हविर्धाने मुखमाहवनीय उदरम्सदो अन्नमुक्थानि ।

17,5.10

बाहू मार्जालीयश्च अग्नीध्रियश्च ।

17,5.11

या इमा अन्तर्देवतास्ते अन्तः सदनम्धिष्ण्याः ।

17,5.12

प्रतिष्ठा गार्हपत्य व्रत श्रपणाविति ।

17,5.13

अथ अपरम् ।

17,5.14

तस्य मन एव ब्रह्मा प्राण उद्गाता अपानः प्रस्तोता व्यानः प्रतिहर्ता वाग्घोता चक्षुरध्वर्युः प्रजातिः सदस्य आत्मा यजमानः ।

17,5.15

अङ्गानि होत्राशंसिनः ।

17,5.16

तद्यदध्वर्युः स्तोत्रमुपाकरोति ।

17,5.16

चक्षुरेव तत्प्राणैः संदधाति ।

17,5.18

अथ यत्प्रस्तोता ब्राह्मणमामन्त्रयते ब्रह्मन्त्स्तोष्याम इति ।

17,5.19

मनो वा अग्रणीर्भवत्येषाम्प्राणानाम् ।

17,5.20

मनसा एव प्रसूताः स्तोमेन स्तुयाम इति ।

17,5.21

अथो अपानमेव तन्मनसा संतनोति । ण्ण्ण्

17,5.22
खण्डिका 6

अथ यद्ब्रह्मा स्तोत्रमनुमन्यते ।

17,6.1

मन एव तत्प्राणैः संदधाति ।

17,6.2

अथ यत्प्रस्तोता प्रस्तौति ।

17,6.3

अपानमेव तत्प्राणैः संदधाति ।

17,6.4

अथ यत्प्रतिहर्ता प्रतिहरति ।

17,6.5

व्यानमेव तत्प्राणैः संदधाति ।

17,6.6

अथ यदुद्गाता उद्गायति ।

17,6.7

प्राणमेव तद्व्याने दधाति ।

17,6.8

ता वा एताः सर्वा देवताः प्राण एव प्रतिष्ठिताः ।

17,6.9

अथ यद्द्होता साम्ना शस्त्रमुपसंतनोति ।

17,6.10

वाग्वै होता ।

17,6.11

वाचमेव तत्प्रणैः संदधाति ।

17,6.12

अथ यद्द्होत्राशंसिनः साम संततिम्कुर्वन्ति ।

17,6.13

अङ्गान्येव तत्प्राणैः संदधाति ।

17,6.14

अथ यद्यजमानः स्त्रोत्रमुपगाति ।

17,6.15

प्राणा वा उद्गातारः ।

17,6.16

प्राणानेव तदात्मन्धत्ते ।

17,6.17

तस्मान्न एनम्बहिर्वेद्यभ्यस्तमियात् ।

17,6.18

न अभ्युदियान्न अभ्याश्रावयेत् ।

17,6.19

न स्तोत्रमुपाकुर्वन्ति ।

17,6.20

न अधिष्ण्ये प्रतपेत् ।

17,6.21

न इत्प्राणेभ्य आत्मानमपादधानि इति ।

17,6.22

अथ यत्प्रथमेषु पर्यायेषु प्रथमेषु पदेषु निनर्तयन्ति ।

17,6.23

प्रथम रात्रादेव तदसुरान्निर्घ्नन्ति ।

17,6.24

अथ यन्मध्यमेषु पर्यायेषु मध्यमेषु पदेषु निनर्तयन्ति ।

17,6.25

मध्य रात्रादेव तदसुरान्निर्घ्नन्ति ।

17,6.26

अथ यदुत्तमेषु पर्यायेषु उत्तमेषु पदेषु निनर्तयन्ति ।

17,6.27

उत्तम रात्रादेव तदसुरान्निर्घ्नन्ति ।

17,6.28

तद्यथा अभ्यागारमभिनिनर्तम्पुनः पुनः पाप्मनम्निर्हण्यात् ।

17,6.29

एवमेव एतत्स्तोत्रिय अनुरूपैरहोरात्राभ्यामसुरान्निर्घ्नन्ति ।

17,6.30

यथा अस्तुतंवनुशस्तम्भवति इति ।

17,6.31
खण्डिका 7

गायत्राण्युक्थ मुखनै शंसन्ति ।

17,7.1

तेजो ब्रह्म वर्चसम्गायत्री ।

17,7.2

तेज एव तद्ब्रह्म वर्चसम्यजमाने दधति ।

17,7.3

गायत्रीः शस्त्वा जगतीः शंसन्ति ।

17,7.4

व्याह्वयन्ते गायत्रीश्च जगतीश्च अन्तरे अ।

17,7.5

छन्दांस्येव एतन्नाना वीर्याणि कुर्वन्ति ।

17,7.6

जगतीः शस्त्वा त्रिष्टुब्भिः परिदधति ।

17,7.7

बलम्वै वीर्यम्त्रिष्टुप् ।

17,7.8

पशवो जगती ।

17,7.9

बल एव तद्वीर्ये अन्ततः पशुषु च प्रतितिष्ठन्ति ।

17,7.10

अन्धस्वत्यो मद्वत्यः पीतवत्यस्त्रिष्टुभो याज्याः समृद्धस्त्रिलक्षणाः ।

17,7.11

एतद्वै रात्रे रूपम् ।

17,7.12

जागृयू रात्रिम् ।

17,7.13

ज्योतिर्वै जागरितम् ।

17,7.14

तमः पाप्मा रात्रिः ।

17,7.15

तेन तज्ज्योतिषा तमः पाप्मानम्तरन्ति ।

17,7.16

यावदु ह वै न वा स्तूयते न वा शस्यते ।

17,7.17

तावदीश्वरा यदि न असुर रक्षसान्यन्ववपातोः ।

17,7.18

तस्मादाहवनीयम्समीद्ध्वमाग्नीध्रियम्गार्हपत्यम्धिष्ण्यान्त्समुज्ज्वलयत इति भाषेरन् ।

17,7.19

ज्वलयेयुः प्रकाशमिव एव स्यात् ।

17,7.20

आलेभन्तः शयीरन् ।

17,7.21

तान्ह तच्चेष्टन्ति न्वा इति ।

17,7.22

पाप्मा न अपधृष्णोति ।

17,7.23

ते पाप्मानमपघ्नते ते पाप्मानमपघ्नते ।

17,7.24