घर्मो वा एष प्रवृज्यते यदग्निहोत्रम् ।
2,1.1तदसौ वै घर्मो यो असौ तपति ।
2,1.2एतमेव त प्रीणाति ।
2,1.3स वै सायम्च प्रातश्च जुहोति ।
2,1.4अग्नये सायम्सूर्याय प्रातः ।
2,1.5सौर्यम्वा अहराग्नेयी रात्रिः ।
2,1.6मुखत एव तदहो रात्रे प्रीणाति ।
2,1.7पयसा जुहुयात् ।
2,1.8एष ह वै सर्वासामोषधीनाम्रसो यत्पयः ।
2,1.9सर्वैरेव तद्रसैरग्नीन्प्रीणाति ।
2,1.10तदु वा आहुर्यदशनस्य एव जुहुयात् ।
2,1.11सर्वम्वा इदमग्नेरन्नम् ।
2,1.12स्वेन एव तदन्नेन अग्नीन्प्रीणाति इति ।
2,1.13गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् ।
2,1.14श्रपणो वै गार्हपत्यः ।
2,1.15आहवन आहवनीयः ।
2,1.16तस्माद्गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् ।
2,1.17द्व्यन्तानङ्गारान्करोति ।
2,1.18इमावेव तल्लोकौ वितारयति ।
2,1.19तस्माद्द्हि इमौ लोकौ सह सन्तौ नाना इव ।
2,1.20अथ यदधिश्रित्य अवद्योतयति ।
2,1.21श्रपयत्येव एतत्तत् ।
2,1.22अथ यदपः प्रत्यानयति ।
2,1.23आपः कृत्स्नानि ह वै सर्वाणि हवींषि भवन्ति ।
2,1.24हविष एव कृत्स्नतायै ।
2,1.25अथ यत्पुनरवद्योगयति ।
2,1.26त्रिवृद्द्हि देव कर्म ।
2,1.29अनुच्छिन्दन्निव हरेति ।
2,1.30तथा ह यजमानो अप्रच्यावुको भवति ।
2,1.31अथ उपवेषेण दक्षिणतो अङ्गारानुपस्पृशति नमो देवेभ्य इति ।
2,1.32न हि नमस्कारमति देवाः ।
2,1.33सुप्रत्यूढानङ्गारान्प्रत्यूहेत् ।
2,1.34तथा ह अस्य न अन्तम चारिणो चन नश्यति ।
2,1.35चतुरुन्नयेत् ।
2,2.1चतुष्टयम्वा इदम्सर्वम् ।
2,2.2अस्य एव सर्वस्य आप्त्यै ।
2,2.3पञ्च कृत्व उन्नयेत् ।
2,2.4पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
2,2.5उपसदो अग्निहोत्रे वेदितव्याः ।
2,2.6उन्नीय उत्तरेण गार्हपत्यमुपसादयति ।
2,2.7तदिमंल्लोकमाप्नोति ।
2,2.8आहवनीये होष्यन्द्वितीयम् ।
2,2.9पालाशीम्समिधमभ्यादधाति ।
2,2.13सोमो वै पलाशः ।
2,2.14सा प्रथमा सोम आहुतिः ।
2,2.15प्रादेश मात्री भवति ।
2,2.16प्रादेश मात्रम्हि इम आत्मनो अधि प्राणाः ।
2,2.17द्व्यङ्गुलम्समिधो अतिहृत्य अनुदृभन्निव अभिजुहोति ।
2,2.18द्व्यङ्गुले वा इदम्मुखस्य अन्नम्धीयते ।
2,2.19धूमायन्त्याम्ग्राम कामस्य जुहुयात् ।
2,2.20ज्वलन्त्याम्ब्रह्म वर्चस कामस्य ।
2,2.21अङ्गारेषु पशु कामस्य ।
2,2.22अभ्याधाय इति त्वेव स्थितम् ।
2,2.23अत्र ह्येव एते सर्वे कामा उपाप्यन्त इति ।
2,2.24उभे आहुती हुत्वा जपति ।
2,2.25या यज्ञस्य समृद्धस्य आशीः सा मे समृध्यतामिति ।
2,2.26या वै यज्ञस्य समृद्धस्य आशीः सा यजमानस्य भवति ।
2,2.27उत्तराववतीर आहुतीर्जुहुयात् ।
2,2.28उत्तर उत्तरिण एव तत्स्वर्गांल्लोकानाप्नोति ।
2,2.29स्रुचो बुध्नेन अङ्गारानुपस्पृशति ।
2,2.30स्वर्ग एव तल्लोके यजमानम्दधाति ।
2,2.31द्विरुदीचीम्स्रुचमुद्यच्छति ।
2,3.1रुद्रमेव तत्स्वायाम्दिशि प्रीत्वा अवसृजति ।
2,3.2तस्माद्द्हूयमानस्य उत्तरतो न तिष्ठेत् ।
2,3.3न इदेतस्य अखिलस्य देवस्य परिप्राध्वे असानि इति ।
2,3.4तामुत्तरतः सायमुपमार्ष्टि प्रतीचीम् ।
2,3.5आदित्यम्तदस्तम्नयति ।
2,3.6दक्षिणत ऊर्ध्वाम्प्रातः ।
2,3.7आदित्यम्तदुन्नयति ।
2,3.8यत्पूर्वमुपमार्ष्टि तत्कूर्चे निलिम्पति ।
2,3.9ओषधीस्तेन प्रीणाति ।
2,3.10यद्द्वितीयम्तद्दक्षिणेन कूर्चमुत्तानम्पाणिम्निदधाति ।
2,3.11पितॄंस्तेन प्रीणाति ।
2,3.12अथ यद्द्षिप्प्रदेशिन्या प्राश्नाति ।
2,3.13गर्भान्पूर्वेण प्रीणाति ।
2,3.14तस्मादनश्नन्तो गर्भाः प्राणन्ति ।
2,3.15वयांस्युत्तरेण ।
2,3.16तस्माद्वयांसि बहु किंच किंचिदिव भक्षयन्ति श्वेतमिव प्रस्रावयन्ति ।
2,3.17अथ यत्स्रुचा भक्षयति ।
2,3.18भूतम्च तेन भव्यम्च प्रीणाति ।
2,3.19अथ यत्स्रुचम्निर्लेढि ।
2,3.20सर्व देव जनांस्तेन प्रीणाति ।
2,3.21अथ यत्स्रुचम्मार्जयते ।
2,3.22रक्षो देव जनांस्तेन प्रीणाति ।
2,3.23अथ यत्प्राचीरु उदीचीरप उत्सिञ्चति ।
2,3.24गन्धर्व अप्सरसस्तेन प्रीणाति ।
2,3.25अथ यत्प्राचीमुदीचीम्स्रुचमुद्दिशति ।
2,3.26रुद्रमेव तत्स्वायाम्दिशि दधाति ।
2,3.27एवमग्निहोत्रेण सर्वाणि भूतानि प्रीणाति ।
2,3.28आहवनीय एव जुहुयादिति ह एक आहुः ।
2,4.1सर्वेषु त्वेव जुहुयात् ।
2,4.2होमाय ह्येत आधीयन्ते ।
2,4.3चतस्रो गार्हपत्ये ।
2,4.4चतस्रो अन्वाहार्य पचने ।
2,4.5द्वे आहवनीये ।
2,4.6ता दश सम्पद्यते ।
2,4.7दश दशिनी विराट् ।
2,4.8श्रीर्विराडन्न अद्यम् ।
2,4.9श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
2,4.10स य एवम्विराट्सम्पन्नमग्निहोत्रम्जुहोति ।
2,4.11सर्वान्कामानाप्नोति ।
2,4.12अथ यद्हुत्वा अग्नीनुपतिष्ठते ।
2,4.13प्रीत्वा एव तद्देवेष्वन्ततो अर्थम्वदते ।
2,4.14यद्वेव वत्सम्स्पृशति ।
2,4.15तस्माद्वात्सप्रम् ।
2,4.16तथा ह यजमानात्पशवो अनुत्क्रामुका भवन्ति ।
2,4.17अथ यदप आचम्य व्रतम्विसृजते ।
2,4.18अप्स्वेव तद्व्रतम्दधाति ।
2,4.19ता अस्य व्रतम्गोपायन्त्या पुनर्होमात् ।
2,4.20अथो यत्प्रवत्स्यंश्च प्रोषिवांश्च अग्नीनुपतिष्ठते ।
2,4.21अभिवादो ह एष देवतायै यदुत्काशम्भवति ।
2,4.22अथो अग्निभ्य एव एतदात्मानम्परिददाति ।
2,4.23ये च एनमन्वञ्चो भवन्ति ।
2,4.24अथ यदरण्योरग्नीन्त्समारोपयते ।
2,4.25देव रथो वा अरणी ।
2,4.26देव रथ एव एनांस्तत्समारोपयते ।
2,4.27स एतेन देव रथेन स्वस्ति स्वर्गंल्लोकम्समश्नुते ।
2,4.28यद्वेव पुनः पुनर्निर्मन्थते ।
2,4.29तेनो ह एव अस्य पुनराधेयमुपाप्तम्भवति ।
2,4.30ये वै के च आनन्दा अन्ने पाने मिथुने ।
2,4.31रात्र्या एव ते संतता अव्यवच्छिन्नाः क्रियन्ते ।
2,4.32तेषाम्रात्रिः कारोतरः ।
2,4.33य उ वै के च आनन्दाः ।
2,4.34अन्नादेव ते सर्वे जायन्ते ।
2,5.1ते देवा अब्रुवन् ।
2,5.2कथम्न्विमान्वयमानन्दानस्मादृशस्य एव प्रतिगृह्णीयाम इति ।
2,5.3ते अपामूर्ध्वम्रसमुदौहन् ।
2,5.4ता ओषधयश्च वनस्पतयश्च समभवन् ।
2,5.5ओषधीनाम्च वनस्पतीनाम्च ऊर्ध्वम्रसमुदौहन् ।
2,5.6तत्फलमभवत् ।
2,5.7फलस्य ऊर्ध्वम्रसमुदौहन् ।
2,5.8तदन्नमभवत् ।
2,5.9अन्नस्य ऊर्ध्वम्रसमुदौहन् ।
2,5.10तद्रेतो अभवत् ।
2,5.11रेतस ऊर्ध्वम्रसमुदौहन् ।
2,5.12स पुरुषो अभवत् ।
2,5.13सो अयम्पुरुषो यत्प्राणिति वा अपानिति वा ।
2,5.14न तत्प्राणेन न अनापेन आह इति प्राणिषम्वा अपानिषम्वा इति ।
2,5.15वाचा एव तदाह ।
2,5.16तत्प्राण अवानौ वाचमपीतो वान्मयौ भवतः ।
2,5.17अथ यच्चक्षुषा पश्यति ।
2,5.18न तच्चक्षुषा आह इत्यद्राक्षमिति ।
2,5.19वाचा एव तदाह ।
2,5.20तच्चक्षुर्वाअचमप्येति वान्मयम्भवति ।
2,5.21अथ यत्श्रोत्रेण शृणोति ।
2,5.22न तत्श्रोत्रेण आह इत्यश्रौषमिति ।
2,5.23वाचा एव तदाह ।
2,5.24तत्श्रोत्रम्वाचमप्येति वान्मयम्भवति ।
2,5.25अथ यन्मनसा संकल्पयते ।
2,5.26न तन्मनसा आह इति समचीकॢपमिति ।
2,5.27वाचा एव तदाह ।
2,5.28तन्मनो वाचमप्येति वान्मयम्भवति ।
2,5.29अथ यदङ्गैः सुशीमम्वा दुह्शीमम्वा स्पृशति ।
2,5.30न तदङ्गैराह इति सुशीमम्वा दुह्शीमम्वा अस्प्राक्षमिति ।
2,5.31वाचा एव तदाह ।
2,5.32तत्सर्व आत्मा वाचमप्येति वान्मयो भवति ।
2,5.33तदेतदृचा अभ्युदितम् ।
2,5.34न इन्द्रादृते पवते धाम किंचन इति ।
2,5.35वाग्वा इन्द्रः ।
2,5.36न ह्यृते वाचः पवते धाम किंचन ।
2,5.37स वै सायम्जुहोत्यग्निर्ज्योतिर्ज्योतिरग्निरिति ।
2,6.1तम्ज्योतिः सन्तम्ज्योतिरित्याह ।
2,6.2स सत्यम्वदति ।
2,6.3तस्य अयम्वान्मय आत्मा सत्यमयो भवति ।
2,6.4सत्यमया उ देवाः ।
2,6.5अथ स्वाहा इति जुहोति ।
2,6.6तस्य एताम्देवाः सत्य हुतस्य आहुतिम्प्रतिगृह्णन्ति ।
2,6.7रात्र्या उ शीर्षन्त्सत्यम्वदति ।
2,6.8स यदि ह वा अपि तत ऊर्ध्वम्मृषा वदति ।
2,6.9सत्यम्ह एव अस्य उदितम्भवति ।
2,6.10रात्र्या उ हि शीर्षन्त्सत्यम्वदति ।
2,6.11अथ प्रातर्जुहोति सूर्यो ज्योतिर्ज्योतिः सूर्य इति ।
2,6.12तम्ज्योतिः सन्तम्ज्योतिरित्याह ।
2,6.13स सत्यम्वदति ।
2,6.14तस्य अयम्वान्मय आत्मा सत्यमयो भवति ।
2,6.15सत्यमया उ देवाः ।
2,6.16अथ स्वाहा इति जुहोति ।
2,6.17तस्य एताम्देवाः सत्य हुतस्य आहुतिम्प्रतिगृह्णन्ति ।
2,6.18अह्न उ शीर्षन्त्सत्यम्वदति ।
2,6.19स यदि ह वा अपि तत ऊर्ध्वम्मृषा वदति ।
2,6.20सत्यम्ह एव अस्य उदितम्भवति ।
2,6.21अह्न उ हि शीर्षन्त्सत्यम्वदति ।
2,6.22स वा एषो अग्निरुद्यत्यादित्य आत्मानम्जुहोति ।
2,6.23असावस्तम्यन्त्साये अग्नावादित्य आत्मानम्जुहोति ।
2,6.24रात्रिरेव अहन्जुहोत्यहो रात्रौ ।
2,7.1प्राण एव अपाने जुहोत्यपानः प्राणे ।
2,7.2तानि वा एतानि षड्जुह्वत्यन्योन्य आत्मानम् ।
2,7.3स य एतानि षड्जुह्वति वेद ।
2,7.4अजुह्वत एव अस्य अग्निहोत्रम्हुतम्भवति ।
2,7.5जुह्वत एव अस्य द्विर्हुतम्भवति य एवमेव ।
2,7.6स यदि ह वा अपि सुरुशादेवम्विद्वानग्निहोत्रम्जुहोति ।
2,7.7प्रति ह एव अस्य एते देवा आहुती गृह्णन्ति ।
2,7.8यस्यो ह वा अपि देवाः सकृदश्नन्ति ।
2,7.9तत एव सो अमृतः ।
2,7.10सत्यमयो ह वा अमृतमयः सम्भवति य एवम्वेद ।
2,7.11तद्यथा ह वै श्रद्धाद्सत्य वादिनस्तपस्विनो हुतम्भवति ।
2,7.12एवम्ह एव अस्य हुतम्भवति ।
2,7.13य एवम्विद्वानग्निहोत्रम्जुहोति ।
2,7.14तस्मादेवंविदग्निहोत्रम्जुहुयादिति ।
2,7.15उदिते होतव्यमनुदित इति मीमांसन्ते ।
2,7.16स य उदिते जुहोति ।
2,8.1प्रसवत एव एतन्महते देवाय आतिथ्यम्करोति ।
2,8.2अथ यो अनुदिते जुहोति ।
2,8.3सम्निहिताय एव एतन्महते देवाय आतिथ्यम्करोति ।
2,8.4तस्मादनुदिते होतव्यम् ।
2,8.5तद्द्ह अपि वृष शुष्मो वातावतः पूर्वेषामेको जीर्णिः शयानो रात्र्यामेव उभे आहुती हूयमाने दृष्ट्वा उवाच ।
2,8.6रात्र्यामेव उभे आहुती जुह्वति इति ।
2,8.7रात्र्या हि इति स ह उवाच ।
2,8.8वक्ता अस्मो न्वेव वयममुंल्लोकम्परेत्य पितृभ्यः ।
2,8.9अथो एव एनम्न श्रद्धातारः ।
2,8.10यद्वेव एतदुभये द्युरग्निहोत्रमहूयत ।
2,8.11अन्ये द्युर्वा तदेतर्हि हूयते ।
2,8.12रात्र्यामेव इत्येतदेव कुमारी गन्धर्व गृहीता उवाच ।
2,8.13रात्र्यामेव उभे आहुती जुह्वति इति ।
2,8.14रात्र्याम्हि इति सा ह उवाच ।
2,8.15संधौ जुहुयात् ।
2,8.16समुद्रो ह वा एष सर्वम्हरो यदहो रात्रे ।
2,8.17तस्य ह एते गाधे तीर्थे यत्संध्ये ।
2,8.18तद्यथा गाधाभ्याम्तीर्थाभ्याम्समुद्रमतीयात्तादृक्तत् ।
2,8.19यत्संधौ जुहोति ।
2,8.20अथो देव सेना ह वा एष अध्वगा हनिष्यन्ती यदहो रात्रे ।
2,8.21तस्या ह एते पक्षसी यत्संध्ये ।
2,8.22तद्यथा पक्षाभ्याम्क्षिप्रमध्वानमन्वियात्तादृक्तत् ।
2,8.23यत्संधौ जुहोति ।
2,8.24अथो मृत्योर्ह वा एतौ विराज बाहू यदहोरात्रे ।
2,8.25तद्यथा विराज बाहुभ्याम्परिजिग्रहीष्यन्नन्तरेण अतिमुच्येत तादृक्तत् ।
2,8.26यत्संधौ जुहोति ।
2,8.27तदु ह स्म आह कौषीतकिः ।
2,9.1सायमस्तमिते पुरा तमसस्तस्मिन्काले जुहुयात् ।
2,9.2स देव यानः केतुः ।
2,9.3तमेव आरभ्य स्वस्ति स्वर्गंल्लोकमेति ।
2,9.4प्रातः पुरोदयादपहते तमसि तस्मिन्काले जुहुयात् ।
2,9.5स देव यानः केतुः ।
2,9.6तमेव आरभ्य स्वस्ति स्वर्गंल्लोकमेति ।
2,9.9अथ यो अतो अन्यथा अग्निहोत्रम्जुहोति ।
2,9.8श्याम शबलौ ह अस्य अग्निहोत्रम्विखिदतः ।
2,9.9अहर्वै शबलः ।
2,9.10रात्रिः श्यामः ।
2,9.11स यो महा रात्रे जुहोति ।
2,9.12श्यामो ह अस्य अग्निहोत्रम्विखिदति ।
2,9.13अथ यो महा अह्ने जुहोति ।
2,9.14शबलो ह अस्य अग्निहोत्रम्विखिदति ।
2,9.15तद्वै खलु यदा एव कदाचन जुहुयात् ।
2,9.16हुत समृद्धिमेव उपासीत इति हुत समृद्धमेव उपासीत इति ।
2,9.17