अभिजित् ।
24,1.1अभिजिता वै देवा अभ्यजयन्निमांस्त्रींल्लोकान् ।
24,1.2तस्मात्स त्र्यावृच्चतुरुदयो भवति ।
24,1.3विश्वजिता अजयन्निमाश्चतस्रो दिशः ।
24,1.4तस्मात्स चतुरावृत्त्र्युदयो भवति ।
24,1.5अभिजिदभिजिता वै देवा अभ्यजयन् ।
24,1.6तदु ह अन्विव एव षषञ्ज ।
24,1.7यदजितम्पर्यशिष्यत तद्विश्वजिता अजयन् ।
24,1.8विश्वमजैष्म इति वा उ विश्वजित् ।
24,1.9तौ वा एताविन्द्राग्नी एव यदभिजिद्विश्वजितौ ।
24,1.10अग्निरेव अभिजित् ।
24,1.11अग्निर्हि इदम्सर्वमभ्यजयत् ।
24,1.12इन्द्रो विश्वजित् ।
24,1.13इन्द्रो हि इदम्सर्वम्विश्वमजयत् ।
24,1.14स वा अभिजिदुभय सामा सर्व स्तोमो भवति ।
24,1.15रथन्तरमेव अस्य प्रत्यक्षम्षष्ठम्भवति ।
24,1.16आर्भवे पवमाने बृहत् ।
24,1.17तस्मादुभयानि सूक्तानि शस्यन्ते बार्हत राथन्तराणि ।
24,1.18तस्य प्र वो देवाय अग्नये यद्वाहिष्ठम्तदग्नय इत्येते उभे तदाज्यम् ।
24,1.19प्र व इति तद्राथन्तरम्रूपम् ।
24,1.20बृहदर्च विभावसो इति बृहद्बार्हतिम् ।
24,1.21उभौ माधुच्छन्दस गार्त्समदौ प्रौगौ सम्प्रवयेत् ।
24,1.22वायव्याम्पुरोरुचम्शस्त्वा अथ उभे वायव्ये तृचे ।
24,2.1ऐन्द्र वायवीम्पुरुरुचम्शस्त्वा अथ उभे ऐन्द्र वायवे तृचे ।
24,2.2अथ पुरोरुचमथ उभे तृचे ।
24,2.3अथ पुरोरुचमथ उभे तृचे ।
24,2.4एवमेव सम्प्रवयेत् ।
24,2.5माधुच्छन्दसान्येव पूर्वाणि तृचानि करोति गार्त्समदान्युत्तराणि ।
24,2.6तदु वा आहुः किम्तदुभौ सम्प्रवयेत् ।
24,2.7माधुच्छन्दस एव प्रौगे सति गार्त्समदम्वैश्वदेवमुपरिष्टान्माधुच्छन्दसस्य वैश्वदेवस्य पर्याहरेत् ।
24,2.8तद्वा अत्र एकम्निरुक्त बार्हतम् ।
24,2.9विश्वे देवास आ गत शृणुता म इमम्हवम् ।
24,2.10आ इदम्बर्हिर्नि षीदत इति ।
24,2.11बर्हिरिति तद्बार्हतम्रूपम् ।
24,2.12अथ माधुच्छन्दसम्सारस्वतम्शस्त्वा तस्य एव उत्तमया परिदध्यादिति ।
24,2.13ऐकाहिकम्प्रातः सवनम्स्यादिति सा स्थितिः ।
24,2.14एकाहो वा अभिजित् ।
24,2.15प्रतिष्ठा वा एकाहह प्रतिष्ठित्या एव ।
24,2.16जनिष्ठा उग्रः सहसे तुराय इति गौरिवीतम्पूर्वम्शस्त्वा इन्द्र पिब तुभ्यम्सुतो मदाय इत्येतस्मिन्बार्हते पञ्चर्चे निविदम्दधाति ।
24,3.1इन्द्रस्य नु वीर्याणि प्र वोचमिति हैरण्य स्तूपम्पूर्वम्शस्त्वा या त ऊतिरवमा या परमा इत्येतस्मिन्बार्हते नवर्चे निविदम्दधाति ।
24,3.2एवम्नु यदि रथन्तरम्पृष्ठम्भवति ।
24,3.3यद्यु बृहत् ।
24,3.4बार्हते पूर्वे शस्त्वा राथन्तरयोर्निविदौ दध्यादिति ।
24,3.5एक सूक्ते निष्केवल्य मरुत्वतीये स्यातामिति सा स्थितिः ।
24,3.6पिबा सोममभि यमुग्र तर्दस्तमु ष्टुहि यो अभिभूत्योजा इत्यभिवती ।
24,3.7तदभिजितो रूपम् ।
24,3.8अथ नित्यमेव ऐकाहिकम्तृतीय सवनम् ।
24,3.9एकाहो वा अभिजित् ।
24,3.10प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
24,3.11स्वर्भानुर्ह वा आसुर आदित्यम्तमसा अविध्यत् ।
24,4.1तस्य अत्रयस्तमो अपजिघांसन्त एतम्सप्तदश स्तोमम्त्र्यहम्पुरस्ताद्विषुवत उपायन् ।
24,4.2तस्य पुरस्तात्तमो अपजघ्नुः ।
24,4.3तत्पुरस्तादसीदत् ।
24,4.4त एतमेव त्र्यहमुपरिष्टाद्विषुवत उपायन् ।
24,4.5तस्य उपरिष्टात्तमो अपजघ्नुः ।
24,4.6तत्परस्तादसीदत् ।
24,4.7तद्य एवम्विद्वांस एतम्त्र्यहमुभयतो विषुवन्तमुपयन्ति ।
24,4.8उभाभ्यामेव ते लोकाभ्याम्यजमानाः पाप्मानमपघ्नते ।
24,4.9तान्वै स्वर सामान इत्याचक्षते ।
24,4.10एतैर्ह वा अत्रय आदित्यम्तमसो अस्पृण्वत ।
24,4.11तद्यदस्पृण्वत ।
24,4.12तस्मात्स्वर सामानः ।
24,4.13तदेतदृचा अभ्युदितम् ।
24,4.14यम्वै सूर्यम्स्वर्भानुस्तमसा अविध्यदासुरः ।
24,4.15अत्रयस्तमन्वविन्दन्न अह्यन्ये अशक्नुवन्निति ।
24,4.16स्वर सामानो ह वा एतेन अभ्युक्ताः ।
24,4.17कद्वन्ति मरुत्वतीयानि भवन्ति ।
24,4.18कद्वन्तो निष्केवल्येषु प्रगाथाः ।
24,4.19को वै प्रजापतिः ।
24,4.20प्रजापतिः स्वर सामानः ।
24,4.21आनुष्टुभानि निविद्धानानि भवन्ति ।
24,4.22आपो वा अनुष्टुप् ।
24,4.23आपः स्वर सामानः ।
24,4.24अद्भिर्हि इदम्सर्वमनुष्तब्धम् ।
24,4.25उभयतो ह्यमुमादित्यमापो अवस्ताच्च उपरिष्टाच्च ।
24,4.26तदेतदृचा अभ्युदितम् ।
24,4.27या रोचने परस्तात्सूर्यस्य याश्च अवस्तादुपतिष्ठन्त आप इति ।
24,4.28आ यज्ञैर्देव मर्त्य इति प्रथमस्य स्वर साम्न आज्यमावद्राथन्तरम् ।
24,5.1बृहद्वयो हि भानव इति द्वितीयस्य बृहद्बार्हतम् ।
24,5.2अग्न ओजिष्ठमा भर इति तृतीयस्य आवद्राथन्तरम् ।
24,5.3माधुच्छन्दसः प्रथमस्य स्वर साम्नः प्रौगः ।
24,5.4गार्त्समदो द्वितीयस्य ।
24,5.5औष्णिह आत्रेयस्तृतीयस्य ।
24,5.6तेषामुक्तम्ब्राह्मणम् ।
24,5.7अन्वायत्ता मरुत्वतीयानाम्प्रतिपदनुचरा अन्वायत्ता ब्राह्मणस्पत्यास्त्र्यह रूपेण ।
24,5.8तेषामुक्तम्ब्राह्मणम् ।
24,5.9क्व स्य वीरः को अपश्यदिन्द्रमिति प्रथमस्य स्वर साम्नो मरुत्वतीयम्क्व इति कद्वत् ।
24,5.10कया शुभा सवयसः सनीडा इति द्वितीयस्य कया इति कद्वत् ।
24,5.12को वै प्रजापतिः ।
24,5.13प्रजापतिः स्वर सामानः ।
24,5.14यज्जायथा अपूर्व्या इत्येतस्मिन्नु ह एके बृहती तृतीये स्तोत्रिये अन्वहम्स्वराण्यन्वायातयन्ति ।
24,5.15ते यदि तथा कुर्युः ।
24,5.16एतावेव स्तोत्रिया अनुरूपावेषा धाय्या ।
24,5.17कन्नव्यो अतसीनामिति कद्वान्प्रगाथस्तस्य उक्तम्ब्राह्मणम् ।
24,5.18अथ रथन्तरस्य योनिस्तस्या उक्तम्ब्राह्मणम् ।
24,5.19यमिन्द्र दधिषे त्वमिति द्वृचो अनेक पातितायै ।
24,5.20न इदसौ बृहत्येकाकिनी इव शस्ता असदिति ।
24,5.21इन्द्र तुभ्यमिन्मघवन्नभूम इति विज्ञात त्रैष्टुभम्सवन धरणम्तस्य उक्तम्ब्राह्मणम् ।
24,5.22यस्ते साधिष्ठो अवस इत्यानुष्टुभम्निष्केवल्यम्तस्य उक्तम्ब्राह्मणम् ।
24,5.23इन्द्र क्रतुष्टमा भर इत्यावद्राथन्तरम् ।
24,5.24इत्यु वा उ प्रथमस्य ।
24,6.1कदू न्वस्य अकृतमिति कद्वान्प्रगाथस्तस्य उक्तम्ब्राह्मणम् ।
24,6.2अथ बृहतो योनिस्तस्या उक्तम्ब्राह्मणम् ।
24,6.3स्वरन्ति त्वा सुते नर इति द्वृचो अनेक पातितायै ।
24,6.4न इदसौ बृहत्येकाकिनी इव शस्ता असदिति ।
24,6.5अध्वर्यो वीर प्र महे सुतानामिति विज्ञात त्रैष्टुभम्सनव धरणम्तस्य उक्तम्ब्राह्मणम् ।
24,6.6गायन्ति त्वा गायत्रिण इत्यानुष्टुभम्निष्केवल्यम्तस्य उक्तम्ब्राह्मणम् ।
24,6.7उद्वंशमिव येमिर इत्युद्वद्बार्हतम् ।
24,6.8इत्यु वा उ द्वितीयस्य ।
24,6.9इमा उ त्वा प्रूरवसो इति प्रगाथः पावक वर्णाः कवर्णा इति कद्वांस्तस्य उक्तम्ब्राह्मणम् ।
24,6.10अथ रथन्तरस्य योनिरथ बृहतस्तयोरुक्तम्ब्राह्मणम् ।
24,6.11दाना मृगो न वारण इति द्वृचो अनेक पातितायै ।
24,6.12न इदसौ बृहत्येकाकिनी इव शस्ता असदिति ।
24,6.13इदम्त्यत्पात्रमिन्द्र पानमिति विज्ञात त्रैष्टुभम्सवन धरणम्तस्य उक्तम्ब्रह्मणम् ।
24,6.14इन्द्रम्विश्वा अवीवृधन्नित्यानुष्टुभम्निष्केवल्यम्तस्य उक्तम्ब्राह्मणम् ।
24,6.15त्वामभि प्र णोनुम इत्यभिवत् ।
24,6.16तद्राथन्तरम्रूपम् ।
24,6.17इत्यु वा उ तृतीयस्य ।
24,6.18एवम्नु यदि स्वर पृष्ठा भवन्ति ।
24,6.19यदि वा स्वर योनिषु बृहद्रथन्तरे ऊढे स्याताम् ।
24,6.20एतदेव शस्त्रमविकृतम् ।
24,6.21यद्यु बृहद्रथन्तरे पृष्ठे कुर्युः ।
24,6.22प्रजाता स्तोत्रिया अनुरूपा बार्हत राथन्तराः प्रज्ञाता धाय्या ।
24,6.23साम्नोः प्रगाथौ पूर्वौ शस्त्वा कद्वतः प्रगाथान्शंसन्ति ।
24,7.1उद्धरति द्वेचांश्च सवन धरणानि च ।
24,7.2तदाहुर्न अनुष्टुप्सु निविदम्दध्यान्मोहयति क्लृप्तच्छन्दसो मध्यंदिनमिति ।
24,7.3आनुष्टुभानि पूर्वाणि शस्त्वा कामस्य उपाप्त्यै त्रैष्टुभेषु निविदम्दधाति ।
24,7.4अर्वाग्रथम्विश्व वारम्त उग्र इति प्रथमे अहन्यावति राथन्तरे ।
24,7.5अपादित उदु नश्चित्रतम इति द्वितीय उद्वति बार्हते ।
24,7.6सम्च त्वे जग्मुर्गिर इन्द्र पूर्वीरिति तृतीये गतवयन्त रूपे ।
24,7.7तथा यथा यथम्निविद्धीयते ।
24,7.8सा एनान्यथा यथम्धीयमाना सर्वेषु च लोकेषु सर्वेषु च कामेषु यथा यथम्दधाति ।
24,7.9यदि स्वराणि पृष्ठानि भवन्ति ।
24,7.10बृहद्रथन्तरे एव तर्हि सामगाह पवमानेषु कुर्वन्ति ।
24,7.11यदि बृहद्रथन्तरे पृष्ठे स्याताम् ।
24,7.12स्वराणि तर्हि सामगाः पवमानेषु कुर्वन्ति ।
24,7.13स्वराणि त्वेव पृष्ठानि स्युरिति ह स्म आह कौषीतकिः ।
24,7.14स्वर सामानो ह्येते ।
24,7.15पृष्ठैर्वै देवाः स्वर्गम्लोकमस्प्रक्षन् ।
24,7.16तद्यत्स्वराणि पृष्ठानि भवन्ति ।
24,7.17स्वर्गस्य एव लोकस्य स्पृष्ट्या इति ।
24,7.18पृष्ठ्यस्य षडहस्य समूढस्य याः पूर्वस्य त्र्यहस्य वैश्वदेवानाम्प्रतिपदस्ताः प्रतिपदः ।
24,8.1यान्युत्तरस्य त्र्यहस्य तृतीय सवनानि तानि तृतीय सवनानि सानुचराणि ।
24,8.2तद्यानि तत्र वैश्वदेवानि तान्युद्धृत्य अन्यान्यन्यान्यनिरुक्तानि प्राजापत्यानि परोक्ष वैश्वदेवान्यवधीयन्ते ।
24,8.3प्र वः पान्तम्रघु मन्यवो अन्धस्तम्प्रत्नथा पूर्वथा विश्वथा ईमथा कदित्था नॄन्ः पात्रम्देवयतामिति ।
24,8.4प्रति नाभानेदिष्ठः ।
24,8.5तद्वै खलु प्रत्यक्ष वैश्वदेवान्येव अवधीयेरन् ।
24,8.6अग्निरिन्द्रो वरुणो मित्रो अर्यमा इति प्रथमे अहनि द्याम्स्कभित्वी इति कद्वत् ।
24,8.7देवान्हुवे बृहत्श्रवसः स्वस्तय इति द्वितीये ज्योतिष्कृत इति कद्वत् ।
24,8.8उषासा नक्ता बृहती सुपेशसा इति तृतीये नक्ता इति कद्वत् ।
24,8.9को वै प्रजापतिः ।
24,8.10प्रजापतिः स्वर सामानः ।
24,8.11ते अग्निष्टोमा वा उक्थ्या वा संतिष्ठन्ते ।
24,8.12अग्निष्टोमा इति पैङ्ग्यम् ।
24,8.13ब्रह्म वर्चसिनो भवन्ति ये अग्निष्टोमानुपयन्ति ।
24,8.14उक्थ्याः स्युरिति ह स्म आह कौषीतकिः ।
24,8.15स वै यज्ञ क्रतुः समृद्धो य उक्थ्यः ।
24,8.16पञ्चदश ह्यस्य स्तोत्राणि भवन्ति ।
24,8.17पञ्चदश शस्त्राणि ।
24,8.18तानि त्रिंशत्स्तुत शस्त्राणि ।
24,8.19स विराजमभिसम्पद्यते ।
24,8.20श्रीर्विराडन्न अद्यम् ।
24,8.21श्रियो विराजो अन्न अद्यस्य उपाप्त्यै श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
24,8.22