मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 7

3
खण्डिका 1

वाग्दीक्षा ।

7,1.1

वाचा हि दीक्षते ।

7,1.2

प्राणो दीक्षितः ।

7,1.3

वाचा वै दीक्षया देवाः प्राणेन दीक्षितेन सर्वान्कामानुभयतः परिगृह्य आत्मन्नदधत ।

7,1.4

तथो एव एतद्यजमानो वाचा एव दीक्षता प्राणेन दीक्षितेन सर्वान्कामानुभयतः परिगृह्य आत्मन्धत्ते ।

7,1.5

आग्नावैष्णवमेकादश कपालम्पुरोडाशम्निर्वपति ।

7,1.6

अग्निर्वै देवानामवर अर्ध्यो विष्णुः पर अर्ध्यः ।

7,1.7

तद्यश्चैव देवानामवर अर्ध्यो यश्च पर अर्ध्यः ।

7,1.8

ताभ्यामेव एतत्सर्वा देवताः परिगृह्य सलोकतामाप्नोति ।

7,1.9

तस्मात्कामम्पूर्वो दीक्षित्वा संसुनुयात् ।

7,1.10

पूर्वस्य ह्यस्य देवताः परिगृहीता भवन्ति ।

7,1.11

अशरीराभिः प्राण दीक्षाभिर्दीक्षते ।

7,1.12
खण्डिका 2

प्राणा वै प्रयाजा अपाना अनुयाजाः ।

7,2.1

तद्यत्प्रयाज अनुयाजैश्चरन्ति ।

7,2.2

तत्प्राण अपाना दीक्षन्ते ।

7,2.3

यद्द्हविषा तत्शरीरम् ।

7,2.4

सो अयम्शरीरेण एव दीक्षमाणेन सर्वान्कामानाप्नोति ।

7,2.5

प्राण अपानैर्दीक्षमाणैः सर्वासाम्देवतानाम्सलोकताम्सायुज्यम् ।

7,2.6

पञ्चदश सामिधेनीरन्वाह ।

7,2.7

वज्रो वै सामिधेन्यः ।

7,2.8

पञ्चदशो वै वज्रः ।

7,2.9

वार्त्रघ्नावाज्य भागौ भवतः ।

7,2.10

वज्रो वार्त्रघ्नावाज्य भागौ ।

7,2.11

त्रिष्टुभौ हविषो याज्या पुरोनुवाक्ये ।

7,2.12

वज्रस्त्रिष्टुप् ।

7,2.13

एतेन वै देवास्त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो असुराननुदन्त ।

7,2.14

तथो एव एतद्यजमान एतेन एव त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते ।

7,2.15

वज्रो वार्त्रघ्नावाज्य भागौ ता उक्तौ ।

7,2.16

अथ अतो हविषो याज्या पुरोनुवाक्ये ।

7,2.17

उप वाम्जिह्वा घृतमाचरण्यदित्यावती ।

7,2.18

तत्पुरोनुवाक्या रूपम् ।

7,2.19

प्रति वाम्जिह्वा घृतमुच्चरण्यदित्युद्वती ।

7,2.20

तद्याज्या रूपम् ।

7,2.21

त्रिष्टुभौ सम्याज्ये ।

7,2.22

बलम्वै वीर्यम्त्रिष्टुप् ।

7,2.23

बलमेव तद्वीर्यम्यजमाने दधाति ।

7,2.24
खण्डिका 3

आगुर उदृचमिति इडायाम्च सूक्त वाके च आह ।

7,3.1

यदा वा आग्नावैष्णवः पुरोडाशो निरुप्यते ।

7,3.2

अथ एव दीक्षित इति ह स्म आह ।

7,3.3

तस्मादागुर उदृचमित्येव ब्रूयात् ।

7,3.4

यथा एव दीक्षितस्य न सूक्त वाके यजमानस्य नाम गृह्णाति ।

7,3.5

देव गर्भो वा एष यद्दीक्षितः ।

7,3.6

न वा अजातस्य गर्भस्य नाम कुर्वन्ति ।

7,3.7

तस्मादस्य नाम न गृह्णाति ।

7,3.8

न वेदे पत्नीम्वाचयति न एवम्स्तृणाति ।

7,3.9

असंस्थित इव वा अत्र यज्ञो यत्सौम्यो अध्वरः ।

7,3.10

न इत्पुरा कालात्सौम्यमध्वरम्संस्थापयानि इति ।

7,3.11

तदाहुः कस्माद्दीक्षितस्य अशनम्न अश्नन्ति इति ।

7,3.12

हविरेष भवति यद्दीक्षते ।

7,3.13

तद्यथा हविषो अनवत्तस्य अश्नीयादेवम्तत् ।

7,3.14

कामम्प्रसूते अश्नीयात् ।

7,3.15

तद्यथा हविषो यात यामस्य अश्नीयादेवमु तत् ।

7,3.16

तदाहुः कस्माद्दीक्षितस्य अन्ये नाम न गृह्णन्ति इति ।

7,3.17

अगिम्वा आत्मानम्दीक्षमाणो अभिदीक्षते ।

7,3.18

तद्यदस्य अन्ये नाम न गृह्णन्ति ।

7,3.19

न इदग्निमासीदाम इति ।

7,3.20

यदु सो अन्यस्य नाम न गृह्णाति ।

7,3.21

न इदेनमग्नि भूतः प्रदहानि इति ।

7,3.22

यमेव दिष्यात् ।

7,3.23

तस्य दीक्षितः सन्नाम ग्रसेत एव ।

7,3.24

तदेव एनमग्नि भूतः प्रदहति ।

7,3.25

अथ यमिच्छेत् ।

7,3.26
खण्डिका 4

विचक्षणवत्या वाचा तस्य नाम गृह्णीयात् ।

7,4.1

सो तत्र प्रायश्चित्तिः ।

7,4.2

चक्षुर्वै विचक्षणम् ।

7,4.3

चक्षुषा हि विपश्यति ।

7,4.4

एका ह त्वेव व्याहृतिर्दीक्षित वादः सत्यमेव ।

7,4.5

स यः सत्य वदति ।

7,4.6

स दीक्षित इति ह स्म आह ।

7,4.7

तदाहुः कस्माद्दीक्षितो अग्निहोत्रम्न जुहोति इति ।

7,4.8

असुरा वा आत्मन्नजुहवुरुद्वाते अनग्नौ ।

7,4.9

ते पराभवन्ननग्नौ जुह्वतः ।

7,4.10

अथ देवा इममेव प्राणमग्निमन्तरा अदधत ।

7,4.11

तद्यत्सायम्प्रातर्व्रतम्प्रदीयते ।

7,4.12

अग्निहोत्रम्ह एव अस्य एतदस्मिन्प्राणे अग्नौ संततमव्यवच्छिन्नम्जुहोति ।

7,4.13

एषा अग्निहोत्रस्य संततिर्दीक्षासु ।

7,4.14

प्र उपसत्सु चरन्ति ।

7,4.15

का मीमांसा सुत्यायाम् ।

7,4.16
खण्डिका 5

अथ अतः कैशिनी दीक्षा ।

7,5.1

केशी ह दार्भ्यो दीक्षितो निषसाद ।

7,5.2

तम्ह हिरण्मयः शकुन आपत्य उवाच ।

7,5.3

अदीक्षितो वा असि दिक्षामहम्वेद ताम्ते ब्रवाणि ।

7,5.4

सकृदयजे तस्य क्षयाद्बिभेमि ।

7,5.5

सकृदिष्टस्य हो त्वमक्षितिम्वेत्थ ताम्त्वम्मह्यमिति ।

7,5.6

स ह तथा इत्युवाच ।

7,5.7

तौ ह सम्प्रोचाते ।

7,5.8

स ह स आस ।

7,5.9

उलो वा वार्ष्ण वृद्ध इटन्वा काव्यः शिखण्डी वा याज्ञसेनः ।

7,5.10

यो वा स आस स स आस ।

7,5.11

स ह उवाच ।

7,5.12

शरीराणि वा एतया इष्ट्या दीक्षन्ते ।

7,5.13

या वा इमाः पुरुषे देवताः ।

7,5.14

यस्य एता दीक्षन्ते ।

7,5.15

स दीक्षित इति ह स्म आह ।

7,5.16
खण्डिका 6

स यत्र अध्वर्युरौद्ग्रभणानि जुहोति ।

7,6.1

तदुप यजमानः पञ्च आहुतीर्जुहुयात् ।

7,6.2

मनो मे मनसा दीक्षताम्स्वाहा इति प्रथमाम् ।

7,6.3

वान्मे वाचा दीक्षताम्स्वाहा इति द्वितीयाम् ।

7,6.4

प्राणो मे प्राणेन दीक्षताम्स्वाहा इति तृतीयाम् ।

7,6.5

मध्ये प्राणमाह ।

7,6.6

मध्ये ह्ययम्प्राणः ।

7,6.7

चक्षुर्मे चक्षुषा दीक्षताम्स्वाहा इति चतुर्थीम् ।

7,6.8

श्रोत्रम्मे श्रोत्रेण दीक्षताम्स्वाहा इति पञ्चमीम् ।

7,6.9

तदु ह स्म आह कौषीतकिः ।

7,6.10

न होतव्याः ।

7,6.11

अतिरिक्ता आहुतयः स्युर्यद्द्हूयेरन् ।

7,6.12

अध्वर्युमेव जुह्वतमन्वारभ्य प्रतीकैरनुमन्त्रयेत् ।

7,6.13

मनो मे मनसा दीक्षतामिति प्रथमाम् ।

7,6.14

वान्मे वाचा दीक्षतामिति द्वितीयाम् ।

7,6.15

प्राणो मे प्राणेन दीक्षतामिति तृतीयाम् ।

7,6.16

मध्ये प्राणमाह ।

7,6.17

मध्ये ह्ययम्प्राणः ।

7,6.18

चक्षुर्मे चक्षुषा दीक्षतामिति चतुर्थीम् ।

7,6.19

श्रोत्रम्मे श्रोत्रेण दीक्षतामिति पञ्चमीम् ।

7,6.20

दीक्षयत्यु ह एव एता याः पुरुषे देवताः ।

7,6.21

नो अतिरिक्ता आहुतयो हूयन्त इति ।

7,6.22

अथ खलु श्रद्धा एव सकृदिष्टस्य अक्षितिः ।

7,6.23

स यः श्रद्दधानो यजते ।

7,6.24

तस्य इष्टम्न क्षीयते ।

7,6.25

आपो अक्षितिः ।

7,6.26

या इमा एषु लोकेषु याश्च इमा अध्यात्मम् ।

7,6.27

स यो अम्मय्यक्षितिरिति विद्वान्यजते ।

7,6.28

तस्य इष्टम्न क्षीयते ।

7,6.29

एतामु ह एव तत्केशी दार्भ्यो हिरण्मयाय शकुनाय सकृदिष्टस्य अक्षितिम्प्रोवाच ।

7,6.30

अपर अह्णे दीक्षते ।

7,6.31

अपर अह्णे ह वा एष सर्वाणि भूतानि संवृङ्क्ते ।

7,6.32

अपि ह वा एनम्रजना अतियन्ति ।

7,6.33

तस्माल्लोहितायान्निव अस्तंवा इति ।

7,6.34

एतंवा इव आत्मानम्दीक्षमाणो अभिदीक्षते ।

7,6.35

तद्यदपर अह्णे दीक्षते ।

7,6.36

सर्वेषामेव कामानामाप्त्यै ।

7,6.37
खण्डिका 7

प्रायणीयेन वै देवाः प्राणमाप्नुवन्नुदयनीयेन उदानम् ।

7,7.1

तथो एव एतद्यजमानः प्रायणीयेन एव प्राणमाप्नोत्युदयनीयेन उदानम् ।

7,7.2

तौ वा एतौ प्राण उदानावेव यत्प्रायणीय उदयनीये ।

7,7.3

तस्माद्य एव प्रायणीयस्य ऋत्विजस्त उदयनीयस्य स्युः ।

7,7.4

समानौ हि इमौ प्राण उदानौ ।

7,7.5

प्रायणीयेन ह वै देवाः स्वर्गंल्लोकमभिप्रयाय दिशो न प्रजज्ञुः ।

7,7.6

तानग्निरुवाच ।

7,7.7

मह्यमेकामाज्य आहुतिम्जुहुत अहमेकाम्दिशम्प्रज्ञास्यामि इति ।

7,7.8

तस्मा अजुहवुः ।

7,7.9

स प्राचीम्दिशम्प्राजानात् ।

7,7.10

तस्मात्प्राञ्चमग्निम्प्रणयन्ति ।

7,7.11

प्रान्यज्ञस्तायते ।

7,7.12

प्राञ्च उ एव अस्मिन्नासीना जुह्वति ।

7,7.13

एषाहि तस्य दिक्प्रज्ञाता ।

7,7.14

अथ अब्रवीत्सोमः ।

7,7.15

मह्यमेकामाज्य आहुतिम्जुहुत अहमेकाम्दिशम्प्रज्ञास्यामि इति ।

7,7.16

तस्मा अजुहवुः ।

7,7.17

स दक्षिणाम्दिशम्प्राजानात् ।

7,7.18

तस्मात्सोमम्क्रीतम्दक्षिणा परिवहन्ति ।

7,7.19

दक्षिणा तिष्ठन्नभिष्टौति ।

7,7.20

दक्षिणा तिष्ठन्परिदधाति ।

7,7.21

दक्षिणो एव एनमासीना अभिषुण्वन्ति ।

7,7.22

एषा हि तस्य दिक्प्रज्ञाता ।

7,7.23

अथ अब्रवीत्सविता ।

7,7.24

मह्यमेकामाज्य आहुतिम्जुहुत अहमेकाम्दिशम्प्रज्ञास्यामि इति ।

7,7.25

तस्मा अजुहवुः ।

7,7.26

स प्रतीचीम्दिशम्प्राजानात् ।

7,7.27

तदसौ वै सविता यो असौ तपति ।

7,7.28

तस्मादेतम्प्रत्यञ्चमेव अहरहर्यन्तम्पश्यन्ति न प्राञ्चम् ।

7,7.29

एषा हि तस्य दिक्प्रज्ञाता ।

7,7.30

अथ अब्रवीत्पथ्या स्वस्तिः ।

7,7.31

मह्यमेकामाज्य आहुतिम्जुहुत अहमेकाम्दिशम्प्रज्ञास्यामि इति ।

7,7.32

तस्या अजुहवुः ।

7,7.33

सा उदीचीम्दिशम्प्राजानात् ।

7,7.34

वाग्वै पथ्या स्वस्तिः ।

7,7.35

तस्मादुदीच्याम्दिशि प्रज्ञाततरा वागुद्यते ।

7,7.36

उदञ्च उ एव यन्ति वाचम्शिक्षितुम् ।

7,7.37

यो वा तत आगच्छति ।

7,7.38

तस्य वा शुश्रूषन्त इति ह स्म आह ।

7,7.39

एषा हि वाचो दिक्प्रज्ञाता ।

7,7.40
खण्डिका 8

अथ अब्रवीददितिः ।

7,8.1

मह्यमेकामन्न आहुतिम्जुहुत अहमेकाम्दिशम्प्रज्ञास्यामि इति ।

7,8.2

तस्या अजुहवुः ।

7,8.3

सा ऊर्ध्वाम्दिशम्प्राजानात् ।

7,8.4

इयम्वा अदितिः ।

7,8.5

तस्मादस्यामूर्ध्वा ओषधय ऊर्ध्वा वनस्पतय ऊर्ध्वा मनुष्या उत्तिष्ठन्ति ।

7,8.6

ऊर्ध्वो अग्निर्दीप्यते ।

7,8.7

यदस्याम्किंच ऊर्ध्वमेव तदायत्तम् ।

7,8.8

एषा हि तस्यै दिक्प्रज्ञाता ।

7,8.9

एवम्वै देवाः प्रायणीयेन स्वर्गंल्लोकम्प्राजानत् ।

7,8.10

तथो एव एतद्यजमान एवमेव प्रायणीयेन एव स्वर्गंल्लोकम्प्रजानाति ।

7,8.11

ते समे स्याताम्प्रायणीय उदयनीये ।

7,8.12

देव रथो वा एष यद्यज्ञः ।

7,8.13

तस्य एते पक्षसी यत्प्रायणीय उदयनीये ।

7,8.14

ते यः समे कुरुते ।

7,8.15

यथा उभयतः पक्षसा रथेन उग्र वाहणेन धावयन्नध्वानम्यत्र अकूतम्समश्नुवीत ।

7,8.16

एवम्स स्वस्ति स्वर्गंल्लोकम्समश्नुते ।

7,8.17

अथ यो विषमे कुरुते ।

7,8.18

यथा अन्यतरतः पक्षसा रथेन उग्र वाहणेन धावयन्नध्वानम्यत्र अकूतम्न समश्नुवीत ।

7,8.19

एवम्स न स्वस्ति स्वर्गंल्लोकम्समश्नुते ।

7,8.20

तस्मात्समे एव स्याताम्प्रायणीय उदयनीये ।

7,8.21
खण्डिका 9

शम्युवन्तम्प्रायणीयम्शम्य्वन्तमुदयनीयम् ।

7,9.1

पथ्याम्स्वस्तिम्प्रथमाम्प्रायणीये यजति ।

7,9.2

अथ अग्निमथ सोममथ सवितारमथ अदितिम् ।

7,9.3

स्वर्गम्वै लोकम्प्रायणीयेन अभिप्रैति ।

7,9.4

तद्यत्पुरस्तात्पथ्याम्स्वस्तिम्यजति ।

7,9.5

स्वस्त्ययनमेव तत्कुरुते स्वर्गस्य लोकस्य समष्ट्यै ।

7,9.6

अग्निम्पथममुदयनीये यजति ।

7,9.7

अथ सोममथ सवितारमथ पथ्याम्स्वस्तिमथ अदितिम् ।

7,9.8

इमम्वै लोकमुदयनीयेन प्रत्येति ।

7,9.9

तद्यत्परस्तात्पथ्याम्स्वस्तिम्यजति ।

7,9.10

स्वस्त्ययनमेव तत्कुरुते अस्य लोकस्य समष्ट्यै ।

7,9.11

ता वै पञ्च देवता यजति ।

7,9.12

ताभिर्यत्किंच पञ्चविधमधिदैवतमध्यात्मम्तत्सर्वमाप्नोति ।

7,9.13

तासाम्याज्या पुरोनुवाक्याः ।

7,9.14

ता वै स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति ।

7,9.15

मरुतो ह वै देव विशो अन्तरिक्ष भाजना ईश्वरा यजमानस्य स्वर्गंल्लोकम्यतो यज्ञ पेशसम्कर्तोः ।

7,9.16

तद्यत्स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति ।

7,9.17

न एनम्मरुतो देव विशो हिंसन्ति ।

7,9.18

स्वस्ति स्वर्गंल्लोकम्समश्नुते ।

7,9.19
खण्डिका 10

ता वै विपर्यस्यति ।

7,10.1

याः प्राय्णीयायाम्पुरोनुवाक्यास्ता उदयनीयायाम्याज्याः करोति ।

7,10.2

या याज्यास्ताः पुरोनुवाक्याः ।

7,10.3

प्र इव वा एषो अस्माल्लोकाच्च्यवते यः प्रायणीयेन अभिप्रैति ।

7,10.4

तद्यद्विपर्यस्यति ।

7,10.5

तदस्मिंल्लोके प्रतितिष्ठति ।

7,10.6

प्रतिष्ठायामप्रच्युत्याम् ।

7,10.7

अथो प्राणा वै छन्दांसि ।

7,10.8

प्राणानेव तदात्मन्व्यतिषजत्यविवर्हाय ।

7,10.9

तस्माद्द्हि इमे प्राणा विष्वञ्चो वान्तो न निर्वान्ति ।

7,10.10

त्वाम्चित्र श्रवस्तम यद्वाहिष्ठम्तदग्नय इत्यनुष्टुभौ सम्याज्ये ।

7,10.11

ततिर्वै यज्ञस्य प्रायणीयम् ।

7,10.12

वागनुष्टुप् ।

7,10.13

वाचा यज्ञस्तायते ।

7,10.14

न एते विपर्यस्यति ।

7,10.15

प्रतिष्ठे वै सम्याज्ये ।

7,10.16

न इत्प्रतिष्ठे व्यतिषजानि इति ।

7,10.17
खण्डिका 11

सम्य्वन्तम्भवति ।

7,11.1

अभिक्रान्त्यै तद्रूपम् ।

7,11.2

तद्यथा उपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायाम्वसेदेवम्तत् ।

7,11.3

यद्वेव शम्य्वन्तम्भवति ।

7,11.4

सर्वा ह वै देवताः प्रायणीये संगच्छन्ते ।

7,11.5

स यो अत्र सम्याजयेत् ।

7,11.6

यथा संगतम्भूमानम्देवानाम्पत्नीरभ्यवनयेदेवम्तत् ।

7,11.7

यस्तम्तत्र ब्रूयात् ।

7,11.8

संगताम्वा अयम्भूमानम्देवानाम्पत्नीरभ्यवानैषीत् ।

7,11.9

सभामस्य पत्न्यभ्यवैष्यति इति तथा ह स्यात् ।

7,11.10

तस्मादु शम्य्वन्तम्भवति ।

7,11.11

देवतानामसमराय ।

7,11.12

असुरा वै अस्याम्दिशि देवान्त्समरुन्धन्या इयम्प्राच्युदीची ।

7,11.13

त एतस्याम्दिशि सन्तः सोमम्राज्याय अभ्यषिञ्चन्त ।

7,11.14

ते सोमेन राज्ञा एभ्यो लोकेभ्यो असुराननुदन्त ।

7,11.15

तथो एव एतद्यजमानः सोमेन एव राज्ञा एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते ।

7,11.16
खण्डिका 12

तम्वै चतुर्भिः क्रीणाति गवा चन्द्रेण वस्त्रेण छागया ।

7,12.1

आ चतुरम्वै द्वन्द्वम्मिथुनम्प्रजननम्प्रजात्यै ।

7,12.2

तदसौ वै सोमो राजा विचक्षणश्चन्द्रमाः ।

7,12.3

स इमम्क्रीतमेव प्रविशति ।

7,12.4

तद्यत्सोमम्राजानम्क्रीणाति ।

7,12.5

असौ वै सोमो राजा विचक्षणश्चन्द्रमा अभिषुतो असदिति ।

7,12.6

तस्मै क्रीताय नव अन्वाह ।

7,12.7

नव इमे प्राणाः ।

7,12.8

प्राणानेव तद्यजमाने दधाति ।

7,12.9

सर्वायुत्वाय अस्मिंल्लोके ।

7,12.10

अमृतत्वाय अमुष्मिन् ।

7,12.11

भद्रादभि श्रेयः प्रेति इति प्रवतीम्प्रवत्यमानाय अन्वाह ।

7,12.12

बृहस्पतिः पुर एता ते अस्त्विति ।

7,12.13

ब्रह्म वै बृहस्पतिः ।

7,12.14

ब्रह्म यशसस्य अवरुद्ध्यै ।

7,12.15

इमाम्धियम्शिक्षमाणस्य देव वनेषु व्यन्तरिक्षम्ततान इति त्रिष्टुभौ वारुण्यावन्वाह ।

7,12.16

क्षत्रम्वै त्रिष्टुप् ।

7,12.17

क्षत्रम्वरुणः ।

7,12.18

क्षत्र यशसस्य अवरुद्ध्यै ।

7,12.19

सोम यास्ते मयो भुव इति चतस्रो गायत्रीः सौमीरन्वाह ।

7,12.20

ब्रह्म वै गायत्री ।

7,12.21

क्षत्रम्सोमः ।

7,12.22

ब्रह्म यशसस्य च क्षत्र यशसस्य च अवरुद्ध्यै ।

7,12.23

तासामुत्तमाया अर्धर्चमुक्त्वा उपरमति ।

7,12.24

अमृतम्वा ऋक् ।

7,12.25

अमृतम्तत्प्रविशति ।

7,12.26

अथो ब्रह्म वा ऋक् ।

7,12.27

उभयत एव तद्ब्रह्म अर्धर्चौ वर्म कुरुते ।

7,12.28

तद्यत्र क्वच अर्धर्चेन उपरमेत् ।

7,12.29

एतद्ब्राह्मणमेव तत् ।

7,12.30

या ते धामानि हविषा यजन्ति इति प्रवतीम्प्रपाद्यमानाय अन्वाह ।

7,12.31

आगन्देव ऋतुभिर्वर्धतु क्षयमित्यागतवत्या ऋतुमत्या परिदधाति ।

7,12.32

संवत्सरो वै सोमो राजा इति ह स्म आह कौषीतकिः ।

7,12.33

सो अभ्यागच्छन्नृतुभिरेव सह अभ्येति इति ।

7,12.34

अभिरूपा अन्वाह ।

7,12.35

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

7,12.36

ता वै नव अन्वाह ।

7,12.37

तासामुक्तम्ब्राह्मणम् ।

7,12.38

त्रिः प्रथमया त्रिरुत्तमया त्रयोदश सम्पद्यन्ते ।

7,12.39

द्वादश वै मासाः संवत्सरः ।

7,12.40

संवत्सरस्य एव आप्त्यै ।

7,12.41

अस्ति त्रयोदशो मासः ।

7,12.42

उपचरो विज्ञात इव तस्य आप्त्यै तस्य आप्त्यै ।

7,12.43