मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 8

3
खण्डिका 1

आतिथ्येन ह वै देवा द्विपदश्च चतुष्पतश्च पशुना आपुः ।

8,1.1

तथो एव एतद्यजमान आतिथ्येन एव द्विपदश्च चतुष्पदश्च पशुना आप्नोति ।

8,1.2

आसन्ने हविष्य आतिथ्ये अग्निम्मन्थन्ति ।

8,1.3

शिरो वा एतद्यज्ञस्य यदातिथ्यम् ।

8,1.4

प्राणो अग्निः ।

8,1.5

शीर्षंस्तत्प्राणम्दधाति ।

8,1.6

द्वादश अग्नि मन्थनीया अन्वाह ।

8,1.7

द्वादश वै मासाः संवत्सरः ।

8,1.8

संवत्सरस्य एव आप्त्यै ।

8,1.9

अभि त्वा देव सवितरिति सावित्रीम्प्रथमामन्वाह ।

8,1.10

सवितृ प्रसूततायै ।

8,1.11

सवितृ प्रसूतस्य ह वै न काचन रिष्टिर्भवत्यरिष्ट्यै ।

8,1.12

मही द्यौः पृथिवी च न इति द्यावा पृथिवीयामन्वाह ।

8,1.13

प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।

8,1.14

त्वामग्ने पुष्करादधि इति मथितवन्तम्तृचम्मथ्यमानाय अन्वाह ।

8,1.15

उत ब्रुवन्तु जन्तव इति जातवतीम्जाताय ।

8,1.16

आ यम्हस्ते न खादिनमिति हस्तवतीम्हस्तेन धार्यमाणाय ।

8,1.17

प्र देवम्देव वीतय इति प्रवतीम्प्रह्रियमाणाय ।

8,1.18

आ जातम्जात वेदसि इत्यावतीमाहूयमानाय ।

8,1.19

अग्निना अग्निः समिध्यते त्वम्ह्यग्ने अग्निना इति समिद्धवत्यौ समिध्यमानाय ।

8,1.20

तम्मर्जयन्त सुक्रतुमिति परिदधाति स्वेषु क्षयेषु वाजिनमित्यन्तवत्या ।

8,1.21

अन्तो वै क्षयः ।

8,1.22

अन्तः परिधानीया ।

8,1.23

अन्ते अन्तम्दधाति ।

8,1.24
खण्डिका 2

एतया न्वत्र च चातुर्मास्येषु च ।

8,2.1

त्रिः प्रथमया त्रिरुत्तमया षोडश सम्पद्यन्ते ।

8,2.2

षोडल कलम्वा इदम्सर्वम् ।

8,2.3

अस्य एव सर्वस्य आप्त्यै ।

8,2.4

अथ यत्र पशुरालभ्यते ।

8,2.5

तदेताम्पराचीमनूच्य यज्ञेन यज्ञमयजन्त देवा इति त्रिष्टुभा परिदधाति ।

8,2.6

त्रैष्टुभाः पशवः पशूनामेव आप्त्यै ।

8,2.7

त्रिः प्रथमया त्रिरुत्तमया सप्तदश सम्पद्यन्ते ।

8,2.8

सप्तदशो वै प्रजापतिः ।

8,2.9

एतद्वा आर्ध्नुकम्धर्म यत्प्रजापति सम्मितम् ।

8,2.10

सप्तदश सामिधेनीरन्वाह ।

8,2.12

सप्तदशो वै प्रजापतिः ।

8,2.12

एतद्वा आर्ध्नुकम्कर्म यत्प्रजापति सम्मितम् ।

8,2.13

वार्त्रघ्नावाज्य भागौ भवतः पाप्मन एव वधाय ।

8,2.14

अथो ह अस्य पौर्णमासात्तन्त्रादनितम्भवति ।

8,2.15

अतिथिमन्तौ ह एके कुर्वन्ति ।

8,2.16

वार्त्रघ्नौ त्वेव स्थितौ ।

8,2.17

ऋग्याज्यौ स्यातामिति ह एक आहुः ।

8,2.18

ऋग्याज्या वा एता देवता उपसत्सु भवन्ति इति वदन्तः ।

8,2.19

जुषाण याज्यौ त्वेव स्थितौ ।

8,2.20

सोमम्सन्तम्विष्णुरिति यजति ।

8,2.21

तद्यदेव इदम्क्रीतो विशति इव ।

8,2.22

तदु ह एव अस्य वैष्णवम्रूपम् ।

8,2.23

यद्वेव सोमम्सन्तम्विष्णुरिति यजति ।

8,2.24

अत्ता एव एतेन नाम्ना यद्विष्णुरिति ।

8,2.25

आद्यो अमुना यत्सोम इति ।

8,2.26

तस्मात्सोम इति वदन्तो जुह्वत्येवम्भक्षयन्ति ।

8,2.27

त्रिष्टुभौ हविषो याज्या पुरोनुवाक्ये ।

8,2.28

बलम्वै वीर्यम्त्रिष्टुप् ।

8,2.29

बलमेव तद्वीर्यम्यजमाने दधाति ।

8,2.30
खण्डिका 3

होतारम्चित्र रथमध्वरस्य यस्त्वा स्वश्वः सुहिरण्यो अग्न इति सम्याज्ये अतिथिमत्यौ रथवत्यौ त्रिष्टुभावाग्नेय्यौ ।

8,3.1

तद्यथा चतुः समृद्धमेवम्त ।

8,3.2

उपमानुक उ एव एनम्रथो भवति य एते कुरुते ।

8,3.3

इडा अन्तम्भवति ।

8,3.4

अभिक्रान्त्यै तद्रूपम् ।

8,3.5

तद्यथा उपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायाम्वसेदेवम्तत् ।

8,3.6

उपांशु हविषि एता इष्टयो भवन्ति दीक्षणीया प्रायणीया आतिथ्य्य उपसदः ।

8,3.7

रेतः सिक्तिर्वा एता इष्टयः ।

8,3.8

उपांशु वै रेतः सिच्यते ।

8,3.9

उत्सृजन्तः कर्माणि यन्ति ।

8,3.10

पत्नी सम्याज अन्ता दीक्षणीया ।

8,3.11

शम्य्वन्ता प्रायणीया ।

8,3.12

इडा अन्ता आतिथ्या ।

8,3.13

देवता उपसत्सु प्रतियजति ।

8,3.14

उत्सर्गम्वै प्रजापतिरेतैर्कर्मभिः स्वर्गंल्लोकमैत् ।

8,3.15

तथो एव एतद्यजमान उत्सर्गमेव एतैः कर्मभिः स्वर्गंल्लोकमेति ।

8,3.16
खण्डिका 4

शिरो वा एतद्यज्ञस्य यन्महा वीरः ।

8,4.1

तन्न प्रथम यज्ञे प्रवृञ्ज्यात् ।

8,4.2

उपनामुक उ एव एनमुत्तरो यज्ञो भवति यः प्र्थम यज्ञे न प्रवृणक्ति ।

8,4.3

कामम्तु यो अनूचानः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यात् ।

8,4.4

आत्मा वै स यज्ञस्य ।

8,4.5

आत्मना एव तद्यज्ञम्समर्धयति ।

8,4.6

तदसौ वै महा वीरो यो असौ तपति ।

8,4.7

एतमेव तत्प्रीणाति ।

8,4.8

तमेक शतेन अभिष्टुयात् ।

8,4.9

शत योजने ह वा एष हितस्तपति ।

8,4.10

स शतेन एव एनम्शत योजनमध्वानम्समश्नुते ।

8,4.11

अथ या एक शततमी स यजमान लोकः ।

8,4.12

तमेतमात्मानम्यजमा नो अभिसम्भवति ।

8,4.13

यमेतमादित्ये पुरुषम्वेदयन्ते ।

8,4.14

स इन्द्रः स प्रजापतिस्तद्ब्रह्म ।

8,4.15

तदत्र एव यजमानः सर्वासाम्देवतानाम्सलोकताम्सायुज्यमाप्नोति ।

8,4.16
खण्डिका 5

अनवानमभिष्टुयात्प्राणानाम्संतत्यै ।

8,5.1

संतता इव हि इमे प्राणाः ।

8,5.2

उच्चैर्निरुक्तमभिष्टुयात् ।

8,5.3

प्राणा वै स्तुभः ।

8,5.4

निरुक्तो ह्येषः ।

8,5.5

वाग्देवत्यो ह्येषः ।

8,5.6

सावित्रीः प्रथमा अभिष्टौति ।

8,5.7

सवितृ प्रसूततायै ।

8,5.8

सवितृ प्रसूतस्य ह वै न काचन रिष्टिर्भवत्यरिष्ट्यै ।

8,5.9

ब्रह्म जज्ञानम्प्रथमम्पुरस्तादिति ।

8,5.10

अदो वै ब्रह्म जज्ञानम्प्रथमम्पुरस्ताद् ।

8,5.11

यत्र असौ तपति ।

8,5.12

तदेव तद्यजमानम्दधाति ।

8,5.13

अञ्जन्ति यम्प्रथयन्तो न विप्राः संसीदस्व महानसि इत्यक्तवतीम्च सन्नवतीम्च अभिरूपे अभिष्टौति ।

8,5.14

भवा नो अग्ने सुमना उपेतौ तपो ष्वग्ने अन्तराममित्रान्यो नः सनुत्यो अभिदासदग्न इति तिस्रस्तपस्वतीरभिरूपा अभिष्टौति ।

8,5.15

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

8,5.16

कृणुष्व पाजः प्रसितिम्न पृथ्वीमिति राक्षोघ्नीरभिष्टौति राक्षसामपहत्यै ।

8,5.17

अग्निर्वै रक्षसामपहन्ता ।

8,5.18

ता वै पञ्च भवन्ति दिशाम्रूपेण ।

8,5.19

दिग्भ्य एव एतानि सम्निर्हन्ति ।

8,5.20

अथो यानेव अध्वर्युः प्रादेशानभिमिमीते तानेव एताभिरनुवदति ।

8,5.21

परि त्वा गिर्वणो गिरो अधि द्वयोरदधा उक्थ्यम्वच इत्यैन्द्र्यावभिरूपे अभिष्टौति ।

8,5.22

ऐन्द्रमेव स्वाहा कारमेताभ्यामनुवदति ।

8,5.23
खण्डिका 6

अथो यानेव अध्वर्युः शकलान्परिचिनोति तान्पूर्वया अनुवदति ।

8,6.1

यमुत्तममभि निदधाति तमुत्तरया ।

8,6.2

शुक्रम्ते अन्यद्यजतम्ते अन्यदर्हन्बिभर्ति सायकानि धन्वा इति पौष्णीम्च रौद्रीम्च अभिरूपे अभिष्टौति ।

8,6.3

पौष्णम्च एव रौद्रम्च स्वाहा कारमेताभ्यामनुवदति ।

8,6.4

अथो यावेव अध्वर्युः सुवर्ण रजतौ हिरण्य शकलौ करोति तावेव एताभ्यामनुवदति ।

8,6.5

पतङ्गमक्तमसुरस्य मायया इति ।

8,6.6

प्राणो वै पतङ्गः ।

8,6.7

वायुर्वै प्राणः ।

8,6.8

वायव्यमेव स्वाहा कारमेताभिरनुवदति ।

8,6.9

अपश्यम्त्वा मनसा चेकितानमित्येतदस्य आयतने प्रजा कामस्य अहिष्टुयात् ।

8,6.10

अथो उभे असम्पन्न कारी ।

8,6.11

स्रक्वे द्रप्सस्य धमतः समस्वरन्निति सर्वम् ।

8,6.12

पवित्रम्ते विततम्ब्रह्मणस्पत इति द्वे ।

8,6.13

वि यत्पवित्रम्धिषणा अतन्वत इत्येका ।

8,6.14

ता द्वादश पावमान्यः ।

8,6.15

सौम्यमेव स्वाहा कारमेताभिरनुवदति ।

8,6.16

अयम्वेनश्चोदयत्पृश्नि गर्भा इति ।

8,6.17

इन्द्रो वै वेनः ।

8,6.18

ऐन्द्रमेव स्वाहा कारमेताभिरनुवदति ।

8,6.19

तस्य एकामुत्सृजति नाके सुपर्णमुप यत्पतन्तमिति ।

8,6.20

सो अयमात्मनो अतीकाशः ।

8,6.21

तामुत्तरासु करोति ।

8,6.22

तेन उ सा आनन्तरिता भवति ।

8,6.23

उभयतो वेनम्पाप उक्तस्य पावमानीरभिष्टुयात् ।

8,6.24

आत्मा वै वेनः ।

8,6.25

पवित्रम्पावमान्यः ।

8,6.26

पुनात्येव एनम्तत् ।

8,6.27
खण्डिका 7

गणानाम्त्वा गण पतिम्हवामह इति ब्राह्मणस्पत्या अभिरूपा अभिष्टौति ।

8,7.1

शिरो वा एतत् ।

8,7.2

ब्रह्म वै ब्रह्मणस्पतिः ।

8,7.3

ब्रह्मणा एव तत्शिरः समर्धयति ।

8,7.4

स यत्र उपाधिगच्छेद्बृहद्वदेम विदथे सुवीरा इति ।

8,7.5

तद्वीर कामायै वीरम्ध्यायात् ।

8,7.6

लभते ह वीरम् ।

8,7.7

का राधद्द्होत्रा अश्विना वामिति नव अकुध्रीच्यः ।

8,7.8

गायत्रच्छन्दस इव वा अकूध्रीच्यः ।

8,7.9

गायत्र उ वै प्राणः ।

8,7.10

प्राणो वै अकूध्रीच्यः ।

8,7.11

आ नो विश्वाभिरूतिभिरित्यानुष्टुभम्तृचम्सा वाक् ।

8,7.12

विष्णुर्योनिम्कल्पयत्वित्येतदस्य आयतने प्रजा कामस्य अभिष्टुयात् ।

8,7.13

अथो उभे असम्पन्न कारी ।

8,7.14

प्रातर्यावाणा प्रथमा यजध्वमिति पूर्व अह्णे सूक्तम् ।

8,7.15

आ भात्यग्निरुषसामनीकमित्यपर अह्णे ।

8,7.16

त्रैष्टुभे पञ्चर्चे तच्चक्षुः ।

8,7.17

इडे द्यावा पृथिवी पूर्व चित्तय इति जागतम्पञ्चविंशम्तत्श्रोत्रम् ।

8,7.18

शिरो वा एतत् ।

8,7.19

तद्वै शिरः समृद्धम्यस्मिन्प्राणो वाक्चक्षुः श्रोत्रमिति ।

8,7.20

तानेव अस्मिंस्तद्दधाति ।

8,7.21

रुचितो घर्म इत्युक्ते अरूरुचदुषसः पृश्निरग्निय इति रुचितवतीमभिरूपामभिष्टौति ।

8,7.24

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

8,7.25

ता एक शत ऋचो भवन्ति तासामुक्तम्ब्राह्मणम् ।

8,7.26
खण्डिका 8

त्रयस्त्रिंशदुत्तराः ।

8,8.1

त्रयस्त्रिंशद्वै सर्वा देवताः ।

8,8.2

ता एव एतदुद्यन्तुमर्हन्ति ।

8,8.3

ताभ्यो वै तत्समुन्नीतम् ।

8,8.4

अभिरूपा दोहनीया अभिष्टौति ।

8,8.5

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

8,8.6

आ सुते सिञ्चत श्रियमा नूनमश्विनोरृषिरित्यासिक्तवत्यावभिरूपे अभिष्टौति ।

8,8.7

उदु ष्य देवः सविता हिरण्यया इत्युद्यम्यमान उद्यतवतीमभिरूपामभिष्टौति ।

8,8.8

प्रैतु ब्रह्मणस्पतिरिति प्रव्रजत्सु प्रवतीम्ब्राह्मणस्पत्यामभिरूपामभिष्टौति ।

8,8.9

नाके सुपर्णमुप यत्पतन्तमिति व्रजत्सु पतन्तमित्यभिरूपामभिष्टौति ।

8,8.10

द्वाभ्याम्यजेत् ।

8,8.11

द्वन्द्वम्वै वीर्यम्सवीर्यतायै ।

8,8.12

त्रिष्टुब्वतीभ्याम्पूर्व अह्णे ।

8,8.13

त्रैष्टुभो ह्येषः ।

8,8.14

त्रींल्लोकाम्स्तब्ध्वा तिष्ठति ।

8,8.15

जगद्वतीभ्यामपर अह्णे ।

8,8.16

जागतो ह्येषः ।

8,8.17

एतमु ह विशन्तम्जगदनु सर्वम्विशति ।

8,8.18

विपर्यस्य दाशतयीभ्याम्वषट्कुर्यादिति ह एक आहुः ।

8,8.19

यथा आम्नातमिति त्वेव स्थितम् ।

8,8.20

अथ उत्तरा अभिरूपा अभिष्टौति ।

8,8.21

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

8,8.22

हविर्हविष्मो महि सद्म दैव्यमिति पुरा आहुतेः प्रापणात् ।

8,8.23

पुनर्हविषमेव एनम्तदयात यामानम्करोति ।

8,8.24

सूयवसाद्भगवती हि भूया इत्याशीर्वत्या परिदधाति ।

8,8.25

पशुभ्य एव तदाशिषम्वदते ।

8,8.26

तथा ह यजमानात्पशवो अनुत्क्रामुका भवन्ति ।

8,8.27

अथ वै सुते प्रवर्ग्ये इत्याचक्षते स्तुते बहिष्पवमाने ।

8,8.28

तदश्विनौ देवा उपाह्वयन्त ।

8,8.29

एतस्मिन्काले आग्नीध्रिये प्रवृञ्ज्युः ।

8,8.30

तद्यथा एव अद उपसत्सु ।

8,8.31

एवमेव अप्यत्र स्तुत्यायाम् ।

8,8.32

अनवानमेव उपचारः ।

8,8.33

तद्यदा कर्म अपवृज्येत ।

8,8.34

अथ पशु कर्म तायते ।

8,8.35

स एष महा वीरो मध्यंदिन उत्सर्गः ।

8,8.36

तद्यदेतेन मध्यंदिने प्रचरन्ति ।

8,8.39

असौ वै महा वीरो यो असौ तपति ।

8,8.38

एतमेव तत्प्रीणाति ।

8,8.39

एतस्य एव तद्रूपम्क्रियते ।

8,8.40
खण्डिका 9

उपसदः ।

8,9.1

असुरा एष लोकेषु पुरो अकुर्वत ।

8,9.2

अयस्मयीमस्मिन् ।

8,9.3

रजतामन्तरिक्ष लोके ।

8,9.4

हरिणीम्हादो दिवि चक्रिरे ।

8,9.5

ते देवाः परिश्रितेष्वेषु लोकेष्वेतम्पञ्चदशम्वज्रमपश्यन् ।

8,9.6

तिस्रः सामिधेन्यः समनूक्ता नव सम्पद्यन्ते ।

8,9.7

षड्याज्या पुरोनुवाक्याः ।

8,9.8

ताः पञ्चदश ।

8,9.9

एतेन वै देवाः पञ्चदशेन वज्रेण एभ्यो लोकेभ्यो असुराननुदन्त ।

8,9.10

तथो एव एतद्यजमान एतेन एव पञ्चदशेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते ।

8,9.11

उपसद्याय मीढुषे इत्येतम्तृचम्पूर्व अह्णे अनुब्रूयात् ।

8,9.12

उपसदो ह्येताः ।

8,9.13

तद्वै कर्म समृद्धम्यत्प्रथमेन अभिव्याह्रियते ।

8,9.14

उपसद्यमिव वा एतदहरमुना आदित्येन भवति इति ।

8,9.15

इमाम्मे अग्ने समिधमित्यपर अह्णे तद्रात्रे रूपम् ।

8,9.16

समिद्धमिव वा इममग्निम्सायम्पर्यासत इति ।

8,9.17

अथ द्वितीये अहनि ।

8,9.19

इमाम्मे अग्ने समिधमिति पूर्व अह्णे तदह्नो रूपम् ।

8,9.19

समिद्धमिव वा एतदहरमुना आदित्येन भवति इति ।

8,9.20

उपसद्याय मीढुष इत्यपर अह्णे तद्रात्रे रूपम् ।

8,9.21

उपसद्यमिव वा इममग्निम्सायम्पर्यासत इति ।

8,9.22

ते वा उभे एव रूपे यज्ज्ञायेते ।

8,9.23

तस्मादहरहर्विपर्यासमनुब्रूयात् ।

8,9.24

उभे रूपे कामा उपाप्तावसतामिति ।

8,9.25
खण्डिका 10

अनवानमनुब्रूयात्प्राणानाम्संतत्यै ।

8,10.1

संतता इव हि इमे प्राणाः ।

8,10.2

त्रिस्त्रिरेक एकामन्वाह ।

8,10.3

त्रयो वा इमे लोकाः ।

8,10.4

इमानेव तल्लोकानाप्नोति ।

8,10.5

ताः समनूक्ता नव सम्पद्यन्ते ।

8,10.6

षड्वा ऋतवस्त्रय इमे लोकाः ।

8,10.7

एतदेव तदभिसम्पद्यन्ते ।

8,10.8

न एतम्निगदम्ब्रूयाद्य एष सामिधेनीषु ।

8,10.9

उत्सृज्यन्ते ह निगदाः ।

8,10.10

जामि ह स्याद्य एतम्निगदम्ब्रूयात् ।

8,10.11

न आवाहयेच्चन इति ह एक आहुः ।

8,10.12

किमु देवतामन्वावाह्य जयेदिति ।

8,10.13

ऋच एव आवाहयेत् ।

8,10.14

अग्निमावह सोममावह विष्णुमावह इति ।

8,10.15

ता वै तिस्रो देवता यजति ।

8,10.16

त्रयो वा इमे लोकाः ।

8,10.17

इमानेव तल्लोकान्ज्योतिष्मतः करोति ।

8,10.18
खण्डिका 11

गायत्र्यावाग्नेय्यौ ।

8,11.1

गायत्रो अयंल्लोकः ।

8,11.2

तदिमंल्लोकमाप्नोति ।

8,11.3

त्रिष्टुभौ सौम्यौ ।

8,11.4

त्रैष्टुभो अन्तरिक्ष लोकः ।

8,11.5

तदन्तरिक्ष लोकमाप्नोति ।

8,11.6

जगत्यौ वैष्णव्यौ ।

8,11.7

जागतो असौ लोकः ।

8,11.8

तदमुंल्लोकमाप्नोति ।

8,11.9

ता वै विपर्यस्यति ।

8,11.10

याः पूर्व अह्णे पुरोनुवाक्यास्ता अपर अह्णे याज्याः करोति ।

8,11.11

या याज्यास्ताः पुरोनुवाक्याः ।

8,11.12

अयात यामतायै ।

8,11.13

वषट्कारेण ह वा ऋग्यात यामा भवति समाने अहन् ।

8,11.14

अयात यामाभिर्मे वषट्कृतमसदिति ।

8,11.15

यद्वेव विपर्यस्यति ग्रीवाणाम्स्थेम्ने ।

8,11.16

तस्माद्द्ह आसाम्ग्रीवाणाम्व्यतिषक्तानि इव पर्वाणि भवन्ति ।

8,11.17

आज्य हविषो देवताः ।

8,11.18

पयो व्रतो यजमानः ।

8,11.19

तत्सलोम ।

8,11.20

ताः परोवरीयसीरभ्युपेयात्त्रीनग्रे स्तनानथ द्वावथ एकम् ।

8,11.21

परस्पर एव तल्लोकान्वरीयसः कुरुते ।

8,11.22

न अभ्युन्नयेत ।

8,11.23

स्वर्गम्ह वा एते लोकमभिप्रयन्ति य उपसद उपयन्ति ।

8,11.24
खण्डिका 12

द्वादशो ह वा अन्तरुष्यात्स्वर्गो लोकः ।

8,12.1

स यः सकृदभ्युन्नयते ।

8,12.2

यथा एक रात्रम्सार्थान्प्रोषिताननुप्रेयादेवम्तत् ।

8,12.3

यो द्वितीयम् ।

8,12.4

यथा द्वि रात्रमेवम्तत् ।

8,12.5

हीयते तृतीयेन ।

8,12.6

स्वर्गांल्लोकान्न अन्वश्नुते ।

8,12.7

अप्यनुगच्छेदिति ह स्म आह पैङ्ग्यः ।

8,12.8

न त्वेव अभ्युन्नयेत ।

8,12.9

यत्र एव कामयेत ।

8,12.10

तत्पूर्वो गत्वा स्वर्गस्य एव लोकस्य अवस्येदिति ।

8,12.11

समाप्तिः श्रेयसी इति ह स्म आह कषीतकिः ।

8,12.12

संराजो भक्षो अस्मै दध्यानयेयुर्न व्रते ।

8,12.13

सोमो वै दधि ।

8,12.14

अनन्तर्हितौ ह अस्य भक्षो भवति समाप्नोति ।

8,12.15

उत यदि संक्रीणीयुः ।

8,12.16

या मध्यम उपसत् ।

8,12.17

तया द्व्यहमन्यतरे चरेयुः ।

8,12.18

आवपनम्हि सा ।

8,12.19

इदमन्तरिक्ष लोक आयतनेन ।

8,12.20

अथ असमरमभ्युदैत्यथ असमरमभ्युदैति ।

8,12.21