मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १००

3
ब्रह्मपुराणम् · 100

अध्यायः १००

ब्रह्मोवाच:

सुपर्णासङ्गमं नाम काद्रवासङ्गमं तथा । महेश्वरो यत्र देवो गङ्गापुलिनम् आश्रितः

॥१॥

अग्निकुण्डं च तत्रैव रौद्रं वैष्णवम् एव च । सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा

॥२॥

अप्सरा च नदी यत्र सङ्गता गङ्गया तथा । तत्तीर्थस्मरणाद् एव कृतकृत्यो भवेन् नरः

॥३॥

सर्वपापप्रशमनं शृणु यत्नेन नारद । इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः । दत्तार्धतपसः सर्वे प्रोचुस् ते काश्यपं मुनिम्

॥४॥

वालखिल्या ऊचुः:

पुत्रम् उत्पादयानेन इन्द्रदर्पहरं शुभम् । तपसोऽर्धं तु दास्यामस् तथेत्य् आह मुनिस् तु तान्

॥५॥

सुपर्णायां ततो गर्भम् आदधे स प्रजापतिः । कद्र्वां चैव शनैर् ब्रह्मन् सर्पाणां सर्पमातरि

॥६॥

ते गर्भिण्याव् उभे आह गन्तुकामः प्रजापतिः । अपराधो न च क्वापि कार्यो गमनम् एव च

॥७॥

अन्यत्र गमनाच् छापो भविष्यति न संशयः

॥८॥

ब्रह्मोवाच:

इत्य् उक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे । तदैव जग्मतुः सत्त्रम् ऋषीणां भावितात्मनाम्

॥९॥

ब्रह्मवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् । उन्मत्ते ते उभे नित्यं वयःसम्पत्तिगर्विते

॥१०॥

निवार्यमाणे बहुशो मुनिभिस् तत्त्वदर्शिभिः । विकुर्वत्यौ तत्र सत्त्रे समानि च हवींषि च

॥११॥

योषितां दुर्विलसितं कः संवरितुम् ईश्वरः । ते दृष्ट्वा चुक्षुभुर् विप्रा अपमार्गरते उभे

॥१२॥

अपमार्गस्थिते यस्माद् आपगे हि भविष्यथः । सुपर्णा चैव कद्रूश् च नद्यौ ते सम्बभूवतुः

॥१३॥

स कदाचिद् गृहं प्रायात् कश्यपोऽथ प्रजापतिः । ऋषिभ्यस् तत्र वृत्तान्तं शापं ताभ्यां सविस्तरम्

॥१४॥

श्रुत्वा तु विस्मयाविष्टः किं करोमीत्य् अचिन्तयत् । ऋषिभ्यः कथयाम् आस वालखिल्या इति श्रुताः

॥१५॥

त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् । तत्र स्तुहि महेशानं पुनर् भार्ये भविष्यतः

॥१६॥

ब्रह्महत्याभयाद् एव यत्र देवो महेश्वरः । गङ्गामध्ये सदा ह्य् आस्ते मध्यमेश्वरसञ्ज्ञया

॥१७॥

तथेत्य् उक्त्वा कश्यपोऽपि स्नात्वा गङ्गां जितव्रतः । तुष्टाव स्तवनैः पुण्यैर् देवदेवं महेश्वरम्

॥१८॥

कश्यप उवाच:

लोकत्रयैकाधिपतेर् न यस्य । कुत्रापि वस्तुन्य् अभिमानलेशः । स सिद्धनाथोऽखिलविश्वकर्ता । भर्ता शिवाया भवतु प्रसन्नः

॥१९॥

तापत्रयोष्णद्युतितापितानाम् । इतस् ततो वै परिधावतां च । शरीरिणां स्थावरजङ्गमानां । त्वम् एव दुःखव्यपनोददक्षः

॥२०॥

सत्त्वादियोगस् त्रिविधोऽपि यस्य । शक्रादिभिर् वक्तुम् अशक्य एव । विचित्रवृत्तिं परिचिन्त्य सोमं । सुखी सदा दानपरो वरेण्यः

॥२१॥

ब्रह्मोवाच:

इत्यादिस्तुतिभिर् देवः स्तुतो गौरीपतिः शिवः । प्रसन्नो ह्य् अददाच् छम्भुः कश्यपाय वरान् बहून्

॥२२॥

भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते । नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम्

॥२३॥

तत्सङ्गमनमात्रेण ताभ्यां भूयात् स्वकं वपुः । ते गर्भिण्यौ पुनर् जाते गङ्गायाश् च प्रसादतः

॥२४॥

ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः । आह्वयाम् आस तान् विप्रान् गौतमीतीरम् आश्रितान्

॥२५॥

सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः । ब्राह्मणान् पूजयाम् आस विधिदृष्टेन कर्मणा

॥२६॥

भुक्तवत्स्व् अथ विप्रेषु कश्यपस्याथ मन्दिरे । भर्तृसमीपोपविष्टा कद्रूर् विप्रान् निरीक्ष्य च

॥२७॥

ततः कद्रूर् ऋषीन् अक्ष्णा प्राहसत् ते च चुक्षुभुः । येनाक्ष्णा हसिता पापे भज्यतां तेऽक्षि पापवत्

॥२८॥

काणाभवत् ततः कद्रूः सर्पमातेति योच्यते । ततः प्रसादयाम् आस कश्यपो भगवान् ऋषीन्

॥२९॥

ततः प्रसन्नास् ते प्रोचुर् गौतमी सरितां वरा । अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात्

॥३०॥

भार्यान्वितस् तथा चक्रे कश्यपो मुनिसत्तमः । ततः प्रभृति तत् तीर्थम् उभयोः सङ्गमं विदुः । सर्वपापप्रशमनं सर्वक्रतुफलप्रदम्

॥३१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).