मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १०२

3
ब्रह्मपुराणम् · 102

अध्यायः १०२

ब्रह्मोवाच:

सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती । एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः

॥१॥

तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् । सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती

॥२॥

एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः । सर्वासाम् उत्तमां काञ्चिन् निर्ममे लोकसुन्दरीम्

॥३॥

तां दृष्ट्वा विकृता बुद्धिर् ममासीन् मुनिसत्तम । गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता

॥४॥

मृगीभूता तु सा बाला मृगोऽहम् अभवं तदा । मृगव्याधोऽभवच् छम्भुर् धर्मसंरक्षणाय च

॥५॥

ता मद्भीताः पञ्च सुता गङ्गाम् ईयुर् महानदीम् । ततो महेश्वरः प्रायाद् धर्मसंरक्षणाय सः

॥६॥

धनुर् गृहीत्वा सशरम् ईशोऽपि मृगरूपिणम् । माम् उवाच वधिष्ये त्वां मृगव्याधस् तदा हरः

॥७॥

तत्कर्मणो निवृत्तोऽहं प्रादां कन्यां विवस्वते । सावित्र्याद्याः पञ्च सुता नदीरूपेण सङ्गताः

॥८॥

ता आगताः पुनश् चापि स्वर्गं लोकं ममान्तिकम् । यत्र ताः सङ्गता देव्या पञ्च तीर्थानि नारद

॥९॥

सङ्गतानि च पुण्यानि पञ्च नद्यः सरस्वती । तेषु स्नानं तथा दानं यत् किञ्चित् कुरुते नरः

॥१०॥

सर्वकामप्रदं तत् स्यान् नैष्कर्म्यान् मुक्तिदं स्मृतम् । तत्राभवन् मृगव्याधं तीर्थं सर्वार्थदं नृणाम् । स्वर्गमोक्षफलं चान्यद् ब्रह्मतीर्थफलं स्मृतम्

॥११॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).