मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १०६

3
ब्रह्मपुराणम् · 106

अध्यायः १०६

ब्रह्मोवाच:

प्रवरासङ्गमो नाम श्रेष्ठा चैव महानदी । यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत्

॥१॥

देवानां दानवानां च सङ्गमोऽभूत् सुदारुणः । तेषां परस्परं वापि प्रीतिश् चाभून् महामुने

॥२॥

तेऽप्य् एवं मन्त्रयाम् आसुर् देवा वै दानवा मिथः । मेरुपर्वतम् आसाद्य परस्परहितैषिणः

॥३॥

देवदैत्या ऊचुः:

अमृतेनामरत्वं स्याद् उत्पाद्यामृतम् उत्तमम् । पिबामः सर्व एवैते भवामश् चामरा वयम्

॥४॥

एकीभूत्वा वयं लोकान् पालयामः सुखानि च । प्राप्स्यामः सङ्गरं हित्वा सङ्गरो दुःखकारणम्

॥५॥

प्रीत्या चैवार्जितान् अर्थान् भोक्ष्यामो गतमत्सराः । यतः स्नेहेन वृत्तिर् या सास्माकं सुखदा सदा

॥६॥

वैपरीत्यं तु यद् वृत्तं न स्मर्तव्यं कदाचन । न च त्रैलोक्यराज्येऽपि कैवल्ये वा सुखं मनाक् । तद् ऊर्ध्वम् अपि वा यत् तु निर्वैरत्वाद् अवाप्यते

॥७॥

ब्रह्मोवाच:

एवं परस्परं प्रीताः सन्तो देवाश् च दानवाः । एकीभूताश् च सुप्रीता विमथ्य वरुणालयम्

॥८॥

मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् । देवाश् च दानवाः सर्वे ममन्थुर् वरुणालयम्

॥९॥

उत्पन्नं च ततः पुण्यम् अमृतं सुरवल्लभम् । निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम्

॥१०॥

यामः स्वं स्वम् अधिष्ठानं कृतकार्याः श्रमं गताः । सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम्

॥११॥

यदा सर्वागमो यत्र यस्मिंल् लग्ने शुभावहे । विभज्यताम् इदं पुण्यम् अमृतं सुरसत्तमाः

॥१२॥

इत्य् उक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः । गतेषु दैत्यसङ्घेषु देवाः सर्वेऽन्वमन्त्रयन्

॥१३॥

देवा ऊचुः:

गतास् ते रिपवोऽस्माकं दैवयोगाद् अरिन्दमाः । रिपूणाम् अमृतं नैव देयं भवति सर्वथा

॥१४॥

ब्रह्मोवाच:

बृहस्पतिस् तथेत्य् आह पुनर् आह सुरान् इदम्

॥१५॥

बृहस्पतिर् उवाच:

न जानन्ति यथा पापा पिबध्वं च तथामृतम् । अयम् एवोचितो मन्त्रो यच् छत्रूणां पराभवः

॥१६॥

द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः । न विश्वास्या न चाख्येया नैव मन्त्र्याश् च शत्रवः

॥१७॥

तेभ्यो न देयम् अमृतं भवेयुर् अमरास् ततः । अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु । ताञ् जेतुं नैव शक्ष्यामो न देयम् अमृतं ततः

॥१८॥

ब्रह्मोवाच:

इति सम्मन्त्र्य ते देवा वाचस्पतिम् अथाब्रुवन्

॥१९॥

देवा ऊचुः:

क्व यामः कुत्र मन्त्रः स्यात् क्व पिबामः क्व संस्थितिः । कुर्मस् तद् एव प्रथमं वद वाचस्पते तथा

॥२०॥

बृहस्पतिर् उवाच:

यान्तु ब्रह्माणम् अमराः पृच्छन्त्व् अत्र गतिं पराम् । स तु ज्ञाता च वक्ता च दाता चैव पितामहः

॥२१॥

ब्रह्मोवाच:

बृहस्पतेर् वचः श्रुत्वा मदन्तिकम् अथागमन् । नमस्य मां सुराः सर्वे यद् वृत्तं तन् न्यवेदयन्

॥२२॥

तद् देववचनात् पुत्र तैः सुरैर् अगमं हरिम् । विष्णवे कथितं सर्वं शम्भवे विषहारिणे

॥२३॥

अहं विष्णुश् च शम्भुश् च देवगन्धर्वकिन्नरैः । मेरुकन्दरम् आगत्य न जानन्ति यथासुराः

॥२४॥

रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे । आदित्यस् तत्र विज्ञाता सोमभोज्यान् अथेतरान्

॥२५॥

सोमो दातामृतं भागं चक्रधृग् रक्षकस् तथा । नैव जानन्ति तद् दैत्या दनुजा राक्षसास् तथा

॥२६॥

विना राहुं महाप्राज्ञं सैंहिकेयं च सोमपम् । कामरूपधरो राहुर् मरुतां मध्यम् आविशत्

॥२७॥

मरुद्रूपं समास्थाय पानपात्रधरस् तथा । ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत्

॥२८॥

तदा तद् अमृतं तस्मै दैत्यायादैत्यरूपिणे । दत्त्वा सोमं तदा सोमो विष्णवे तन् न्यवेदयत्

॥२९॥

विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः । चिच्छेद तरसा वत्स तच्छिरस् त्व् अमरं त्व् अभूत्

॥३०॥

शिरोमात्रविहीनं यद् देहं तद् अपतद् भुवि । देहं तद् अमृतस्पृष्टं पतितं दक्षिणे तटे

॥३१॥

गौतम्या मुनिशार्दूल कम्पयद् वसुधातलम् । देहं चाप्य् अमरं पुत्र तद् अद्भुतम् इवाभवत्

॥३२॥

देहं च शिरसोऽपेक्षि शिरो देहम् अपेक्षते । उभयं चामरं जातं दैत्यश् चायं महाबलः

॥३३॥

शिरः काये समाविष्टं सर्वान् भक्षयते सुरान् । तस्माद् देहम् इदं पूर्वं नाशयामो महीगतम् । ततस् ते शङ्करं प्राहुर् देवाः सर्वे ससम्भ्रमाः

॥३४॥

देवा ऊचुः:

महीगतं दैत्यदेहं नाशयस्व सुरोत्तम । त्वं देव करुणासिन्धुः शरणागतरक्षकः

॥३५॥

शिरसा नैव युज्येत दैत्यदेहं तथा कुरु

॥३६॥

ब्रह्मोवाच:

प्रेषयाम् आस चेशोऽपि श्रेष्ठां शक्तिं तदात्मनः । मातृभिः सहितां देवीं मातरं लोकपालिनीम्

॥३७॥

ईशायुधधरा देवी ईशशक्तिसमन्विता । महीगतं यत्र देहं तत्रागाद् भक्ष्यकाङ्क्षिणी

॥३८॥

शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन् । देहो देव्या पुनस् तत्र युयुधे बहवः समाः

॥३९॥

राहुस् तत्र सुरान् आह भित्त्वा देहं पुरा मम । अत्रास्ते रसम् उत्कृष्टं तद् आकृष्य शरीरतः

॥४०॥

पृथक्भूते रसे देहं प्रवरेऽमृतम् उत्तमम् । भस्मीभूयात् क्षणेनैव तस्मात् कुर्वन्तु तत् पुरा

॥४१॥

ब्रह्मोवाच:

एतद् राहुवचः श्रुत्वा प्रीताः सर्वेऽसुरारयः । अभ्यषिञ्चन् ग्रहाणां त्वं ग्रहो भूया मुदान्वितः

॥४२॥

तद्देववचनाच् छक्तिर् ईश्वरी या निगद्यते । देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता

॥४३॥

आकृष्य शीघ्रम् उत्कृष्टं प्रवरं चामृतं बहिः । स्थापयित्वा तु तद् देहं भक्षयाम् आस चाम्बिका

॥४४॥

कालरात्रिर् भद्रकाली प्रोच्यते या महाबला । स्थापितं रसम् उत्कृष्टं रसानां प्रवरं रसम्

॥४५॥

व्यस्रवत् स्थापितं तत् तु प्रवरा साभवन् नदी । आकृष्टम् अमृतं चैव स्थापितं साप्य् अभक्षयत्

॥४६॥

ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा । राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता

॥४७॥

नदीनां प्रवरा रम्या चामृता प्रेरिता तहा । तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च

॥४८॥

तत्र शम्भुः स्वयं तस्थौ सर्वदा सुरपूजितः । तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक् पृथक्

॥४९॥

वरान् ददुर् मुदा युक्ता यथा पूजाम् अवाप्स्यति । शम्भुः सुरपतिर् लोके तथा पूजाम् अवाप्स्यसि

॥५०॥

निवासं कुरु देवि त्वं लोकानां हितकाम्यया । सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा

॥५१॥

स्तवनात् कीर्तनाद् ध्यानात् सर्वकामप्रदायिनी । त्वां नमस्यन्ति ये भक्त्या किञ्चिद् आपेक्ष्य सर्वदा

॥५२॥

तेषां सर्वाणि कार्याणि भवेयुर् देवताज्ञया । शिवशक्त्योर् यतस् तस्मिन् निवासोऽभूत् सनातनः

॥५३॥

अतो वदन्ति मुनयो निवासपुरम् इत्य् अदः । प्रवरायाः पुरा देवाः सुप्रीतास् ते वरान् ददुः

॥५४॥

गङ्गायाः सङ्गमो यस् ते विख्यातः सुरवल्लभः । तत्राप्लुतानां सर्वेषां भुक्तिर् वा मुक्तिर् एव च

॥५५॥

यद् वापि मनसः काम्यं देवानाम् अपि दुर्लभम् । स्यात् तेषां सर्वम् एवेह एवं दत्त्वा सुरा ययुः

॥५६॥

ततः प्रभृति तत् तीर्थं प्रवरासङ्गमं विदुः । प्रेरिता देवदेवेन शक्तिर् या प्रेरिता तु सा

॥५७॥

अमृता सैव विख्याता प्रवरैवं महानदी

॥५८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).