मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १०८

3
ब्रह्मपुराणम् · 108

अध्यायः १०८

ब्रह्मोवाच:

इलातीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् । ब्रह्महत्यादिपापानां पावनं सर्वकामदम्

॥१॥

वैवस्वतान्वये जात इलो नाम जनेश्वरः । महत्या सेनया सार्धं जगाम मृगयावनम्

॥२॥

परिबभ्राम गहनं बहुव्यालसमाकुलम् । नानाकारद्विजयुतं विटपैः परिशोभितम्

॥३॥

वनेचरं नृपश्रेष्ठो मृगयागतमानसः । तत्रैव मतिम् आधत्त इलोऽमात्यान् अथाब्रवीत्

॥४॥

इल उवाच:

गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् । देशं कोशं बलं राज्यं पालयन्तु पुनश् च तम्

॥५॥

वसिष्ठोऽपि तथा यातु आदायाग्नीन् पितेव नः । पत्नीभिः सहितो धीमान् अरण्येऽहं वसाम्य् अथ

॥६॥

अरण्यभोगभुग्भिश् च वाजिवारणमानुषैः । मृगयाशीलिभिः कैश्चिद् यान्तु सर्व इतः पुरीम्

॥७॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा ययुस् तेऽपि स्वयं प्रायाच् छनैर् गिरिम् । हिमवन्तं रत्नमयं वसंस् तत्र इलो नृपः

॥८॥

ददर्श कन्दरं तत्र नानारत्नविचित्रितम् । तत्र यक्षेश्वरः कश्चित् समन्युर् इति विश्रुतः

॥९॥

तस्य भार्या समानाम्नी भर्तृव्रतपरायणा । तस्मिन् वसत्य् असौ यक्षो रमणीये नगोत्तमे

॥१०॥

मृगरूपेण व्यचरद् भार्यया स महामतिः । स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः

॥११॥

इत्थं स यक्षो जानाति मृगरूपधरोऽपि च । इलस् तु तं न जानाति कन्दरं यक्षपालितम्

॥१२॥

यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् । तत्रोपविष्टो नृपतिर् महत्या सेनया वृतः

॥१३॥

वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः । स यक्षोऽधर्मकोपेन भार्यया मृगरूपधृक्

॥१४॥

इलं जेतुं न शक्नोमि याचितो न ददाति च । हृतं गेहं ममानेन किं करोमीत्य् अचिन्तयत्

॥१५॥

युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् । आत्मीयान् प्रेषयाम् आस यक्षाञ् शूरान् धनुर्धरान्

॥१६॥

यक्ष उवाच:

युद्धे जित्वा च राजानम् इलम् उद्धतदन्तिनम् । गृहाद् यथान्यतो याति मम तत् कर्तुम् अर्हथ

॥१७॥

ब्रह्मोवाच:

यक्षेश्वरस्य तद् वाक्याद् यक्षास् ते युद्धदुर्मदाः । इलं गत्वाब्रुवन् सर्वे निर्गच्छास्माद् गुहालयात्

॥१८॥

न चेद् युद्धात् परिभ्रष्टः पलाय्य क्व गमिष्यसि । तद् यक्षवचनात् कोपाद् युद्धं चक्रे स राजराट्

॥१९॥

जित्वा यक्षान् बहुविधान् उवास दश शर्वरीः । यक्षेश्वरो मृगो भूत्वा भार्ययापि वने वसन्

॥२०॥

हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् । प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम्

॥२१॥

यक्ष उवाच:

राजाऽयं दुर्मनाः कान्ते व्यसनासक्तमानसः । कथम् आयाति विपदं तत्रोपायो विचिन्त्यताम्

॥२२॥

पापर्द्धिव्यसनान्तानि राज्यान्य् अखिलभूभुजाम् । प्रापयोमावनं सुभ्रूर् मृगी भूत्वा मनोहरा

॥२३॥

प्रविशेत् तत्र राजायं स्त्री भविष्यत्य् असंशयम् । करणीयं त्वया भद्रे न चैतद् युज्यते मम । अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी

॥२४॥

यक्षिण्य् उवाच:

कथं त्वया न गन्तव्यम् उमावनम् अनुत्तमम् । गतेऽपि त्वयि को दोषस् तन् मे कथय तत्त्वतः

॥२५॥

यक्ष उवाच:

हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः । देवैर् गणैर् अनुवृतो विचचार यथासुखम् । पार्वती शङ्करं प्राह कदाचिद् रहसि स्थितम्

॥२६॥

पार्वत्य् उवाच:

स्त्रीणाम् एष स्वभावोऽस्ति रतं गोपायितं भवेत् । तस्मान् मे नियतं देशम् आज्ञया रक्षितं तव

॥२७॥

देहि मे त्रिदशेशान उमावनम् इति श्रुतम् । विना त्वया गणेशेन कार्त्तिकेयेन नन्दिना

॥२८॥

यस् त्व् अत्र प्रविशेन् नाथ स्त्रीत्वं तस्य भवेद् इति

॥२९॥

यक्ष उवाच:

इत्य् आज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना । किं करोमि पुमान् कान्ते त्वया प्रणयनार्दितः । तस्मान् मया न गन्तव्यम् उमाया वनम् उत्तमम्

॥३०॥

ब्रह्मोवाच:

तद् भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी । मृगी भूत्वा विशालाक्षी इलस्य पुरतोऽभवत्

॥३१॥

यक्षस् तु संस्थितस् तत्र ददर्शेलो मृगीं तदा । मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः

॥३२॥

एक एव हयारूढो निर्ययौ तां मृगीम् अनु । साकर्षत शनैस् तं तु राजानं मृगयाकुलम्

॥३३॥

शनैर् जगाम सा तत्र यद् उमावनम् उच्यते । अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित् क्वचित्

॥३४॥

तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् । हरिणी चपलाक्षी सा तम् आकर्षद् उमावनम्

॥३५॥

अनुप्राप्तो हयारूढस् तत् प्राप स उमावनम् । उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा

॥३६॥

मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी । दिव्यरूपं समास्थाय चाशोकतरुसन्निधौ

॥३७॥

तच्छाखालम्बितकरा दिव्यगन्धानुलेपना । दिव्यरूपधरा तन्वी कृतकार्या समा तदा

॥३८॥

हसन्ती नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा । मृगीम् आलोकयन्तं तं चपलाक्षम् इलं तदा

॥३९॥

भर्तृवाक्यम् अशेषेण स्मरन्ती प्राह भूमिपम्

॥४०॥

समोवाच:

हयारूढाबला तन्वि क्व एकैव तु गच्छसि । पुरुषस्य च वेषेण इले कम् अनुयास्यसि

॥४१॥

ब्रह्मोवाच:

इलेति वचनं श्रुत्वा राजासौ क्रोधमूर्छितः । यक्षिणीं भर्त्सयित्वासौ ताम् अपृच्छन् मृगीं पुनः

॥४२॥

तथापि यक्षिणी प्राह इले किम् अनुवीक्षसे । इलेति वचनं श्रुत्वा धृतचापो हयस्थितः

॥४३॥

कुपितो दर्शयाम् आस त्रैलोक्यविजयी धनुः । पुनः सा प्राह नृपतिं महात्मानम् इले स्वयम्

॥४४॥

प्रेक्षस्व पश्चान् मां ब्रूहि असत्यां सत्यवादिनीम् । तदा चालोकयद् राजा स्तनौ तुङ्गौ भुजान्तरे

॥४५॥

किम् इदं मम सञ्जातम् इत्य् एवं चकितोऽभवत्

॥४६॥

इलोवाच:

किम् इदं मम सञ्जातं जानीते भवती स्फुटम् । वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते

॥४७॥

यक्षिण्य् उवाच:

हिमवत्कन्दरश्रेष्ठे समन्युर् वसते पतिः । यक्षाणाम् अधिपः श्रीमांस् तद्भार्याहं तु यक्षिणी

॥४८॥

यत्कन्दरे भवान् राजा तूपविष्टः सुशीतले । यस्य यक्षा हता मोहात् त्वया हि सङ्गरं विना

॥४९॥

ततोऽहं निर्गमार्थं ते मृगी भूत्वा उमावनम् । प्रविष्टा त्वं प्रविष्टोऽसि पुरा प्राह महेश्वरः

॥५०॥

यस् त्व् अत्र प्रविशेन् मन्दः पुमान् स्त्रीत्वम् अवाप्स्यति । तस्मात् स्त्रीत्वम् अवाप्तोऽसि न त्वं दुःखितुम् अर्हसि । प्रौढोऽपि कोऽत्र जानाति विचित्रभवितव्यताम्

॥५१॥

ब्रह्मोवाच:

यक्षिणीवचनं श्रुत्वा हयारूढस् तदापतत् । तम् आश्वास्य पुनः सैव यक्षिणी वाक्यम् अब्रवीत्

॥५२॥

यक्षिण्य् उवाच:

स्त्रीत्वं जातं जातम् एव न पुंस्त्वं कर्तुम् अर्हसि । गृहाण विद्यां स्त्रीयोग्यां नृत्यं गीतम् अलङ्कृतिम् । स्त्रीलालित्यं स्त्रीविलासं स्त्रीकृत्यं सर्वम् एव तत्

॥५३॥

ब्रह्मोवाच:

इला सर्वम् अथावाप्य यक्षिणीं वाक्यम् अब्रवीत्

॥५४॥

इलोवाच:

को वा भर्ता किं तु कृत्यं पुनः पुंस्त्वं कथं भवेत् । एतद् वदस्व कल्याणी दुःखार्ताया विशेषतः । आर्तानाम् आर्तिशमनाच् छ्रेयो नाभ्यधिकं क्वचित्

॥५५॥

यक्षिण्य् उवाच:

बुधः सोमसुतो नाम वनाद् अस्माच् च पूर्वतः । आश्रमस् तस्य सुभगे पितरं नित्यम् एष्यति

॥५६॥

अनेनैव पथा सोमं पितरं स बुधो ग्रहः । द्रष्टुं याति ततो नित्यं नमस्कर्तुं तथैव च

॥५७॥

यदा याति बुधः शान्तस् तदात्मानं च दर्शय । तं दृष्ट्वा त्वं तु सुभगे सर्वकामान् अवाप्स्यसि

॥५८॥

ब्रह्मोवाच:

ताम् आश्वास्य ततः सुभ्रूर् यक्षिण्य् अन्तरधीयत । यक्षिणी सा तम् आचष्ट यक्षोऽपि सुखम् आप्तवान्

॥५९॥

इलसैन्यं च तत्रासीत् तद् गतं च यथासुखम् । उमावनस्थिता चेला गायन्ती नृत्यती पुनः

॥६०॥

स्त्रीभावम् अनुचेष्टन्ती स्मरन्ती कर्मणो गतिम् । कदाचित् क्रियमाणे तु इलया नृत्यकर्मणि

॥६१॥

ताम् अपश्यद् बुधो धीमान् पितरं गन्तुम् उद्यतः । इलां दृष्ट्वा गतिं त्यक्त्वा ताम् आगत्याब्रवीद् बुधः

॥६२॥

बुध उवाच:

भार्या भव मम स्वस्था सर्वाभ्यस् त्वं प्रिया भव

॥६३॥

ब्रह्मोवाच:

बुधवाक्यम् इला भक्त्या त्व् अभिनन्द्य तथाकरोत् । स्मृत्वा च यक्षिणीवाक्यं ततस् तुष्टाभवन् मुने

॥६४॥

बुधो रेमे तया प्रीत्या नीत्वा स्वस्थानम् उत्तमम् । सा चापि सर्वभावेन तोषयाम् आस तं पतिम् । ततो बहुतिथे काले बुधस् तुष्टोऽवदत् प्रियाम्

॥६५॥

बुध उवाच:

किं ते देयं मया भद्रे प्रियं यन् मनसि स्थितम्

॥६६॥

ब्रह्मोवाच:

तद्वाक्यसमकालं तु पुत्रं देहीत्य् अभाषत । इला बुधं सोमसुतं प्रीतिमन्तं प्रियं तथा

॥६७॥

बुध उवाच:

अमोघम् एतन् मद्वीर्यं तथा प्रीतिसमुद्भवम् । पुत्रस् ते भविता तस्मात् क्षत्रियो लोकविश्रुतः

॥६८॥

सोमवंशकरः श्रीमान् आदित्य इव तेजसा । बुद्ध्या बृहस्पतिसमः क्षमया पृथिवीसमः

॥६९॥

वीर्येणाजौ हरिर् इव कोपेन हुतभुग् यथा

॥७०॥

ब्रह्मोवाच:

तस्मिन्न् उत्पद्यमाने तु बुधपुत्रे महात्मनि । जयशब्दश् च सर्वत्र त्व् आसीच् च सुरवेश्मनि

॥७१॥

बुधपुत्रे समुत्पन्ने तत्राजग्मुः सुरेश्वराः । अहम् अप्य् आगमं तत्र मुदा युक्तो महामते

॥७२॥

जातमात्रः सुतो रावम् अकरोत् स पृथुस्वरम् । तेन सर्वेऽप्य् अवोचन् वै सङ्गता ऋषयः सुराः

॥७३॥

यस्मात् पुरू रवोऽस्येति तस्माद् एष पुरूरवाः । स्याद् इत्य् एवं नाम चक्रुः सर्वे सन्तुष्टमानसाः

॥७४॥

बुधोऽप्य् अध्यापयाम् आस क्षात्रविद्यां सुतं शुभाम् । धनुर्वेदं सप्रयोगं बुधः प्रादात् तदात्मजे

॥७५॥

स शीघ्रं वृद्धिम् अगमच् छुक्लपक्षे यथा शशी । स मातरं दुःखयुतां समीक्ष्येलां महामतिः । नमस्याथ विनीतात्मा इलाम् ऐलोऽब्रवीद् इदम्

॥७६॥

ऐल उवाच:

बुधो मातर् मम पिता तव भर्ता प्रियस् तथा । अहं च पुत्रः कर्मण्यः कस्मात् ते मानसो ज्वरः

॥७७॥

इलोवाच:

सत्यं पुत्र बुधो भर्ता त्वं च पुत्रो गुणाकरः । भर्तृपुत्रकृता चिन्ता न ममास्ति कदाचन

॥७८॥

तथापि पूर्वजं किञ्चिद् दुःखं स्मृत्वा पुनः पुनः । चिन्तयेयं महाबुद्धे ततो मातरम् अब्रवीत्

॥७९॥

ऐल उवाच:

निवेदयस्व मे मातस् तद् एव प्रथमं मम

॥८०॥

ब्रह्मोवाच:

इला चैनम् उवाचेदं रहोवाचं कथं वदे । तथापि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः । मग्नानां दुःखपाथोब्धौ पुत्रः प्रवहणं परम्

॥८१॥

ब्रह्मोवाच:

तन् मातृवचनं श्रुत्वा विनीतः प्राह मातरम् । पादयोः पतितश् चापि वद मातर् यथा तथा

॥८२॥

ब्रह्मोवाच:

सा पुरूरवसं प्राह इक्ष्वाकूणां तथा कुलम् । तत्रोत्पत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान् सुतान्

॥८३॥

पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् । वननिर्याणम् एवाथ अमात्यानां पुरोधसः

॥८४॥

प्रेषणं च नगर्यां तां मृगयासक्तिम् एव च । हिमवत्कन्दरगतिं यक्षेश्वरगृहे गतिम्

॥८५॥

उमावनप्रवेशं च स्त्रीत्वप्राप्तिम् अशेषतः । महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु

॥८६॥

यक्षिणीवाक्यम् अप्य् अस्य वरदानं तथैव च । बुधप्राप्तिं तथा प्रीतिं पुत्रोत्पत्त्याद्य् अशेषतः

॥८७॥

कथयाम् आस तत् सर्वं श्रुत्वा मातरम् अब्रवीत् । पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत्

॥८८॥

एतावता ते तृप्तिश् चेद् अलम् एतेन चाम्बिके । यद् अप्य् अन्यन् मनोवर्ति तद् अप्य् आज्ञापयस्व मे

॥८९॥

इलोवाच:

इच्छेयं पुंस्त्वम् उत्कृष्टम् इच्छेयं राज्यम् उत्तमम् । अभिषेकं च पुत्राणां तव चापि विशेषतः

॥९०॥

दानं दातुं च यष्टुं च मुक्तिमार्गस्य वीक्षणम् । सर्वं च कर्तुम् इच्छामि तव पुत्र प्रसादतः

॥९१॥

पुत्र उवाच:

उपायं त्वा तु पृच्छामि येन पुंस्त्वम् अवाप्स्यसि । तपसो वान्यतो वापि वदस्व मम तत्त्वतः

॥९२॥

इलोवाच:

बुधं त्वं पितरं पृच्छ गत्वा पुत्र यथार्थवत् । स तु सर्वं तु जानाति उपदेक्ष्यति ते हितम्

॥९३॥

ब्रह्मोवाच:

तन्मातृवचनाद् ऐलो गत्वा पितरम् अञ्जसा । उवाच प्रणतो भूत्वा मातुः कृत्यं तथात्मनः

॥९४॥

बुध उवाच:

इलं जाने महाप्राज्ञ इलां जातां पुनस् तथा । उमावनप्रवेशं च शम्भोर् आज्ञां तथैव च

॥९५॥

तस्माच् छम्भुप्रसादेन उमायाश् च प्रसादतः । विशापो भविता पुत्र ताव् आराध्य न चान्यथा

॥९६॥

पुरूरवा उवाच:

पश्येयं तं कथं देवं कथं वा मातरं शिवाम् । तीर्थाद् वा तपसो वापि तत् पितः प्रथमं वद

॥९७॥

बुध उवाच:

गौतमीं गच्छ पुत्र त्वं तत्रास्ते सर्वदा शिवः । उमया सहितः श्रीमाञ् शापहन्ता वरप्रदः

॥९८॥

ब्रह्मोवाच:

पुरूरवाः पितुर् वाक्यं श्रुत्वा तु मुदितोऽभवत् । गौतमीं तपसे धीमान् गङ्गां त्रैलोक्यपावनीम्

॥९९॥

पुंस्त्वम् इच्छंस् तथा मातुर् जगाम तपसे त्वरन् । हिमवन्तं गिरिं नत्वा मातरं पितरं गुरुम्

॥१००॥

गच्छन्तम् अन्वगात् पुत्रम् इला सोमसुतस् तथा । ते सर्वे गौतमीं प्राप्ता हिमवत्पर्वतोत्तमात्

॥१०१॥

तत्र स्नात्वा तपः किञ्चित् कृत्वा चक्रुः स्तुतिं पराम् । भवस्य देवदेवस्य स्तुतिक्रमम् इमं शृणु

॥१०२॥

बुधस् तुष्टाव प्रथमम् इला च तदनन्तरम् । ततः पुरूरवाः पुत्रो गौरीं देवीं च शङ्करम्

॥१०३॥

बुध उवाच:

यौ कुङ्कुमेन स्वशरीरजेन । स्वभावहेमप्रतिमौ सरूपौ । याव् अर्चितौ स्कन्दगणेश्वराभ्यां । तौ मे शरण्यौ शरणं भवेताम्

॥१०४॥

इलोवाच:

संसारतापत्रयदावदग्धाः । शरीरिणो यौ परिचिन्तयन्तः । सद्यः परां निर्वृतिम् आप्नुवन्ति । तौ शङ्करौ मे शरणं भवेताम्

॥१०५॥

आर्ता ह्य् अहं पीडितमानसा ते । क्लेशादिगोप्ता न परोऽस्ति कश्चित् । देव त्वदीयौ चरणौ सुपुण्यौ । तौ मे शरण्यौ शरणं भवेताम्

॥१०६॥

पुरूरवा उवाच:

ययोः सकाशाद् इदम् अभ्युदैति । प्रयाति चान्ते लयम् एव सर्वम् । जगच्छरण्यौ जगदात्मकौ तु । गौरीहरौ मे शरणं भवेताम्

॥१०७॥

यौ देववृन्देषु महोत्सवे तु । पादौ गृहाणेश गिरीशपुत्र्याः । प्रोक्तं धृतौ प्रीतिवशाच् छिवेन । तौ मे शरण्यौ शरणं भवेताम्

॥१०८॥

श्रीदेव्य् उवाच:

किम् अभीष्टं प्रदास्यामि युष्मभ्यं तद् वदन्तु मे । कृतकृत्याः स्थ भद्रं वो देवानाम् अपि दुष्करम्

॥१०९॥

पुरूरवा उवाच:

इलो राजा तवाज्ञात्वा वनं प्राविशद् अम्बिके । तत् क्षमस्व सुरेशानि पुंस्त्वं दातुं त्वम् अर्हसि

॥११०॥

ब्रह्मोवाच:

तथेत्य् उवाच तान् सर्वान् भवस्य तु मते स्थिता । ततः स भगवान् आह देवीवाक्यरतः सदा

॥१११॥

शिव उवाच:

अत्राभिषेकमात्रेण पुंस्त्वं प्राप्नोत्व् अयं नृपः

॥११२॥

ब्रह्मोवाच:

स्नाताया बुधभार्यायाः शरीराद् वारि सुस्रुवे । नृत्यं गीतं च लावण्यं यक्षिण्या यद् उपार्जितम्

॥११३॥

तत् सर्वं वारिधाराभिर् गङ्गाम्भसि समाविशत् । नृत्या गीता च सौभाग्या इमा नद्यो बभूविरे

॥११४॥

ताश् चापि सङ्गता गङ्गां ते पुण्याः सङ्गमास् त्रयः । तेषु स्नानं च दानं च सुरराज्यफलप्रदम्

॥११५॥

इला पुंस्त्वम् अवाप्याथ गौरीशम्भोः प्रसादतः । महाभ्युदयसिद्ध्यर्थं वाजिमेधम् अथाकरोत्

॥११६॥

पुरोधसं वसिष्ठं च भार्यां पुत्रांस् तथैव च । अमात्यांश् च बलं कोशम् आनीय स नृपोत्तमः

॥११७॥

चतुरङ्गं बलं राज्यं दण्डकेऽस्थापयत् तदा । इलस्य नाम्ना विख्यातं तत्र तत् पुरम् उच्यते

॥११८॥

पूर्वजातान् अथो पुत्रान् सूर्यवंशक्रमागते । राज्येऽभिषिच्य पश्चात् तम् ऐलं स्नेहाद् असिञ्चयत्

॥११९॥

सोमवंशकरः श्रीमान् अयं राजा भवेद् इति । सर्वेभ्यो मतिमानेभ्यो ज्येष्ठः श्रेष्ठोऽभवन् मुने

॥१२०॥

यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः । यत्र पुंस्त्वम् अवाप्याथ यत्र पुत्राः समागताः

॥१२१॥

यक्षिणीदत्तनृत्यादिगीतसौभाग्यमङ्गलाः । नद्यो भूत्वा यत्र गङ्गां सङ्गतास् तानि नारद

॥१२२॥

तीर्थानि शुभदान्य् आसन् सहस्राण्य् अथ षोडश । उभयोस् तीरयोस् तात तत्र शम्भुर् इलेश्वरः । तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम्

॥१२३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).