अध्यायः १११
ब्रह्मोवाच:
नागतीर्थम् इति ख्यातं सर्वकामप्रदं शुभम् । यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम्
॥१॥प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः । सोमवंशभवः श्रीमान् मतिमान् गुणसागरः
॥२॥पुत्रार्थं स महायत्नम् अकरोत् प्रियया सह । तस्य पुत्रश् चिराद् आसीत् सर्पो वै भीषणाकृतिः
॥३॥पुत्रं तं गोपयाम् आस शूरसेनो महीपतिः । राज्ञः पुत्रः सर्प इति न कश्चिद् विन्दते जनः
॥४॥अन्तर्वर्ती परो वापि मातरं पितरं विना । धात्रेय्य् अपि न जानाति नामात्यो न पुरोहितः
॥५॥तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः । सन्तापं नित्यम् आप्नोति सर्पाद् वरम् अपुत्रता
॥६॥एतद् अस्ति महासर्पो वक्ति नित्यं मनुष्यवत् । स सर्पः पितरं प्राह कुरु चूडाम् अपि क्रियाम्
॥७॥तथोपनयनं चापि वेदाध्ययनम् एव च । यावद् वेदं न चाधीते तावच् छूद्रसमो द्विजः
॥८॥ब्रह्मोवाच:
एतच् छ्रुत्वा पुत्रवचः शूरसेनोऽतिदुःखितः । ब्राह्मणं कञ्चनानीय संस्कारादि तदाकरोत् । अधीतवेदः सर्पोऽपि पितरं चाब्रवीद् इदम्
॥९॥सर्प उवाच:
विवाहं कुरु मे राजन् स्त्रीकामोऽहं नृपोत्तम । अन्यथापि च कृत्यं ते न सिध्येद् इति मे मतिः
॥१०॥जनयित्वात्मजान् वेदविधिनाखिलसंस्कृतीः । न कुर्याद् यः पिता तस्य नरकान् नास्ति निष्कृतिः
॥११॥ब्रह्मोवाच:
विस्मितः स पिता प्राह सुतं तम् उरगाकृतिम्
॥१२॥शूरसेन उवाच:
यस्य शब्दाद् अपि त्रासं यान्ति शूराश् च पूरुषाः । तस्मै कन्यां तु को दद्याद् वद पुत्र करोमि किम्
॥१३॥ब्रह्मोवाच:
तत् पितुर् वचनं श्रुत्वा सर्पः प्राह विचक्षणः
॥१४॥सर्प उवाच:
विवाहा बहवो राजन् राज्ञां सन्ति जनेश्वर । प्रसह्याहरणं चापि शस्त्रैर् वैवाह एव च
॥१५॥जाते विवाहे पुत्रस्य पितासौ कृतकृद् भवेत् । नो चेद् अत्रैव गङ्गायां मरिष्ये नात्र संशयः
॥१६॥ब्रह्मोवाच:
तत् पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः । विवाहार्थम् अमात्यांस् तान् आहूयेदं वचोऽब्रवीत्
॥१७॥शूरसेन उवाच:
नागेश्वरो मम सुतो युवराजो गुणाकरः । गुणवान् मतिमाञ् शूरो दुर्जयः शत्रुतापनः
॥१८॥रथे नागे स धनुषि पृथिव्यां नोपमीयते । विवाहस् तस्य कर्तव्यो ह्य् अहं वृद्धस् तथैव च
॥१९॥राज्यभारं सुते न्यस्य निश्चिन्तोऽहं भवाम्य् अतः । न दारसङ्ग्रहो यावत् तावत् पुत्रो मम प्रियः
॥२०॥बालभावं नो जहाति तस्मात् सर्वेऽनुमन्य च । विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः
॥२१॥न मे काचित् तदा चिन्ता कृतोद्वाहो यदात्मजः । सुते न्यस्तभरा यान्ति कृतिनस् तपसे वनम्
॥२२॥ब्रह्मोवाच:
अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत् । ऊचुः प्राञ्जलयो हर्षाद् राजानं भूरितेजसम्
॥२३॥अमात्या ऊचुः:
तव पुत्रो गुणज्येष्ठस् त्वं च सर्वत्र विश्रुतः । विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते
॥२४॥ब्रह्मोवाच:
अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः । पुत्रं सर्पं त्व् अमात्यानां न चाख्याति न ते विदुः
॥२५॥राजा पुनस् तान् उवाच का स्यात् कन्या गुणाधिका । महावंशभवः श्रीमान् को राजा स्याद् गुणाश्रयः
॥२६॥सम्बन्धयोग्यः शूरश् च यत्सम्बन्धः प्रशस्यते । तद् राजवचनं श्रुत्वा अमात्यानां महामतिः
॥२७॥कुलीनः साधुर् अत्यन्तं राजकार्यहिते रतः । राज्ञो मतिं विदित्वा तु इङ्गितज्ञोऽब्रवीद् इदम्
॥२८॥अमात्य उवाच:
पूर्वदेशे महाराज विजयो नाम भूपतिः । वाजिवारणरत्नानां यस्य सङ्ख्या न विद्यते
॥२९॥अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः । तेषां स्वसा भोगवती साक्षाल् लक्ष्मीर् इवापरा । तव पुत्रस्य योग्या सा भार्या राजन् मयोदिता
॥३०॥ब्रह्मोवाच:
वृद्धामात्यवचः श्रुत्वा राजा तं प्रत्यभाषत
॥३१॥राजोवाच:
सुता तस्य कथं मेऽस्य सुतस्य स्याद् वदस्व तत्
॥३२॥वृद्धामात्य उवाच:
लक्षितोऽसि महाराज यत् ते मनसि वर्तते । यच् छूरसेन कृत्यं स्याद् अनुजानीहि मां ततः
॥३३॥ब्रह्मोवाच:
वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः । सम्पूज्य प्रेषयाम् आस महत्या सेनया सह
॥३४॥स पूर्वदेशम् आगत्य महाराजं समेत्य च । सम्पूज्य विविधैर् वाक्यैर् उपायैर् नीतिसम्भवैः
॥३५॥महाराजसुतायाश् च भोगवत्या महामतिः । शूरसेनस्य नृपतेः सूनोर् नागस्य धीमतः
॥३६॥विवाहायाकरोत् सन्धिं मिथ्यामिथ्यावचोउक्तिभिः । पूजयाम् आस नृपतिं भूषणाच्छादनादिभिः
॥३७॥अवाप्य पूजां नृपतिर् ददामीत्य् अवदत् तदा । तत आगत्य राज्ञेऽसौ वृद्धामात्यो महामतिः
॥३८॥शूरसेनाय तद् वृत्तं वैवाहिकम् अवेदयत् । ततो बहुतिथे काले वृद्धामात्यो महामतिः
॥३९॥पुनर् बलेन महता वस्त्रालङ्कारभूषितः । जगाम तरसा सर्वैर् अन्यैश् च सचिवैर् वृतः
॥४०॥विवाहाय महामात्यो महाराजाय बुद्धिमान् । सर्वं प्रोवाच वृद्धोऽसाव् अमात्यः सचिवैर् वृतः
॥४१॥वृद्धामात्य उवाच:
अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः । पुत्रो नाग इति ख्यातो बुद्धिमान् गुणसागरः
॥४२॥क्षत्रियाणां विवाहाश् च भवेयुर् बहुधा नृप । तस्माच् छस्त्रैर् अलङ्कारैर् विवाहः स्यान् महामते
॥४३॥क्षत्रिया ब्राह्मणाश् चैव सत्यां वाचं वदन्ति हि । तस्माच् छस्त्रैर् अलङ्कारैर् विवाहस् त्व् अनुमन्यताम्
॥४४॥ब्रह्मोवाच:
वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः । मेने वाक्यं तथा सत्यम् अमात्यं भूपतिं तदा
॥४५॥विवाहम् अकरोद् राजा भोगवत्याः सविस्तरम् । शस्त्रेण च यथाशास्त्रं प्रेषयाम् आस तां पुनः
॥४६॥स्वान् अमात्यांस् तथा गाश् च हिरण्यतुरगादिकम् । बहु दत्त्वाथ विजयो हर्षेण महता युतः
॥४७॥ताम् आदायाथ सचिवा वृद्धामात्यपुरोगमाः । प्रतिष्ठानम् अथाभ्येत्य शूरसेनाय तां स्नुषाम्
॥४८॥न्यवेदयंस् तथोचुस् ते विजयस्य वचो बहु । भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत्
॥४९॥निवेद्य शूरसेनाय कृतकृत्या बभूविरे । विजयस्य तु येऽमात्या भोगवत्या सहागताः
॥५०॥तान् पूजयित्वा राजासौ बहुमानपुरःसरम् । विजयाय यथा प्रीतिस् तथा कृत्वा व्यसर्जयत्
॥५१॥विजयस्य सुता बाला रूपयौवनशालिनी । श्वश्रूश्वशुरयोर् नित्यं शुश्रूषन्ती सुमध्यमा
॥५२॥भोगवत्याश् च यो भर्ता महासर्पोऽतिभीषणः । एकान्तदेशे विजने गृहे रत्नसुशोभिते
॥५३॥सुगन्धकुसुमाकीर्णे तत्रास्ते सुखशीतले । स सर्पो मातरं प्राह पितरं च पुनः पुनः
॥५४॥मम भार्या राजपुत्री किं मां नैवोपसर्पति । तत् पुत्रवचनं श्रुत्वा सर्पमातेदम् अब्रवीत्
॥५५॥राजपत्न्य् उवाच:
धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद । तव भर्ता सर्प इति ततः सा किं वदिष्यति
॥५६॥ब्रह्मोवाच:
धात्रिका च तथेत्य् उक्त्वा गत्वा भोगवतीं तदा । रहोगता उवाचेदं विनीतवद् अपूर्ववत्
॥५७॥धात्रिकोवाच:
जानेऽहं सुभगे भद्रे भर्तारं तव दैवतम् । न चाख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम्
॥५८॥ब्रह्मोवाच:
तस्यास् तद् वचनं श्रुत्वा भोगवत्य् अब्रवीद् इदम्
॥५९॥भोगवत्य् उवाच:
मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत् । किं पुनर् देवजातिस् तु भर्ता पुण्येन लभ्यते
॥६०॥ब्रह्मोवाच:
भोगवत्यास् तु तद् वाक्यं सा च सर्वं न्यवेदयत् । सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम्
॥६१॥रुरोद राजा तद्वाक्यात् स्मृत्वा तां कर्मणो गतिम् । भोगवत्य् अपि तां प्राह उक्तपूर्वां पुनः सखीम्
॥६२॥भोगवत्य् उवाच:
कान्तं दर्शय भद्रं ते वृथा याति वयो मम
॥६३॥ब्रह्मोवाच:
ततः सा दर्शयाम् आस सर्पं तम् अतिभीषणम् । सुगन्धकुसुमाकीर्णे शयने सा रहोगता
॥६४॥तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम् । कृताञ्जलिपुटा वाक्यम् अवदत् कान्तम् अञ्जसा
॥६५॥भोगवत्य् उवाच:
धन्यास्म्य् अनुगृहीतास्मि यस्या मे दैवतं पतिः
॥६६॥ब्रह्मोवाच:
इत्य् उक्त्वा शयने स्थित्वा तं सर्पं सर्पभावनैः । खेलयाम् आस तन्वङ्गी गीतैश् चैवाङ्गसङ्गमैः
॥६७॥सुगन्धकुसुमैः पानैस् तोषयाम् आस तं पतिम् । तस्याश् चैव प्रसादेन सर्पस्याभूत् स्मृतिर् मुने । स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पोऽब्रवीत् प्रियाम्
॥६८॥सर्प उवाच:
राजकन्यापि मां दृष्ट्वा न भीतासि कथं प्रिये । सोवाच दैवविहितं कोऽतिक्रमितुम् ईश्वरः । पतिर् एव गतिः स्त्रीणां सर्वदैव विशेषतः
॥६९॥ब्रह्मोवाच:
श्रुत्वेति हृष्टस् ताम् आह नागः प्रहसिताननः
॥७०॥सर्प उवाच:
तुष्टोऽस्मि तव भक्त्याहं किं ददामि तवेप्सितम् । तव प्रसादाच् चार्वङ्गि सर्वस्मृतिर् अभूद् इयम्
॥७१॥शप्तोऽहं देवदेवेन कुपितेन पिनाकिना । महेश्वरकरे नागः शेषपुत्रो महाबलः
॥७२॥सोऽहं पतिस् त्वं च भार्या नाम्ना भोगवती पुरा । उमावाक्याज् जहासोच्चैः शम्भुः प्रीतो रहोगतः
॥७३॥ममापि चागतं भद्रे हास्यं तद्देवसन्निधौ । ततस् तु कुपितः शम्भुः प्रादाच् छापं ममेदृशम्
॥७४॥शिव उवाच:
मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवान् इति
॥७५॥सर्प उवाच:
ततः प्रसादितः शम्भुस् त्वया भद्रे मया सह । ततश् चोक्तं तेन भद्रे गौतम्यां मम पूजनम्
॥७६॥कुर्वतो ज्ञानम् आधास्ये यदा सर्पाकृतेस् तव । तदा विशापो भविता भोगवत्याः प्रसादतः
॥७७॥तस्माद् इदं ममापन्नं तव चापि शुभानने । तस्मान् नीत्वा गौतमीं मां पूजां कुरु मया सह
॥७८॥ततो विशापो भविता आवां यावः शिवं पुनः । सर्वेषां सर्वदार्तानां शिव एव परा गतिः
॥७९॥ब्रह्मोवाच:
तच् छ्रुत्वा भर्तृवचनं सा भर्त्रा गौतमीं ययौ । ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु
॥८०॥ततः प्रसन्नो भगवान् दिव्यरूपं ददौ मुने । आपृच्छ्य पितरौ सर्पो भार्यया गन्तुम् उद्यतः । शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः
॥८१॥पितोवाच:
युवराज्यधरो ज्येष्ठः पुत्र एको भवान् इति । तस्माद् राज्यम् अशेषेण कृत्वोत्पाद्य सुतान् बहून् । याते मयि परं धाम ततो याहि शिवं पुरम्
॥८२॥ब्रह्मोवाच:
एतच् छ्रुत्वा पितृवचस् तथेत्य् आह स नागराट् । कामरूपम् अवाप्याथ भार्यया सह सुव्रतः
॥८३॥पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम् । याते पितरि स्वर्लोकं पुत्रान् स्थाप्य स्वके पदे
॥८४॥भार्यामात्यादिसहितस् ततः शिवपुरं ययौ । ततः प्रभृति तत् तीर्थं नागतीर्थम् इति श्रुतम्
॥८५॥यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः । तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
॥८६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).