मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ११२

3
ब्रह्मपुराणम् · 112

अध्यायः ११२

ब्रह्मोवाच:

मातृतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् । आधिभिर् मुच्यते जन्तुस् तत्तीर्थस्मरणाद् अपि

॥१॥

देवानाम् असुराणां च सङ्गरोऽभूत् सुदारुणः । नाशक्नुवंस् तदा जेतुं देवा दानवसङ्गरम्

॥२॥

तदाहम् अगमं देवैस् तिष्ठन्तं शूलपाणिनम् । अस्तवं विविधैर् वाक्यैः कृताञ्जलिपुटः शनैः

॥३॥

सम्मन्त्र्य देवैर् असुरैश् च सर्वैर् । यदाहृतं सम्मथितुं समुद्रम् । यत् कालकूटं समभून् महेश । तत् त्वां विना को ग्रसितुं समर्थः

॥४॥

पुष्पप्रहारेण जगत्त्रयं यः । स्वाधीनम् आपादयितुं समर्थः । मारो हरेऽप्य् अन्यसुरादिवन्द्यो । वितायमानो विलयं प्रयातः

॥५॥

विमथ्य वारीशम् अनङ्गशत्रो । यद् उत्तमं तत् तु दिवौकसेभ्यः । दत्त्वा विषं संहरन् नीलकण्ठ । को वा धर्तुं त्वाम् ऋते वै समर्थः

॥६॥

ततश् च तुष्टो भगवान् आदिकर्ता त्रिलोचनः

॥७॥

शिव उवाच:

दास्येऽहं यद् अभीष्टं वो ब्रुवन्तु सुरसत्तमाः

॥८॥

देवा ऊचुः:

दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज । जहि शत्रून् सुरान् पाहि नाथवन्तस् त्वया प्रभो

॥९॥

निष्कारणः सुहृच् छम्भो नाभविष्यद् भवान् यदि । तदाकरिष्यन् किम् इव दुःखार्ताः सर्वदेहिनः

॥१०॥

ब्रह्मोवाच:

इत्य् उक्तस् तत्क्षणात् प्रायाद् यत्र ते देवशत्रवः । तत्र तद् युद्धम् अभवच् छङ्करेण सुरद्विषाम्

॥११॥

ततस् त्रिलोचनः श्रान्तस् तमोरूपधरः शिवः । ललाटाद् व्यपतंस् तस्य युध्यतः स्वेदबिन्दवः

॥१२॥

स संहरन् दैत्यगणांस् तामसीं मूर्तिम् आश्रितः । तां मूर्तिम् असुरा दृष्ट्वा मेरुपृष्ठाद् भुवं ययुः

॥१३॥

स संहरन् सर्वदैत्यांस् तदागच्छद् भुवं हरः । इतश् चेतश् च भीतास् तेऽधावन् सर्वां महीम् इमाम्

॥१४॥

तथैव कोपाद् रुद्रोऽपि शत्रूंस् तान् अनुधावति । तथैव युध्यतः शम्भोः पतिताः स्वेदबिन्दवः

॥१५॥

यत्र यत्र भुवं प्राप्तो बिन्दुर् माहेश्वरो मुने । तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः

॥१६॥

प्रोचुर् महेश्वरं सर्वाः खादामस् त्व् असुरान् इति । ततः प्रोवाच भगवान् सर्वैः सुरगणैर् वृतः

॥१७॥

शिव उवाच:

स्वर्गाद् भुवम् अनुप्राप्ता राक्षसास् ते रसातलम् । अनुप्राप्तास् ततः सर्वाः शृण्वन्तु मम भाषितम्

॥१८॥

यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः । रसातलम् अनुप्राप्ता इदानीं मद्भयाद् द्विषः । भवत्योऽप्य् अनुगच्छन्तु रसातलम् अनु द्विषः

॥१९॥

ब्रह्मोवाच:

ताश् च जग्मुर् भुवं भित्त्वा यत्र ते दैत्यदानवाः । तान् हत्वा मातरः सर्वान् देवारीन् अतिभीषणान्

॥२०॥

पुनर् देवान् उपाजग्मुः पथा तेनैव मातरः । गताश् च मातरो यावद् यावच् च पुनर् आगताः

॥२१॥

तावद् देवाः स्थिता आसन् गौतमीतीरम् आश्रिताः । प्रस्थानात् तत्र मातॄणां सुराणां च प्रतिष्ठितेः

॥२२॥

प्रतिष्ठानं तु तत् क्षेत्रं पुण्यं विजयवर्धनम् । मातॄणां यत्र चोत्पत्तिर् मातृतीर्थं पृथक् पृथक्

॥२३॥

तत्र तत्र बिलान्य् आसन् रसातलगतानि च । सुरास् ताभ्यो वरान् प्रोचुर् लोके पूजां यथा शिवः

॥२४॥

प्राप्नोति तद्वन् मातृभ्यः पूजा भवतु सर्वदा । इत्य् उक्त्वान्तर्दधुर् देवा आसंस् तत्रैव मातरः

॥२५॥

यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः । सुराणाम् अपि सेव्यानि किं पुनर् मानुषादिभिः

॥२६॥

तेषु स्नानम् अथो दानं पितॄणां चैव तर्पणम् । सर्वं तद् अक्षयं ज्ञेयं शिवस्य वचनं यथा

॥२७॥

यस् त्व् इदं शृणुयान् नित्यं स्मरेद् अपि पठेत् तथा । आख्यानं मातृतीर्थानाम् आयुष्मान् स सुखी भवेत्

॥२८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).