मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ११४

3
ब्रह्मपुराणम् · 114

अध्यायः ११४

ब्रह्मोवाच:

अविघ्नं तीर्थम् आख्यातं सर्वविघ्नविनाशनम् । तत्रापि वृत्तम् आख्यास्ये शृणु नारद भक्तितः

॥१॥

देवसत्त्रे प्रवृत्ते तु गौतम्याश् चोत्तरे तटे । समाप्तिर् नैव सत्त्रस्य सञ्जाता विघ्नदोषतः

॥२॥

ततः सुरगणाः सर्वे माम् अवोचन् हरिं तदा । ततो ध्यानगतोऽहं तान् अवोचं वीक्ष्य कारणम्

॥३॥

विनायककृतैर् विघ्नैर् नैतत् सत्त्रं समाप्यते । तस्मात् स्तुवन्तु ते सर्वे आदिदेवं विनायकम्

॥४॥

तथेत्य् उक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे । अस्तुवन् भक्तितो देवा आदिदेवं गणेश्वरम्

॥५॥

देवा ऊचुः:

यः सर्वकार्येषु सदा सुराणाम् । अपीशविष्ण्वम्बुजसम्भवानाम् । पूज्यो नमस्यः परिचिन्तनीयस् । तं विघ्नराजं शरणं व्रजामः

॥६॥

न विघ्नराजेन समोऽस्ति कश्चिद् । देवो मनोवाञ्छितसम्प्रदाता । निश्चित्य चैतत् त्रिपुरान्तकोऽपि । तं पूजयाम् आस वधे पुराणाम्

॥७॥

करोतु सोऽस्माकम् अविघ्नम् अस्मिन् । महाक्रतौ सत्वरम् आम्बिकेयः । ध्यातेन येनाखिलदेहभाजां । पूर्णा भविष्यन्ति मनोभिलाषाः

॥८॥

महोत्सवोऽभूद् अखिलस्य देव्या । जातः सुतश् चिन्तितमात्र एव । अतोऽवदन् सुरसङ्घाः कृतार्थाः । सद्योजातं विघ्नराजं नमन्तः

॥९॥

यो मातुर् उत्सङ्गगतोऽथ मात्रा । निवार्यमाणोऽपि बलाच् च चन्द्रम् । सङ्गोपयाम् आस पितुर् जटासु । गणाधिनाथस्य विनोद एषः

॥१०॥

पपौ स्तनं मातुर् अथापि तृप्तो । यो भ्रातृमात्सर्यकषायबुद्धिः । लम्बोदरस् त्वं भव विघ्नराजो । लम्बोदरं नाम चकार शम्भुः

॥११॥

संवेष्टितो देवगणैर् महेशः । प्रवर्ततां नृत्यम् इतीत्य् उवाच । सन्तोषितो नूपुररावमात्राद् । गणेश्वरत्वेऽभिषिषेच पुत्रम्

॥१२॥

यो विघ्नपाशं च करेण बिभ्रत् । स्कन्धे कुठारं च तथा परेण । अपूजितो विघ्नम् अथोऽपि मातुः । करोति को विघ्नपतेः समोऽन्यः

॥१३॥

धर्मार्थकामादिषु पूर्वपूज्यो । देवासुरैः पूज्यत एव नित्यम् । यस्यार्चनं नैव विनाशम् अस्ति । तं पूर्वपूज्यं प्रथमं नमामि

॥१४॥

यस्यार्चनात् प्रार्थनयानुरूपां । दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् । स्वतन्त्रसामर्थ्यकृतातिगर्वं । भ्रातृप्रियं त्व् आखुरथं तम् ईडे

॥१५॥

यो मातरं सरसैर् नृत्यगीतैस् । तथाभिलाषैर् अखिलैर् विनोदैः । सन्तोषयाम् आस तदातितुष्टं । तं श्रीगणेशं शरणं प्रपद्ये

॥१६॥

सुरोपकारैर् असुरैश् च युद्धैः । स्तोत्रैर् नमस्कारपरैश् च मन्त्रैः । पितृप्रसादेन सदा समृद्धं । तं श्रीगणेशं शरणं प्रपद्ये

॥१७॥

जये पुराणाम् अकरोत् प्रतीपं । पित्रापि हर्षात् प्रतिपूजितो यः । निर्विघ्नतां चापि पुनश् चकार । तस्मै गणेशाय नमस्करोमि

॥१८॥

ब्रह्मोवाच:

इति स्तुतः सुरगणैर् विघ्नेशः प्राह तान् पुनः

॥१९॥

गणेश उवाच:

इतो निर्विघ्नता सत्त्रे मत्तः स्याद् असुरारिणः

॥२०॥

ब्रह्मोवाच:

देवसत्त्रे निवृत्ते तु गणेशः प्राह तान् सुरान्

॥२१॥

गणेश उवाच:

स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः । तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन

॥२२॥

अत्र ये भक्तितः स्नानं दानं कुर्युर् अतन्द्रिताः । तेषां सर्वाणि कार्याणि भवेयुर् इति मन्यताम्

॥२३॥

ब्रह्मोवाच:

तद्वाक्यसमकालं तु तथेत्य् ऊचुः सुरा अपि । निवृत्ते तु मखे तस्मिन् सुरा जग्मुः स्वम् आलयम्

॥२४॥

ततः प्रभृति तत् तीर्थम् अविघ्नम् इति गद्यते । सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम्

॥२५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).