अध्यायः ११५
ब्रह्मोवाच:
शेषतीर्थम् इति ख्यातं सर्वकामप्रदायकम् । तस्य रूपं प्रवक्ष्यामि यन् मया परिभाषितम्
॥१॥शेषो नाम महानागो रसातलपतिः प्रभुः । सर्वनागैः परिवृतो रसातलम् अथाभ्यगात्
॥२॥राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् । तैर् निरस्तो भोगिपतिर् माम् उवाचाथ विह्वलः
॥३॥शेष उवाच:
रसातलं त्वया दत्तं राक्षसानां ममापि च । ते मे स्थानं न दास्यन्ति तस्मात् त्वां शरणं गतः
॥४॥ततोऽहम् अब्रवं नागं गौतमीं याहि पन्नग । तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम्
॥५॥नान्योऽस्ति लोकत्रितये मनोरथसमर्पकः । मद्वाक्यप्रेरितो नागो गङ्गाम् आप्लुत्य यत्नतः । कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम्
॥६॥शेष उवाच:
नमस् त्रैलोक्यनाथाय दक्षयज्ञविभेदिने । आदिकर्त्रे नमस् तुभ्यं नमस् त्रैलोक्यरूपिणे
॥७॥नमः सहस्रशिरसे नमः संहारकारिणे । सोमसूर्याग्निरूपाय जलरूपाय ते नमः
॥८॥सर्वदा सर्वरूपाय कालरूपाय ते नमः । पाहि शङ्कर सर्वेश पाहि सोमेश सर्वग । जगन्नाथ नमस् तुभ्यं देहि मे मनसेप्सितम्
॥९॥ब्रह्मोवाच:
ततो महेश्वरः प्रीतः प्रादान् नागेप्सितान् वरान् । विनाशाय सुरारीणां दैत्यदानवरक्षसाम्
॥१०॥शेषाय प्रददौ शूलं जह्य् अनेनारिपुङ्गवान् । ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः
॥११॥रसातलम् अथो गत्वा निजघान रिपून् रणे । निहत्य नागः शूलेन दैत्यदानवराक्षसान्
॥१२॥न्यवर्तत पुनर् देवो यत्र शेषेश्वरो हरः । पथा येन समायातो देवं द्रष्टुं स नागराट्
॥१३॥रसातलाद् यत्र देवो बिलं तत्र व्यजायत । तस्माद् बिलतलाद् यातं गाङ्गं वार्य् अतिपुण्यदम्
॥१४॥तद् वारि गङ्गाम् अगमद् गङ्गायाः सङ्गमस् ततः । देवस्य पुरतश् चापि कुण्डं तत्र सुविस्तरम्
॥१५॥नागस् तत्राकरोद् धोमं यत्र चाग्निः सदा स्थितः । सोष्णं तद् अभवद् वारि गङ्गायास् तत्र सङ्गमः
॥१६॥देवदेवं समाराध्य नागः प्रीतो महायशाः । रसातलं ततोऽभीष्टं शिवात् प्राप्य तलं ययौ
॥१७॥ततः प्रभृति तत् तीर्थं नागतीर्थम् उदाहृतम् । सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम्
॥१८॥आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच् च मुक्तिदम् । शृणुयाद् वा पठेद् भक्त्या यो वापि स्मरते तु तत्
॥१९॥तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः । एकविंशतितीर्थानाम् उभयोस् तत्र तीरयोः । शतानि मुनिशार्दूल सर्वसम्पत्प्रदायिनाम्
॥२०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).