अध्यायः ११७
ब्रह्मोवाच:
आत्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् । तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः
॥१॥दत्त इत्य् अपि विख्यातः सोऽत्रिपुत्रो हरप्रियः । दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः । स गत्वा पितरं प्राह विनयेन प्रणम्य च
॥२॥दत्त उवाच:
ब्रह्मज्ञानं कथं मे स्यात् कं पृच्छामि क्व यामि च
॥३॥ब्रह्मोवाच:
तच् छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा वचनम् अब्रवीत्
॥४॥अत्रिर् उवाच:
गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् । स तु प्रीतो यदैव स्यात् तदा ज्ञानम् अवाप्स्यसि
॥५॥ब्रह्मोवाच:
तथेत्य् उक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर् यतः । कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शङ्करम्
॥६॥दत्त उवाच:
संसारकूपे पतितोऽस्मि दैवान् । मोहेन गुप्तो भवदुःखपङ्के । अज्ञाननाम्ना तमसावृतोऽहं । परं न विन्दामि सुराधिनाथ
॥७॥भिन्नस् त्रिशूलेन बलीयसाहं । पापेन चिन्ताक्षुरपाटितश् च । तप्तोऽस्मि पञ्चेन्द्रियतीव्रतापैः । श्रान्तोऽस्मि सन्तारय सोमनाथ
॥८॥बद्धोऽस्मि दारिद्र्यमयैश् च बन्धैर् । हतोऽस्मि रोगानलतीव्रतापैः । क्रान्तोऽस्म्य् अहं मृत्युभुजङ्गमेन । भीतो भृशं किं करवाणि शम्भो
॥९॥भवाभवाभ्याम् अतिपीडितोऽहं । तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् । ईदृक्षया जरया चाभिभूतः । पश्यावस्थां कृपया मेऽद्य नाथ
॥१०॥कामेन कोपेन च मत्सरेण । दम्भेन दर्पादिभिर् अप्य् अनेकैः । एकैकशः कष्टगतोऽस्मि विद्धस् । त्वं नाथवद् वारय नाथ शत्रून्
॥११॥कस्यापि कश्चित् पतितस्य पुंसो । दुःखप्रणोदी भवतीति सत्यम् । विना भवन्तं मम सोमनाथ । कुत्रापि कारुण्यवचोऽपि नास्ति
॥१२॥तावत् स कोपो भयमोहदुःखान्य् । अज्ञानदारिद्र्यरुजस् तथैव । कामादयो मृत्युर् अपीह यावन् । नमः शिवायेति न वच्मि वाक्यम्
॥१३॥न मेऽस्ति धर्मो न च मेऽस्ति भक्तिर् । नाहं विवेकी करुणा कुतो मे । दातासि तेनाशु शरण्य चित्ते । निधेहि सोमेति पदं मदीये
॥१४॥याचे न चाहं सुरभूपतित्वं । हृत्पद्ममध्ये मम सोमनाथ । श्रीसोमपादाम्बुजसन्निधानं । याचे विचार्यैव च तत् कुरुष्व
॥१५॥यथा तवाहं विदितोऽस्मि पापस् । तथापि विज्ञापनम् आशृणुष्व । संश्रूयते यत्र वचः शिवेति । तत्र स्थितिः स्यान् मम सोमनाथ
॥१६॥गौरीपते शङ्कर सोमनाथ । विश्वेश कारुण्यनिधेऽखिलात्मन् । संस्तूयते यत्र सदेति तत्र । केषाम् अपि स्यात् कृतिनां निवासः
॥१७॥ब्रह्मोवाच:
इत्य् आत्रेयस्तुतिं श्रुत्वा तुतोष भगवान् हरः । वरदोऽस्मीति तं प्राह योगिनं विश्वकृद् भवः
॥१८॥आत्रेय उवाच:
आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि । तीर्थस्यापि च माहात्म्यं वरोऽयं त्रिदशार्चित
॥१९॥ब्रह्मोवाच:
एवम् अस्त्व् इति तं शम्भुर् उक्त्वा चान्तरधीयत । ततः प्रभृति तत् तीर्थम् आत्मतीर्थं विदुर् बुधाः । तत्र स्नानेन दानेन मुक्तिः स्याद् इह नारद
॥२०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).