अध्यायः ११८
ब्रह्मोवाच:
अश्वत्थतीर्थम् आख्यातं पिप्पलं च ततः परम् । उत्तरे मन्दतीर्थं तु तत्र व्युष्टिम् इतः शृणु
॥१॥पुरा त्व् अगस्त्यो भगवान् दक्षिणाशापतिः प्रभुः । देवैस् तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति
॥२॥स शनैर् विन्ध्यम् अभ्यागात् सहस्रमुनिभिर् वृतः । तम् आगत्य नगश्रेष्ठं बहुवृक्षसमाकुलम्
॥३॥स्पर्धिनं मेरुभानुभ्यां विन्ध्यं शृङ्गशतैर् वृतम् । अत्युन्नतं नगं धीरो लोपामुद्रापतिर् मुनिः
॥४॥कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः । इदम् आह मुनिश्रेष्ठो देवकार्यार्थसिद्धये
॥५॥अगस्त्य उवाच:
अहं यामि नगश्रेष्ठ मुनिभिस् तत्त्वदर्शिभिः । तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्य् अहम्
॥६॥देहि मार्गं नगपते आतिथ्यं देहि याचते । यावद् आगमनं मे स्यात् स्थातव्यं तावद् एव हि
॥७॥नान्यथा भवितव्यं ते तथेत्य् आह नगोत्तमः । आक्रामन् दक्षिणाम् आशां तैर् वृतो मुनिभिर् मुनिः
॥८॥शनैः स गौतमीम् आगात् सत्त्रयागाय दीक्षितः । यावत् संवत्सरं सत्त्रम् अकरोद् ऋषिभिर् वृतः
॥९॥कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ । अश्वत्थः पिप्पलश् चेति विख्यातौ त्रिदशालये
॥१०॥अश्वत्थोऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् । ताव् उभाव् अन्तरं प्रेप्सू यज्ञविध्वंसनाय तु
॥११॥कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ । अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः
॥१२॥उभौ तौ ब्राह्मणान् नित्यं पीडयेतां तपोधन । आलभन्ते च येऽश्वत्थं तांस् तान् अश्नात्य् असौ तरुः
॥१३॥पिप्पलः सामगो भूत्वा शिष्यान् अश्नाति राक्षसः । तस्माद् अद्यापि विप्रेषु सामगोऽतीव निष्कृपः
॥१४॥क्षीयमाणान् द्विजान् दृष्ट्वा मुनयो राक्षसाव् इमौ । इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरम् आश्रितम्
॥१५॥सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् । गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन्
॥१६॥सौरिर् मुनिगणान् आह पूर्णे तपसि मे द्विजाः । राक्षसौ हन्म्य् अपूर्णे तु तपस्य् अक्षम एव हि
॥१७॥पुनः प्रोचुर् मुनिगणा दास्यामस् ते तपो महत् । इत्य् उक्तो ब्राह्मणैः सौरिः कृतम् इत्य् आह तान् अपि
॥१८॥सौरिर् ब्राह्मणवेषेण प्रायाद् अश्वत्थरूपिणम् । राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणम् अथाकरोत्
॥१९॥प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणम् एव तम् । नित्यवद् राक्षसः पापो भक्षयाम् आस मायया
॥२०॥तस्य कायं समाविश्य चक्षुषान्त्राण्य् अपश्यत । दृष्टः स राक्षसः पापो मन्देन रविसूनुना
॥२१॥भस्मीभूतः क्षणेनैव गिरिर् वज्रहतो यथा । अश्वत्थं भस्मसात् कृत्वा अन्यं ब्राह्मणरूपिणम्
॥२२॥राक्षसं पापनिलयम् एक एव तम् अभ्यगात् । अधीयानो विप्र इव शिष्यरूपो विनीतवत्
॥२३॥पिप्पलः पूर्ववच् चापि भक्षयाम् आस भानुजम् । स भक्षितः पूर्ववच् च कुक्षाव् अन्त्राण्य् अवैक्षत
॥२४॥तेनालोकितमात्रोऽसौ राक्षसो भस्मसाद् अभूत् । उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्व् अथ
॥२५॥मुनयो जातसंहर्षाः सर्व एव तपस्विनः । ततः प्रसन्ना ह्य् अभवन्न् ऋषयोऽगस्त्यपूर्वकाः
॥२६॥वरान् ददुर् यथाकामं सौरये मन्दगामिने । स प्रीतो ब्राह्मणान् आह शनिः सूर्यसुतो बली
॥२७॥सौरिर् उवाच:
मद्द्वारे नियता ये च कुर्वन्त्य् अश्वत्थलम्भनम् । तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च
॥२८॥तीर्थे चाश्वत्थसञ्ज्ञे वै स्नानं कुर्वन्ति ये नराः । तेषां सर्वाणि कार्याणि भवेयुर् अपरो वरः
॥२९॥मन्दवारे तु येऽश्वत्थं प्रातर् उत्थाय मानवाः । आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु
॥३०॥ब्रह्मोवाच:
ततः प्रभृति तत् तीर्थम् अश्वत्थं पिप्पलं विदुः । तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्त्रिकम्
॥३१॥याज्ञिकं चापि तत् तीर्थं सामगं तीर्थम् एव च । इत्याद्यष्टोत्तराण्य् आसन् सहस्राण्य् अथ षोडश । तेषु स्नानं च दानं च सत्त्रयागफलप्रदम्
॥३२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).