अध्यायः ११९
ब्रह्मोवाच:
सोमतीर्थम् इति ख्यातं तद् अप्य् उक्तं महात्मभिः । तत्र स्नानेन दानेन सोमपानफलं लभेत्
॥१॥जगतां मातरः पूर्वम् ओषध्यो जीवसम्मताः । ममापि मातरो देव्यः पूर्वासां पूर्ववत्तराः
॥२॥आसु प्रतिष्ठितो धर्मः स्वाध्यायो यज्ञकर्म च । आभिर् एव धृतं सर्वं त्रैलोक्यं सचराचरम्
॥३॥अशेषरोगोपशमो भवत्य् आभिर् असंशयम् । अन्नम् एताभिर् एव स्याद् अशेषप्राणरक्षणम् । अत्रौषध्यो जगद्वन्द्या माम् ऊचुर् अनहङ्कृताः
॥४॥ओषध्य ऊचुः:
अस्माकं त्वं पतिं देहि राजानं सुरसत्तम
॥५॥ब्रह्मोवाच:
तच् छ्रुत्वा वचनं तासां मयोक्ता ओषधीर् इदम् । पतिं प्राप्स्यथ सर्वाश् च राजानं प्रीतिवर्धनम्
॥६॥राजानम् इति तच् छ्रुत्वा ता माम् ऊचुः पुनर् मुने । गन्तव्यं क्व पुनश् चोक्ता गौतमीं यान्तु मातरः
॥७॥तुष्टायाम् अथ तस्यां वो राजा स्याल् लोकपूजितः । ताश् च गत्वा मुनिश्रेष्ठ तुष्टुवुर् गौतमीं नदीम्
॥८॥ओषध्य ऊचुः:
किं वाकरिष्यन् भववर्तिनो जना । नानाघसङ्घाभिभवाच् च दुःखिताः । न चागमिष्यद् भवती भुवं चेत् । पुण्योदके गौतमि शम्भुकान्ते
॥९॥को वेत्ति भाग्यं नरदेहभाजां । महीगतानां सरिताम् अधीशे । एषां महापातकसङ्घहन्त्री । त्वम् अम्ब गङ्गे सुलभा सदैव
॥१०॥न ते विभूतिं ननु वेत्ति कोऽपि । त्रैलोक्यवन्द्ये जगदम्ब गङ्गे । गौरीसमालिङ्गितविग्रहोऽपि । धत्ते स्मरारिः शिरसापि यत् त्वाम्
॥११॥नमोऽस्तु ते मातर् अभीष्टदायिनि । नमोऽस्तु ते ब्रह्ममयेऽघनाशिनि । नमोऽस्तु ते विष्णुपदाब्जनिःसृते । नमोऽस्तु ते शम्भुजटाविनिःसृते
॥१२॥ब्रह्मोवाच:
इत्य् एवं स्तुवताम् ईशा किं ददामीत्य् अवोचत
॥१३॥ओषध्य ऊचुः:
पतिं देहि जगन्माता राजानम् अतितेजसम्
॥१४॥ब्रह्मोवाच:
तदोवाच नदी गङ्गा ओषधीस् ता इदं वचः
॥१५॥गङ्गोवाच:
अहं चामृतरूपास्मि ओषध्यो मातरोऽमृताः । तादृशं चामृतात्मानं पतिं सोमं ददामि वः
॥१६॥ब्रह्मोवाच:
देवाश् च ऋषयो वाक्यं मेनिरे सोम एव च । ओषध्यश् चापि तद् वाक्यं ततो जग्मुः स्वम् आलयम्
॥१७॥यत्र चापुर् महौषध्यो राजानम् अमृतात्मकम् । सोमं समस्तसन्तापपापसङ्घनिवारकम्
॥१८॥सोमतीर्थं तु तत् ख्यातं सोमपानफलप्रदम् । तत्र स्नानेन दानेन पितरः स्वर्गम् आप्नुयुः
॥१९॥य इदं शृणुयान् नित्यं पठेद् वा भक्तितः स्मरेत् । दीर्घम् आयुर् अवाप्नोति स पुत्री धनवान् भवेत्
॥२०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).