मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १२२

3
ब्रह्मपुराणम् · 122

अध्यायः १२२

ब्रह्मोवाच:

पूर्णतीर्थम् इति ख्यातं गङ्गाया उत्तरे तटे । तत्र स्नात्वा नरोऽज्ञानात् तथापि शुभम् आप्नुयात्

॥१॥

पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना । स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना

॥२॥

पुरा धन्वन्तरिर् नाम कल्पादाव् आयुषः सुतः । इष्ट्वा बहुविधैर् यज्ञैर् अश्वमेधपुरःसरैः

॥३॥

दत्त्वा दानान्य् अनेकानि भुक्त्वा भोगांश् च पुष्कलान् । विज्ञाय भोगवैषम्यं परं वैराग्यम् आश्रितः

॥४॥

गिरिशृङ्गेऽम्बुधेः पारे तथा गङ्गानदीतटे । शिवविष्ण्वोर् गृहे वापि विशेषात् पुण्यसङ्गमे

॥५॥

तप्तं हुतं च जप्तं च सर्वम् अक्षयतां व्रजेत् । धन्वन्तरिर् इति ज्ञात्वा तत्र तेपे तपो महत्

॥६॥

ज्ञानवैराग्यसम्पन्नो भीमेशचरणाश्रयः । तपश् चकार विपुलं गङ्गासागरसङ्गमे

॥७॥

पुरा च निकृतो राज्ञा रणं हित्वा महासुरः । सहस्रम् एकं वर्षाणां समुद्रं प्राविशद् भयात्

॥८॥

धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते । विरागं च गते राज्ञि ततः प्रायाद् अथार्णवात्

॥९॥

तपस्यन्तं तमो नाम बलवान् असुरो मुने । गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर् यतः

॥१०॥

जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः । तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात्

॥११॥

नाशितो बहुशोऽनेन राज्ञा बलवता त्व् अहम् । तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात्

॥१२॥

मायया प्रमदारूपं कृत्वा राजानम् अभ्यगात् । नृत्यगीतवती सुभ्रूर् हसन्ती चारुदर्शना

॥१३॥

तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् । शान्ताम् अनुव्रतां भक्तां कृपया चाब्रवीन् नृपः

॥१४॥

नृप उवाच:

कासि त्वं कस्य हेतोर् वा वर्तसे गहने वने । कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते

॥१५॥

ब्रह्मोवाच:

प्रमदा चापि तद्वाक्यं श्रुत्वा राजानम् अब्रवीत्

॥१६॥

प्रमदोवाच:

त्वयि तिष्ठति को लोके हेतुर् हर्षस्य मे भवेत् । अहम् इन्द्रस्य या लक्ष्मीस् त्वां दृष्ट्वा कामसम्भृतम्

॥१७॥

हर्षाच् चरामि पुरतो राजंस् तव पुनः पुनः । अगण्यपुण्यविरहाद् अहं सर्वस्य दुर्लभा

॥१८॥

ब्रह्मोवाच:

एतद् वचो निशम्याशु तपस् त्यक्त्वा सुदुष्करम् । ताम् एव मनसा ध्यायंस् तन्निष्ठस् तत्परायणः

॥१९॥

तदेकशरणो राजा बभूव स यदा तमः । अन्तर्धानं गतो ब्रह्मन् नाशयित्वा तपो बृहत्

॥२०॥

एतस्मिन्न् अन्तरेऽहं वै वरान् दातुं समभ्यगाम् । तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम्

॥२१॥

तम् आश्वास्याथ विविधैर् हेतुभिर् नृपसत्तमम् । तव शत्रुस् तमो नाम कृत्वा तां तपसश् च्युतिम्

॥२२॥

चरितार्थो गतो राजन् न त्वं शोचितुम् अर्हसि । आनन्दयन्ति प्रमदास् तापयन्ति च मानवम्

॥२३॥

सर्वा एव विशेषेण किम् उ मायामयी तु सा । ततः कृताञ्जली राजा माम् आह विगतभ्रमः

॥२४॥

राजोवाच:

किं करोमि कथं ब्रह्मंस् तपसः पारम् आप्नुयाम्

॥२५॥

ब्रह्मोवाच:

ततस् तस्योत्तरं प्रादां देवदेवं जनार्दनम् । स्तुहि सर्वप्रयत्नेन ततः सिद्धिम् अवाप्स्यसि

॥२६॥

स ह्य् अशेषजगत्स्रष्टा वेदवेद्यः पुरातनः । सर्वार्थसिद्धिदः पुंसां नान्योऽस्ति भुवनत्रये

॥२७॥

स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः । कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः

॥२८॥

धन्वन्तरिर् उवाच:

जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत । जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय

॥२९॥

जय भूतपते नाथ जय पन्नगशायिने । जय सर्वग गोविन्द जय विश्वकृते नमः

॥३०॥

जय विश्वभुजे देव जय विश्वधृते नमः । जयेश सदसत् त्वं वै जय माधव धर्मिणे

॥३१॥

जय कामद काम त्वं जय राम गुणार्णव । जय पुष्टिद पुष्टीश जय कल्याणदायिने

॥३२॥

जय भूतप भूतेश जय मानविधायिने । जय कर्मद कर्म त्वं जय पीताम्बरच्छद

॥३३॥

जय सर्वेश सर्वस् त्वं जय मङ्गलरूपिणे । जय सत्त्वाधिनाथाय जय वेदविदे नमः

॥३४॥

जय जन्मद जन्मिस्थ परमात्मन् नमोऽस्तु ते । जय मुक्तिद मुक्तिस् त्वं जय भुक्तिद केशव

॥३५॥

जय लोकद लोकेश जय पापविनाशन । जय वत्सल भक्तानां जय चक्रधृते नमः

॥३६॥

जय मानद मानस् त्वं जय लोकनमस्कृत । जय धर्मद धर्मस् त्वं जय संसारपारग

॥३७॥

जय अन्नद अन्नं त्वं जय वाचस्पते नमः । जय शक्तिद शक्तिस् त्वं जय जैत्रवरप्रद

॥३८॥

जय यज्ञद यज्ञस् त्वं जय पद्मदलेक्षण । जय दानद दानं त्वं जय कैटभसूदन

॥३९॥

जय कीर्तिद कीर्तिस् त्वं जय मूर्तिद मूर्तिधृक् । जय सौख्यद सौख्यात्मञ् जय पावनपावन

॥४०॥

जय शान्तिद शान्तिस् त्वं जय शङ्करसम्भव । जय पानद पानस् त्वं जय ज्योतिःस्वरूपिणे

॥४१॥

जय वामन वित्तेश जय धूमपताकिने । जय सर्वस्य जगतो दातृमूर्ते नमोऽस्तु ते

॥४२॥

निकायसङ्क्लेशविनाशदक्ष । श्रीपुण्डरीकाक्ष कृपानिधे त्वं । निधेहि पाणिं मम मूर्ध्नि विष्णो

॥४३॥

ब्रह्मोवाच:

एवं स्तुवन्तं भगवाञ् शङ्खचक्रगदाधरः । वरेण च्छन्दयाम् आस सर्वकामसमृद्धिदः

॥४४॥

धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः । वरदानाय देवेशं गोविन्दं संस्थितं पुरः

॥४५॥

तम् आह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् । तच् च दत्तं त्वया विष्णो प्राप्तोऽस्मि कृतकृत्यताम्

॥४६॥

स्तुतः सम्पूजितो विष्णुस् तत्रैवान्तरधीयत । तथैव त्रिदशेशत्वम् अवाप नृपतिः क्रमात्

॥४७॥

प्रागर्जितानेककर्मपरिपाकवशात् ततः । त्रिःकृत्वो नाशम् अगमत् सहस्राक्षः स्वकात् पदात्

॥४८॥

नहुषाद् वृत्रहत्यायाः सिन्धुसेनवधात् ततः । अहल्यायां च गमनाद् येन केन च हेतुना

॥४९॥

स्मारं स्मारं तत् तद् इन्द्रश् चिन्तासन्तापदुर्मनाः । ततः सुरपतिः प्राह वाचस्पतिम् इदं वचः

॥५०॥

इन्द्र उवाच:

हेतुना केन वागीश भ्रष्टराज्यो भवाम्य् अहम् । मध्ये मध्ये पदभ्रंशाद् वरं निःश्रीकता नृणाम्

॥५१॥

गहनां कर्मणां जीवगतिं को वेत्ति तत्त्वतः । रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते

॥५२॥

ब्रह्मोवाच:

बृहस्पतिर् हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् । स तु जानाति यद् भूतं भविष्यच् चापि वर्तनम्

॥५३॥

स तु वक्ष्यति येनेदं जातं तच् च महामते । ताव् आगत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् । कृताञ्जलिपुटो भूत्वा माम् ऊचतुर् इदं वचः

॥५४॥

इन्द्रबृहस्पती ऊचतुः:

भगवन् केन दोषेण शचीभर्ता उदारधीः । राज्यात् प्रभ्रश्यते नाथ संशयं छेत्तुम् अर्हसि

॥५५॥

ब्रह्मोवाच:

तदाहम् अब्रवं ब्रह्मंश् चिरं ध्यात्वा बृहस्पतिम् । खण्डधर्माख्यदोषेण तेन राज्यपदाच् च्युतः

॥५६॥

देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् । यथावद्दक्षिणादानाद् असद्द्रव्यप्रदानतः

॥५७॥

देवभूदेवतावज्ञापातकाच् च विशेषतः । यत् खण्डत्वं स्वधर्मस्य देहिनाम् उपजायते

॥५८॥

तेनातिमानसस् तापः पदहानिश् च दुस्त्यजा । कृतोऽपि धर्मोऽनिष्टाय जायते क्षुब्धचेतसा

॥५९॥

कार्यस्य न भवेत् सिद्ध्यै तस्माद् अव्याकुलाय च । असम्पूर्णे स्वधर्मे हि किम् अनिष्टं न जायते

॥६०॥

ताभ्यां यत् पूर्ववृत्तान्तं तद् अप्य् उक्तं मयानघ । आयुषस् तु सुतः श्रीमान् धन्वन्तरिर् उदारधीः

॥६१॥

तमसा च कृतं विघ्नं विष्णुना तच् च नाशितम् । पूर्वजन्मसु वृत्तान्तम् इत्यादि परिकीर्तितम्

॥६२॥

तच् छ्रुत्वा विस्मितौ चोभौ माम् एव पुनर् ऊचतुः

॥६३॥

इन्द्रबृहस्पती ऊचतुः:

तद्दोषप्रतिबन्धस् तु केन स्यात् सुरसत्तम

॥६४॥

ब्रह्मोवाच:

पुनर् ध्यात्वा ताव् अवदं श्रूयतां दोषकारकम् । कारणं सर्वसिद्धीनां दुःखसंसारतारणम्

॥६५॥

शरणं तप्तचित्तानां निर्वाणं जीवताम् अपि । गत्वा तु गौतमीं देवीं स्तूयेतां हरिशङ्करौ

॥६६॥

नोपायोऽन्योऽस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये । तदैव जग्मतुर् उभौ गौतमीं मुनिसत्तम । स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर् मुदा

॥६७॥

इन्द्र उवाच:

नमो मत्स्याय कूर्माय वराहाय नमो नमः । नरसिंहाय देवाय वामनाय नमो नमः

॥६८॥

नमोऽस्तु हयरूपाय त्रिविक्रम नमोऽस्तु ते । नमोऽस्तु बुद्धरूपाय रामरूपाय कल्किने

॥६९॥

अनन्तायाच्युतायेश जामदग्न्याय ते नमः । वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः

॥७०॥

परमेशाय देवाय नमस् त्रैलोक्यरूपिणे । बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञोऽसि नमोऽस्तु ते

॥७१॥

लक्ष्मीवान् अस्य् अतो लक्ष्मीं बिभ्रद् वक्षसि चानघ । बहुबाहूरुपादस् त्वं बहुकर्णाक्षिशीर्षकः । त्वाम् एव सुखिनं प्राप्य बहवः सुखिनोऽभवन्

॥७२॥

तावन् निःश्रीकता पुंसां मालिन्यं दैन्यम् एव वा । यावन् न यान्ति शरणं हरे त्वां करुणार्णवम्

॥७३॥

बृहस्पतिर् उवाच:

सूक्ष्मं परं जोतिर् अनन्तरूपम् । ओङ्कारमात्रं प्रकृतेः परं यत् । चिद्रूपम् आनन्दमयं समस्तम् । एवं वदन्तीश मुमुक्षवस् त्वाम्

॥७४॥

आराधयन्त्य् अत्र भवन्तम् ईशं । महामखैः पञ्चभिर् अप्य् अकामाः । संसारसिन्धोः परम् आप्तकामा । विशन्ति दिव्यं भुवनं वपुस् ते

॥७५॥

सर्वेषु सत्त्वेषु समत्वबुद्ध्या । संवीक्ष्य षट्सूर्मिषु शान्तभावाः । ज्ञानेन ते कर्मफलानि हित्वा । ध्यानेन ते त्वां प्रविशन्ति शम्भो

॥७६॥

न जातिधर्माणि न वेदशास्त्रं । न ध्यानयोगो न समाधिधर्मः । रुद्रं शिवं शङ्करं शान्तिचित्तं । भक्त्या देवं सोमम् अहं नमस्ये

॥७७॥

मूर्खोऽपि शम्भो तव पादभक्त्या । समाप्नुयान् मुक्तिमयीं तनुं ते । ज्ञानेषु यज्ञेषु तपःसु चैव । ध्यानेषु होमेषु महाफलेषु

॥७८॥

सम्पन्नम् एतत् फलम् उत्तमं यत् । सोमेश्वरे भक्तिर् अहर्निशं यत् । सर्वस्य जीवस्य सदा प्रियस्य । फलस्य दृष्टस्य तथा श्रुतस्य

॥७९॥

स्वर्गस्य मोक्षस्य जगन्निवास । सोपानपङ्क्तिस् तव भक्तिर् एषा । त्वत्पादसम्प्राप्तिफलाप्तये तु । सोपानपङ्क्तिं न वदन्ति धीराः

॥८०॥

तस्माद् दयालो मम भक्तिर् अस्तु । नैवास्त्य् उपायस् तव रूपसेवा । आत्मीयम् आलोक्य महत्त्वम् ईश । पापेषु चास्मासु कुरु प्रसादम्

॥८१॥

स्थूलं च सूक्ष्मं त्वम् अनादि नित्यं । पिता च माता यद् असच् च सच् च । एवं स्तुतो यः श्रुतिभिः पुराणैर् । नमामि सोमेश्वरम् ईशितारम्

॥८२॥

ब्रह्मोवाच:

ततः प्रीतौ हरिहराव् ऊचतुस् त्रिदशेश्वरौ

॥८३॥

हरिहराव् ऊचतुः:

व्रियतां यन् मनोभीष्टं यद् वरं चातिदुर्लभम्

॥८४॥

ब्रह्मोवाच:

इन्द्रः प्राह सुरेशानं मद्राज्यं तु पुनः पुनः । जायते भ्रश्यते चैव तत् पापम् उपशाम्यताम्

॥८५॥

यथा स्थिरोऽहं राज्ये स्यां सर्वं स्यान् निश्चलं मम । सुप्रीतौ यदि देवेशौ सर्वं स्यान् निश्चलं सदा

॥८६॥

तथेति हरिवाक्यं ताव् अभिनन्द्येदम् ऊचतुः । परं प्रसादम् आपन्नौ ताव् आलोक्य स्मिताननौ

॥८७॥

निरपायनिराधारनिर्विकारस्वरूपिणौ । शरण्यौ सर्वलोकानां भुक्तिमुक्तिप्रदाव् उभौ

॥८८॥

हरिहराव् ऊचतुः:

त्रिदैवत्यं महातीर्थं गौतमी वाञ्छितप्रदा । तस्याम् अनेन मन्त्रेण कुरुतां स्नानम् आदरात्

॥८९॥

अभिषेकं महेन्द्रस्य मङ्गलाय बृहस्पतिः । करोतु संस्मरन्न् आवां सम्पदां स्थैर्यसिद्धये

॥९०॥

इह जन्मनि पूर्वस्मिन् यत् किञ्चित् सुकृतं कृतम् । तत् सर्वं पूर्णताम् एतु गोदावरि नमोऽस्तु ते

॥९१॥

एवं स्मृत्वा तु यः कश्चिद् गौतम्यां स्नानम् आचरेत् । आवाभ्यां तु प्रसादेन धर्मः सम्पूर्णताम् इयात् । पूर्वजन्मकृताद् दोषात् स मुक्तः पुण्यवान् भवेत्

॥९२॥

ब्रह्मोवाच:

तथेति चक्रतुः प्रीतौ सुरेन्द्रधिषणौ ततः । महाभिषेकम् इन्द्रस्य चकार द्युसदां गुरुः

॥९३॥

तेनाभूद् या नदी पुण्या मङ्गलेत्य् उदिता तु सा । तया च सङ्गमः पुण्यो गङ्गायाः शुभदस् त्व् असौ

॥९४॥

इन्द्रेण संस्तुतो विष्णुः प्रत्यक्षोऽभूज् जगन्मयः । त्रिलोकसम्मितां शक्रो भूमिं लेभे जगत्पतेः

॥९५॥

तन्नाम्ना चापि विख्यातो गोविन्द इति तत्र च । त्रिलोकसम्मिता लब्धा तेन गौर् वज्रधारिणा

॥९६॥

दत्ता च हरिणा तत्र गोविन्दस् तद् अभूद् धरिः । त्रैलोक्यराज्यं यत् प्राप्तं हरिणा च हरेर् मुने

॥९७॥

निश्चलं येन सञ्जातं देवदेवान् महेश्वरात् । बृहस्पतिर् देवगुरुर् यत्रास्तौषीन् महेश्वरम्

॥९८॥

राज्यस्य स्थिरभावाय देवेन्द्रस्य महात्मनः । सिद्धेश्वरस् तत्र देवो लिङ्गं तु त्रिदशार्चितम्

॥९९॥

ततः प्रभृति तत् तीर्थं गोविन्दम् इति विश्रुतम् । मङ्गलासङ्गमं चैव पूर्णतीर्थं ततः परम्

॥१००॥

इन्द्रतीर्थम् इति ख्यातं बार्हस्पत्यं च विश्रुतम् । यत्र सिद्धेश्वरो देवो विष्णुर् गोविन्द एव च

॥१०१॥

तेषु स्नानं च दानं च यत् किञ्चित् सुकृतार्जनम् । सर्वं तद् अक्षयं विद्यात् पितॄणाम् अतिवल्लभम्

॥१०२॥

शृणोति यश् चापि पठेद् यश् च स्मरति नित्यशः । तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम्

॥१०३॥

सप्तत्रिंशत् सहस्राणि तीर्थानां तीरयोर् द्वयोः । उभयोर् मुनिशार्दूल सर्वसिद्धिप्रदायिनाम्

॥१०४॥

न पूर्णतीर्थसदृशं तीर्थम् अस्ति महाफलम् । निष्फलं तस्य जन्मादि यो न सेवेत तन् नरः

॥१०५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).