अध्यायः १२६
ब्रह्मोवाच:
तपस्तीर्थम् इति ख्यातं तपोवृद्धिकरं महत् । सर्वकामप्रदं पुण्यं पितॄणां प्रीतिवर्धनम्
॥१॥तस्मिंस् तीर्थे तु यद् वृत्तं शृणु पापप्रणाशनम् । अपाम् अग्नेश् च संवादम् ऋषीणां च परस्परम्
॥२॥अपो ज्येष्ठतमाः केचिन् मेनिरेऽग्निं तथापरे । एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः
॥३॥विनाग्निं जीवनं क्व स्याज् जीवभूतो यतोऽनलः । आत्मभूतो हव्यभूतश् चाग्निना जायतेऽखिलम्
॥४॥अग्निना ध्रियते लोको ह्य् अग्निर् ज्योतिर्मयं जगत् । तस्माद् अग्नेः परं नास्ति पावनं दैवतं महत्
॥५॥अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि । विनाग्निना किञ्चिद् अस्ति यस्य धाम जगत्त्रयम्
॥६॥तस्माद् अग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् । योषित्क्षेत्रेऽर्पितं बीजं पुरुषेण यथा तथा
॥७॥तस्य देहादिका शक्तिः कृशानोर् एव नान्यथा । देवानां हि मुखं वह्निस् तस्मान् नातः परं विदुः
॥८॥अपरे तु ह्य् अपां ज्यैष्ठ्यं मेनिरे वेदवादिनः । अद्भिः सम्पत्स्यते ह्य् अन्नं शुचिर् अद्भिः प्रजायते
॥९॥अद्भिर् एव धृतं सर्वम् आपो वै मातरः स्मृताः । त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः
॥१०॥उत्पन्नम् अमृतं ह्य् अद्भ्यस् ताभ्यश् चौषधिसम्भवः । अग्निर् ज्येष्ठ इति प्राहुर् आपो ज्येष्ठतमाः परे
॥११॥एवं मीमांसमानास् ते ऋषयो वेदवादिनः । विरुद्धवादिनो मां च समभ्येत्येदम् अब्रुवन्
॥१२॥ऋषय ऊचुः:
अग्नेर् अपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान् प्रभुः
॥१३॥ब्रह्मोवाच:
अहम् अप्य् अब्रवं प्राप्तान् ऋषीन् सर्वान् यतव्रतान् । उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत्
॥१४॥उभाभ्यां जायते हव्यं कव्यं चामृतम् एव च । उभाभ्यां जीवनं लोके शरीरस्य च धारणम्
॥१५॥नानयोश् च विशेषोऽस्ति ततो ज्यैष्ठ्यं समं मतम् । ततो मद्वचनाज् ज्यैष्ठ्यम् उभयोर् नैव कस्यचित्
॥१६॥ज्यैष्ठ्यम् अन्यतरस्येति मेनिरे ऋषिसत्तमाः । न तृप्ता मम वाक्येन जग्मुर् वायुं तपस्विनः
॥१७॥मुनय ऊचुः:
कस्य ज्यैष्ठ्यं भवान् प्राणो वायो सत्यं त्वयि स्थितम्
॥१८॥ब्रह्मोवाच:
वायुर् आहानलो ज्येष्ठः सर्वम् अग्नौ प्रतिष्ठितम् । नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुस् तेऽपि वसुन्धराम्
॥१९॥मुनय ऊचुः:
सत्यं भूमे वद ज्यैष्ठ्यम् आधारासि चराचरे
॥२०॥ब्रह्मोवाच:
भूमिर् अप्य् आह विनयाद् आगतांस् तान् ऋषीन् इदम्
॥२१॥भूमिर् उवाच:
ममाप्य् आधारभूताः स्युर् आपो देव्यः सनातनाः । अद्भ्यस् तु जायते सर्वं ज्यैष्ठ्यम् अप्सु प्रतिष्ठितम्
॥२२॥ब्रह्मोवाच:
नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुः क्षीरोदशायिनम् । तुष्टुवुर् विविधैः स्तोत्रैः शङ्खचक्रगदाधरम्
॥२३॥ऋषय ऊचुः:
यो वेद सर्वं भुवनं भविष्यद् । यज् जायमानं च गुहानिविष्टम् । लोकत्रयं चित्रविचित्ररूपम् । अन्ते समस्तं च यम् आविवेश
॥२४॥यद् अक्षरं शाश्वतम् अप्रमेयं । यं वेदवेद्यम् ऋषयो वदन्ति । यम् आश्रिताः स्वेप्सितम् आप्नुवन्ति । तद् वस्तु सत्यं शरणं व्रजामः
॥२५॥भूतं महाभूतजगत्प्रधानं । न विन्दते योगिनो विष्णुरूपम् । तद् वक्तुम् एते ऋषयोऽत्र याताः । सत्यं वदस्वेह जगन्निवास
॥२६॥त्वम् अन्तरात्माखिलदेहभाजां । त्वम् एव सर्वं त्वयि सर्वम् ईश । तथापि जानन्ति न केअपि कुत्रापि । अहो भवन्तं प्रकृतिप्रभावात् । अन्तर् बहिः सर्वत एव सन्तं । विश्वात्मना सम्परिवर्तमानम्
॥२७॥ब्रह्मोवाच:
ततः प्राह जगद्धात्री दैवी वाग् अशरीरिणी
॥२८॥दैवी वाग् उवाच:
उभाव् आराध्य तपसा भक्त्या च नियमेन च । यस्य स्यात् प्रथमं सिद्धिस् तद् भूतं ज्येष्ठम् उच्यते
॥२९॥ब्रह्मोवाच:
तथेत्य् तथा ययुः सर्वे ऋषयो लोकपूजिताः । श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यम् आश्रिताः
॥३०॥सर्वलोकैकजननीं भुवनत्रयपावनीम् । गौतमीम् अगमन् सर्वे तपस् तप्तुं यतव्रताः
॥३१॥अब्दैवतं तथाग्निं च पूजनायोद्यतास् तदा । अग्नेश् च पूजका ये च अपां वै पूजने स्थिताः । तत्र वाग् अब्रवीद् दैवी वेदमाता सरस्वती
॥३२॥दैवी वाग् उवाच:
अग्नेर् आपस् तथा योनिर् अद्भिः शौचम् अवाप्यते । अग्नेश् च पूजका ये च विनाद्भिः पूजनं कथम्
॥३३॥अप्सु जातासु सर्वत्र कर्मण्य् अधिकृतो भवेत् । तावत् कर्मण्य् अनर्होऽयम् अशुचिर् मलिनो नरः
॥३४॥न मग्नः श्रद्धया यावद् अप्सु शीतासु वेदवित् । तस्माद् आपो वरिष्ठाः स्युर् मातृभूता यतः स्मृताः । तस्माज् ज्यैष्ठ्यम् अपाम् एव जनन्योऽग्नेर् विशेषतः
॥३५॥ब्रह्मोवाच:
एतद् वचः शुश्रुवुस् ते ऋषयो वेदवादिनः । निश्चयं च ततश् चक्रुर् भवेज् ज्यैष्ठ्यम् अपाम् इति
॥३६॥यत्र तीर्थे वृत्तम् इदम् ऋषिसत्त्रे च नारद । तपस्तीर्थं तु तत् प्रोक्तं सत्त्रतीर्थं तद् उच्यते
॥३७॥अग्नितीर्थं च तत् प्रोक्तं तथा सारस्वतं विदुः । तेषु स्नानं च दानं च सर्वकामप्रदं शुभम्
॥३८॥चतुर्दश शतान्य् अत्र तीर्थानां पुण्यदायिनाम् । तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम्
॥३९॥कृतं सन्देहहरणम् ऋषीणां यत्र भाषया । सरस्वत्य् अभवत् तत्र गङ्गया सङ्गता नदी । माहात्म्यं तस्य को वक्तुं सङ्गमस्य क्षमो नरः
॥४०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).