अध्यायः १२७
ब्रह्मोवाच:
देवतीर्थम् इति ख्यातं गङ्गाया उत्तरे तटे । तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम्
॥१॥आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः । तस्य भार्या जया नाम साक्षाल् लक्ष्मीर् इवापरा
॥२॥तस्य पुत्रो भरो नाम मतिमान् पितृवत्सलः । धनुर्वेदे च वेदे च निष्णातो दक्ष एव च
॥३॥तस्य भार्या रूपवती सुप्रभेत्य् अभिविश्रुता । आर्ष्टिषेणस् ततो राजा पुत्रे राज्यं निवेश्य सः
॥४॥पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः । सरस्वत्यास् ततस् तीरे हयमेधाय यत्नवान्
॥५॥ऋत्विग्भिर् ऋषिमुख्यैश् च वेदशास्त्रपरायणैः । दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः
॥६॥मिथुर् दानवराट् शूरः पापबुद्धिः प्रतापवान् । मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम्
॥७॥आदाय वेगात् स प्रागाद् रसातलतलं मुने । नीते तस्मिन् नृपवरे यज्ञे नष्टे ततोऽमराः
॥८॥ऋत्विजश् च ययुः सर्वे स्वं स्वं स्थानं मखात् ततः । पुरोहितसुतो राज्ञो देवापिर् इति विश्रुतः
॥९॥बालस् तां मातरं दृष्ट्वा आत्मनः पितरं न च । दृष्ट्वा सविस्मयो भूत्वा दुःखितोऽतीव चाभवत्
॥१०॥स मातरं तु पप्रच्छ पिता मे क्व गतोऽम्बिके । पितृहीनो न जीवेयं मातः सत्यं वदस्व मे
॥११॥धिग् धिक् पितृविहीनानां जीवितं पापकर्मणाम् । न वक्षि यदि मे मातर् जलम् अग्निम् अथाविशे
॥१२॥पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः । दानवेन तलं नीतो राज्ञा सह पिता तव
॥१३॥देवापिर् उवाच:
क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि । केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे
॥१४॥मातोवाच:
दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् । राजानं तं मिथुर् दैत्यो नीतवान् स रसातलम् । पश्यत्सु देवसङ्घेषु वह्निब्राह्मणसन्निधौ
॥१५॥ब्रह्मोवाच:
तन् मातृवचनं श्रुत्वा देवापिः कृत्यम् अस्मरत् । देवान् पश्येऽथवाग्निं वा ऋत्विजो वासुरांस् तथा
॥१६॥एतेष्व् एव पितान्वेष्यो नान्यत्रेति मतिर् मम । इति निश्चित्य देवापिर् भरं प्राह नृपात्मजम्
॥१७॥देवापिर् उवाच:
तपसा ब्रह्मचर्येण व्रतेन नियमेन च । आनेतव्या मया सर्वे नीता ये च रसातलम्
॥१८॥जाते पराभवे घोरे यो न कुर्यात् प्रतिक्रियाम् । नराधमेन किं तेन जीवता वा मृतेन वा
॥१९॥त्वं प्रशाधि महीं कृत्स्नाम् आर्ष्टिषेणः पिता यथा । माता मम त्वया पाल्या राजन् यावन् ममागतिः । भवेच् च कृतकार्यस्य अनुजानीहि मां भर
॥२०॥ब्रह्मोवाच:
भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः
॥२१॥भर उवाच:
सिद्धिं कुरु सुखं याहि मा चिन्ताम् अल्पिकां भज
॥२२॥ब्रह्मोवाच:
ततो देवापिर् अमरराजाङ्घ्रिध्यानतत्परः । ऋत्विजोऽन्वेष्य यत्नेन नत्वा तान् ऋत्विजः पृथक् । कृताञ्जलिपुटो बालो देवापिर् वाक्यम् अब्रवीत्
॥२३॥देवापिर् उवाच:
भवद्भिश् च मखो रक्ष्यो यजमानश् च दीक्षितः । पुरोधाश् च तथा रक्ष्यः पत्नी या दीक्षितस्य तु
॥२४॥भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट् । राजादयस् तेन नीतास् तन् न युक्ततमं भवेत्
॥२५॥अथाप्य् एतद् अहं मन्ये भवन्तस् तान् अरोगिणः । दातुम् अर्हन्ति तान् सर्वान् अन्यथा शापम् अर्हथ
॥२६॥ऋत्विज ऊचुः:
मखेऽग्निः प्रथमं पूज्यो ह्य् अग्निर् एवात्र दैवतम् । तस्माद् वयं न जानीमो ह्य् अग्नीनां परिचारकाः
॥२७॥स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट्
॥२८॥ब्रह्मोवाच:
ऋत्विजः पृष्ठतः कृत्वा देवापिर् जातवेदसम् । पूजयित्वा यथान्यायम् अग्नये तन् न्यवेदयत्
॥२९॥अग्निर् उवाच:
यथर्त्विजस् तथा चाहं देवानां परिचारकः । हव्यं वहामि देवानां भोक्तारो रक्षकाश् च ते
॥३०॥देवापिर् उवाच:
देवान् आहूय यत्नेन हविर्भागान् पृथक् पृथक् । दास्येऽहम् एष दोषो मे तस्माद् याहि सुरान् प्रति
॥३१॥ब्रह्मोवाच:
देवापिः स सुरान् प्राप्य नत्वा तेभ्यः पृथक् पृथक् । ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत्
॥३२॥देवा ऊचुः:
आहूता वैदिकैर् मन्त्रैर् ऋत्विग्भिश् च यथाक्रमम् । भोक्ष्यामहे हविर्भागान् न स्वतन्त्रा द्विजोत्तम
॥३३॥तस्माद् वेदानुगा नित्यं वयं वेदेन चोदिताः । परतन्त्रास् ततो विप्र वेदेभ्यस् तन् निवेदय
॥३४॥ब्रह्मोवाच:
स देवापिः शुचिर् भूत्वा वेदान् आहूय यत्नतः । ध्यानेन तपसा युक्तो वेदाश् चापि पुरोऽभवन्
॥३५॥वेदान् उवाच देवापिर् नमस्य तु पुनः पुनः । ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत्
॥३६॥वेदा ऊचुः:
परतन्त्रा वयं तात ईश्वरस्य वशानुगाः । अशेषजगदाधारो निराधारो निरञ्जनः
॥३७॥सर्वशक्त्यैकसदनं निधानं सर्वसम्पदाम् । स तु कर्ता महादेवः संहर्ता स महेश्वरः
॥३८॥वयं शब्दमया ब्रह्मन् वदामो विद्म एव च । अस्माकम् एतत् कृत्यं स्याद् वदामो यत् तु पृच्छसि
॥३९॥केन नीतास् तस्य नाम तत्पुरं तद्बलं तथा । भक्षिताः किं तु नो नष्टा एतज् जानीमहे वयम्
॥४०॥यथा च तव सामर्थ्यं यम् आराध्य च यत्र च । स्याद् इत्य् एतच् च जानीमो यथा प्राप्स्यसि तान् पुरः
॥४१॥ब्रह्मोवाच:
एतच् छ्रुत्वावदद् वेदान् विचार्य सुचिरं हृदि
॥४२॥देवापिर् उवाच:
वेदा वदन्त्व् एतद् एव सर्वम् एव यथार्थतः । सर्वान् प्राप्स्ये तलं नीतान् अलं तेभ्यो नमोऽस्तु वः
॥४३॥वेदा ऊचुः:
गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम् । सुप्रसन्नस् तवाभीष्टं दास्यत्य् एव कृपाकरः
॥४४॥भवेद् देवः शिवः प्रीतः स्तुतः सत्यं महामते । आर्ष्टिषेणश् च नृपतिस् तस्य जाया जया सती
॥४५॥पिता तवाप्य् उपमन्युस् तले तिष्ठन्त्य् अरोगिणः । वरदानान् महेशस्य मिथुं हत्वा च राक्षसम् । यशः प्राप्स्यसि धर्मं च एतच् छक्यं न चेतरत्
॥४६॥ब्रह्मोवाच:
तद् वेदवचनाद् बालो देवापिर् गौतमीं गतः । स्नात्वा कृतक्षणो विप्रस् तुष्टाव च महेश्वरम्
॥४७॥देवापिर् उवाच:
बालोऽहं देवदेवेश गुरूणां त्वं गुरुर् मम । न मे शक्तिस् त्वत्स्तवने तुभ्यं शम्भो नमोऽस्तु ते
॥४८॥न त्वां जानन्ति निगमा न देवा मुनयो न च । न ब्रह्मा नापि वैकुण्ठो योऽसि सोऽसि नमोऽस्तु ते
॥४९॥येऽनाथा ये च कृपणा ये दरिद्राश् च रोगिणः । पापात्मानो ये च लोके तांस् त्वं पासि महेश्वर
॥५०॥तपसा नियमैर् मन्त्रैः पूजितास् त्रिदिवौकसः । त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते
॥५१॥याचितारश् च दातारस् तेभ्यो यद् यन् मनीषितम् । भवतीति न चित्रं स्यात् त्वं विपर्ययकारकः
॥५२॥येऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे । शिवेति वचनान् नाथ तान् पासि त्वं जगद्गुरो
॥५३॥ब्रह्मोवाच:
एवं तु स्तुवतस् तस्य पुरः प्राह त्रिलोचनः
॥५४॥शिव उवाच:
वरं ब्रूह्य् अथ देवापे अलं दैन्येन बालक
॥५५॥देवापिर् उवाच:
राजानं राजपत्नीं च पितरं च गुरुं मम । प्राप्तुम् इच्छे जगन्नाथ निधनं च रिपोर् मम
॥५६॥ब्रह्मोवाच:
देवापिवचनं श्रुत्वा तथेत्य् आहाखिलेश्वरः । देवापेः सर्वम् अभवद् आज्ञया शङ्करस्य तत्
॥५७॥पुनर् अप्य् आह तं शम्भुर् देवापिकरुणाकरः । नन्दिनं प्रेषयाम् आस शम्भुः शूलेन नारद
॥५८॥रसातलं मिथुं नन्दी हत्वा चासुरपुङ्गवान् । तत्पित्रादीन् समानीय तस्मै तान् स न्यवेदयत्
॥५९॥हयमेधश् च तत्रासीद् आर्ष्टिषेणस्य धीमतः । अग्निश् च ऋत्विजो देवा वेदाश् च ऋषयोऽब्रुवन्
॥६०॥अग्न्यादय ऊचुः:
यत्र साक्षाद् अभूच् छम्भुर् देवापे भक्तवत्सलः । देवदेवो जगन्नाथो देवतीर्थम् अभूच् च तत्
॥६१॥सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् । पुण्यदं तीर्थम् एतत् स्यात् तव कीर्तिश् च शाश्वती
॥६२॥ब्रह्मोवाच:
अश्वमेधे निवृत्ते तु सुरास् तेभ्यो वरान् ददुः । स्नात्वा कृतार्था गङ्गायां ततस् ते दिवम् आक्रमन्
॥६३॥ततः प्रभृति तत्रासंस् तीर्थानि दश पञ्च च । सहस्राणि शतान्य् अष्टाव् उभयोर् अपि तीरयोः । तेषु स्नानं च दानं च ह्य् अतीव फलदं विदुः
॥६४॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).