अध्यायः १३३
ब्रह्मोवाच:
शुक्लतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् । यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात्
॥१॥भरद्वाज इति ख्यातो मुनिः परमधार्मिकः । तस्य पैठीनसी नाम भार्या सुकलभूषणा
॥२॥गौतमीतीरम् अध्यास्ते पतिव्रतपरायणा । अग्नीषोमीयम् ऐन्द्राग्नं पुरोडाशम् अकल्पयत्
॥३॥पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत । पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः
॥४॥यज्ञं मे ह्य् अत्र को हंसि कोपात् त्वम् इति तं मुनिः । प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः । तद् ऋषेर् वचनं श्रुत्वा राक्षसः प्रत्युवाच तम्
॥५॥राक्षस उवाच:
हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् । सन्ध्यासुतोऽहं ज्येष्ठश् च सुतः प्राचीनबर्हिषः
॥६॥ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम् । ममानुजः कलिश् चापि बलवान् अतिभीषणः
॥७॥अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः । अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः
॥८॥भरद्वाज उवाच:
रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः । जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम्
॥९॥यज्ञघ्न उवाच:
भरद्वाज निबोधेदं वाक्यं मम समासतः । ब्रह्मणाहं पुरा शप्तो देवदानवसन्निधौ
॥१०॥ततः प्रसादितो देवो मया लोकपितामहः । अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः
॥११॥तदा विशापो भविता हव्यघ्न त्वं न चान्यथा । एवं करिष्यसि यदा ततः सर्वं भविष्यति
॥१२॥ब्रह्मोवाच:
भरद्वाजः पुनः प्राह सखा मेऽसि महामते । मखसंरक्षणं येन स्यान् मे वद करोमि तत्
॥१३॥सम्भूय देवा दैतेया ममन्थुः क्षीरसागरम् । अलभन्तामृतं कष्टात् तद् अस्मत्सुलभं कथम्
॥१४॥प्रीत्या यदि प्रसन्नोऽसि सुलभं यद् वदस्व तत् । तद् ऋषेर् वचनं श्रुत्वा रक्षः प्राह तदा मुदा
॥१५॥रक्ष उवाच:
अमृतं गौतमीवारि अमृतं स्वर्णम् उच्यते । अमृतं गोभवं चाज्यम् अमृतं सोम एव च
॥१६॥एतैर् माम् अभिषिञ्चस्व अथवैतैस् तथा त्रिभिः । गङ्गाया वारिणाज्येन हिरण्येन तथैव च । सर्वेभ्योऽप्य् अधिकं दिव्यम् अमृतं गौतमीजलम्
॥१७॥ब्रह्मोवाच:
एतद् आकर्ण्य स ऋषिः परं सन्तोषम् आगतः । पाणाव् आदाय गङ्गायाः सलिलामृतम् आदरात्
॥१८॥तेनाकरोद् ऋषी रक्षो ह्य् अभिषिक्तं तदा मखे । पुनश् च यूपे च पशाव् ऋत्विक्षु मखमण्डले
॥१९॥सर्वम् एवाभवच् छुक्लम् अभिषेकान् महात्मनः । तद् रक्षोऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः
॥२०॥यः पुरा कृष्णरूपोऽभूत् स तु शुक्लोऽभवत् क्षणात् । यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान्
॥२१॥ऋत्विजोऽपि विसृज्याथ यूपं गङ्गोदकेऽक्षिपत् । गङ्गामध्ये तद् धि यूपम् अद्याप्य् आस्ते महामते
॥२२॥अभिषिक्तं चामृतेन अभिज्ञानं तु तन् महत् । तत्र तीर्थे पुना रक्षो भरद्वाजम् उवाच ह
॥२३॥रक्ष उवाच:
अहं यामि भरद्वाज कृतः शुक्लस् त्वया पुनः । तस्मात् तवात्र तीर्थे ये स्नानदानादिपूजनम्
॥२४॥कुर्युस् तेषाम् अभीष्टानि भवेयुर् यत् फलं मखे । स्मरणाद् अपि पापानि नाशं यान्तु सदा मुने
॥२५॥ततः प्रभृति तत् तीर्थं शुक्लतीर्थम् इति स्मृतम् । गौतम्यां दण्डकारण्ये स्वर्गद्वारम् अपावृतम्
॥२६॥उभयोस् तीरयोः सप्त सहस्राण्य् अपराणि च । तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम्
॥२७॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).