मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १३५

3
ब्रह्मपुराणम् · 135

अध्यायः १३५

ब्रह्मोवाच:

वाणीसङ्गमम् आख्यातं यत्र वागीश्वरो हरः । तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम्

॥१॥

तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् । ब्रह्मविष्ण्वोश् च संवादे महत्त्वे च परस्परम्

॥२॥

तयोर् मध्ये महादेवो ज्योतिर्मूर्तिर् अभूत् किल । तत्रैव वाग् उवाचेदं दैवी पुत्र तयोः शुभा

॥३॥

अहम् अस्मि महांस् तत्र अहम् अस्मीति वै मिथः । दैवी वाक् ताव् उभौ प्राह यस् त्व् अस्यान्तं तु पश्यति

॥४॥

स तु ज्येष्ठो भवेत् तस्मान् मा वादं कर्तुम् अर्हथः । तद्वाक्याद् विष्णुर् अगमद् अधोऽहं चोर्ध्वम् एव च

॥५॥

ततो विष्णुः शीघ्रम् एत्य ज्योतिःपार्श्व उपाविशत् । अप्राप्यान्तम् अहं प्रायां दूराद् दूरतरं मुने

॥६॥

ततः श्रान्तो निवृत्तोऽहं द्रष्टुम् ईशं तु तं प्रभुम् । तदैवं मम धीर् आसीद् दृष्टश् चान्तो मया भृशम्

॥७॥

अस्य देवस्य तद् विष्णोर् मम ज्यैष्ठ्यं स्फुटं भवेत् । पुनश् चापि मम त्व् एवं मतिर् आसीन् महामते

॥८॥

सत्यैर् वक्त्रैः कथं वक्ष्ये पीडितोऽप्य् अनृतं वचः । नानाविधेषु पापेषु नानृतात् पातकं परम्

॥९॥

सत्यैर् वक्त्रैर् असत्यां वा वाचं वक्ष्ये कथं त्व् इति । ततोऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम्

॥१०॥

कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा । अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम्

॥११॥

अस्य चान्तो मया दृष्टस् तेन ज्यैष्ठ्यं जनार्दन । ममेति वदतः पार्श्वे उभौ तौ हरिशङ्करौ

॥१२॥

एकरूपत्वम् आपन्नौ सूर्याचन्द्रमसाव् इव । तौ दृष्ट्वा विस्मितो भीतश् चास्तवं ताव् उभाव् अपि । ततः क्रुद्धौ जगन्नाथौ वाचं ताम् इदम् ऊचतुः

॥१३॥

हरिहराव् ऊचतुः:

दुष्टे त्वं निम्नगा भूया नानृताद् अस्ति पातकम्

॥१४॥

ब्रह्मोवाच:

ततः सा विह्वला भूत्वा नदीभावम् उपागता । तद् दृष्ट्वा विस्मितो भीतस् ताम् अब्रवम् अहं तदा

॥१५॥

यस्माद् असत्यम् उक्तासि ब्रह्मवाचि स्थिता सती । तस्माद् अदृश्या त्वं भूयाः पापरूपास्य् असंशयम्

॥१६॥

एतच् छापं विदित्वा तु तौ देवौ प्रणता तदा । विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः

॥१७॥

ततस् तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ । प्रीत्या हरिहराव् एवं वाचं वाचम् अथोचतुः

॥१८॥

हरिहराव् ऊचतुः:

गङ्गया सङ्गता भद्रे यदा त्वं लोकपावनी । तदा पुनर् वपुस् ते स्यात् पवित्रं हि सुशोभने

॥१९॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा सापि देवी गङ्गया सङ्गताभवत् । भागीरथी गौतमी च ततश् चापि स्वकं वपुः

॥२०॥

देवी सा व्यगमद् ब्रह्मन् देवानाम् अपि दुर्लभम् । गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा

॥२१॥

भागीरथ्यां सैव देवी सरस्वत्य् अभिधीयते । उभयत्रापि विख्यातः सङ्गमो लोकपूजितः

॥२२॥

सरस्वतीसङ्गमश् च वाणीसङ्गम एव च । गौतम्या सङ्गता देवी वाणी वाचा सरस्वती

॥२३॥

सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् । देवेश्वरं पूजयित्वा विशापम् अगमद् यतः

॥२४॥

ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत् पुनः । तस्मात् तत्र शुचिर् भूत्वा स्नात्वा तत्र च सङ्गमे

॥२५॥

वागीश्वरं ततो दृष्ट्वा तावता मुक्तिम् आप्नुयात् । दानहोमादिकं किञ्चिद् उपवासादिकां क्रियाम्

॥२६॥

यः कुर्यात् सङ्गमे पुण्ये संसारे न भवेत् पुनः । एकोनविंशतिशतं तीर्थानां तीरयोर् द्वयोः । नानाजन्मार्जिताशेषपापक्षयविधायिनाम्

॥२७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).