मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १३७

3
ब्रह्मपुराणम् · 137

अध्यायः १३७

ब्रह्मोवाच:

लक्ष्मीतीर्थम् इति ख्यातं साक्षाल् लक्ष्मीविवर्धनम् । अलक्ष्मीनाशनं पुण्यम् आख्यानं शृणु नारद

॥१॥

संवादश् च पुरा त्व् आसील् लक्ष्म्याः पुत्र दरिद्रया । परस्परविरोधिन्याव् उभे विश्वं समीयतुः

॥२॥

ताभ्याम् अव्यापृतं वस्तु तन् नास्ति भुवनत्रये । मम ज्यैष्ठ्यं मम ज्यैष्ठ्यम् इत्य् ऊचतुर् उभे मिथः । अहं पूर्वं समुद्भूता इत्य् आह श्रियम् ओजसा

॥३॥

श्रीलक्ष्मीर् उवाच:

कुलं शीलं जीवितं वा देहिनाम् अहम् एव तु । मया विना देहभाजो जीवन्तोऽपि मृता इव

॥४॥

ब्रह्मोवाच:

दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्य् अधिका ह्य् अहम् । मुक्तिर् मदाश्रिता नित्यं दरिद्रैवं वचोऽब्रवीत्

॥५॥

कामः क्रोधश् च लोभश् च मदो मात्सर्यम् एव च । यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन

॥६॥

न भयोद्भूतिर् उन्माद ईर्ष्या उद्धतवृत्तिता । यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन

॥७॥

दरिद्राया वचः श्रुत्वा लक्ष्मीस् तां प्रत्यभाषत

॥८॥

लक्ष्मीर् उवाच:

अलङ्कृतो मया जन्तुः सर्वो भवति पूजितः । निर्धनः शिवतुल्योऽपि सर्वैर् अप्य् अभिभूयते

॥९॥

देहीति वचनद्वारा देहस्थाः पञ्च देवताः । सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः

॥१०॥

तावद् गुणा गुरुत्वं च यावन् नार्थयते परम् । अर्थी चेत् पुरुषो जातः क्व गुणाः क्व च गौरवम्

॥११॥

तावत् सर्वोत्तमो जन्तुस् तावत् सर्वगुणालयः । नमस्यः सर्वलोकानां यावन् नार्थयते परम्

॥१२॥

कष्टम् एतन् महापापं निर्धनत्वं शरीरिणाम् । न मानयति नो वक्ति न स्पृशत्य् अधनं जनः

॥१३॥

अहम् एव ततः श्रेष्ठा दरिद्रे शृणु मे वचः

॥१४॥

ब्रह्मोवाच:

तल् लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यम् अब्रवीत्

॥१५॥

दरिद्रोवाच:

वक्तुं न लक्ष्मीर् ज्येष्ठाहम् इति वै लज्जसे मुहुः । पापेषु रमसे नित्यं विहाय पुरुषोत्तमम्

॥१६॥

विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् । सुखं न तादृक् त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः

॥१७॥

न तथा जायते पुंसां सुरया दारुणो मदः । त्वत्सन्निधानमात्रेण यथा वै विदुषाम् अपि

॥१८॥

सदैव रमसे लक्ष्मीः प्रायस् त्वं पापकारिषु । अहं वसामि योग्येषु धर्मशीलेषु सर्वदा

॥१९॥

शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च । सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च

॥२०॥

सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु । निवसामि सदा लक्ष्मीस् तस्माज् ज्यैष्ठ्यं मयि स्थितम्

॥२१॥

ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु । निर्भयेषु वसिष्यामि लक्ष्मीस् त्वं शृणु ते स्थितिम्

॥२२॥

राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च । पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च

॥२३॥

अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा । मित्रद्रोहिष्व् अनिष्टेषु भग्नचित्तेषु वर्तसे

॥२४॥

ब्रह्मोवाच:

एवं विवदमाने ते जग्मतुर् माम् उभे अपि । तयोर् वाक्यम् उपश्रुत्य मयोक्ते ते उभे अपि

॥२५॥

मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास् ततः । स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे

॥२६॥

विशेषतः पुनस् ताभ्यः कमण्डलुभवाश् च याः । तत्रापि गौतमी देवी निश्चयं कथयिष्यति

॥२७॥

सैव सर्वार्तिसंहर्त्री सैव सन्देहकर्तरी । ते मद्वाक्याद् भुवं गत्वा भूम्या च सहिते अपि

॥२८॥

अद्भिश् च सहिताः सर्वा गौतमीं ययुर् आपगाम् । भूमिर् आपस् तयोर् वाक्यं गौतम्यै क्रमशः स्फुटम्

॥२९॥

सर्वं निवेदयाम् आसुर् यथावृत्तं प्रणम्य ताम् । दरिद्रायाश् च लक्ष्म्याश् च वाक्यं मध्यस्थवत् तदा

॥३०॥

शृण्वत्सु लोकपालेषु शृण्वत्यां भुवि नारद । शृण्वतीष्व् अप्सु सा गङ्गा दरिद्रां वाक्यम् अब्रवीत् । सम्प्रशस्य तथा लक्ष्मीं गौतमी वाक्यम् अब्रवीत्

॥३१॥

गौतम्य् उवाच:

ब्रह्मश्रीश् च तपःश्रीश् च यज्ञश्रीः कीर्तिसञ्ज्ञिता । धनश्रीश् च यशश्रीश् च विद्या प्रज्ञा सरस्वती

॥३२॥

भुक्तिश्रीश् चाथ मुक्तिश् च स्मृतिर् लज्जा धृतिः क्षमा । सिद्धिस् तुष्टिस् तथा पुष्टिः शान्तिर् आपस् तथा मही

॥३३॥

अहंशक्तिर् अथौषध्यः श्रुतिः शुद्धिर् विभावरी । द्यौर् ज्योत्स्ना आशिषः स्वस्तिर् व्याप्तिर् माया उषा शिवा

॥३४॥

यत् किञ्चिद् विद्यते लोके लक्ष्म्या व्याप्तं चराचरम् । ब्राह्मणेष्व् अथ धीरेषु क्षमावत्स्व् अथ साधुषु

॥३५॥

विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु । यद् यद् रम्यं सुन्दरं वा तत् तल् लक्ष्मीविजृम्भितम्

॥३६॥

किम् अत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत् । यस्मिन् कस्मिंश् च यत् किञ्चिद् उत्कृष्टं परिदृश्यते

॥३७॥

लक्ष्मीमयं तु तत् सर्वं तया हीनं न किञ्चन । अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे

॥३८॥

गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यम् अब्रवीत् । ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्य् अभूत्

॥३९॥

तावद् दरिद्राभिभवो गङ्गा यावन् न सेव्यते । ततः प्रभृति तत् तीर्थम् अलक्ष्मीनाशनं शुभम्

॥४०॥

तत्र स्नानेन दानेन लक्ष्मीवान् पुण्यवान् भवेत् । तीर्थानां षट् सहस्राणि तस्मिंस् तीर्थे महामते । देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम्

॥४१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).