मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १४१

3
ब्रह्मपुराणम् · 141

अध्यायः १४१

ब्रह्मोवाच:

कपिलासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् । तत्र नारद वक्ष्यामि कथां पुण्याम् अनुत्तमाम्

॥१॥

कपिलो नाम तत्त्वज्ञो मुनिर् आसीन् महायशाः । क्रूरश् चापि प्रसन्नश् च तपोव्रतपरायणः

॥२॥

तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरम् आश्रितम् । तम् आगत्य महात्मानं वामदेवादयोऽब्रुवन्

॥३॥

हत्वा वेनं ब्रह्मशापैर् नष्टधर्मे त्व् अराजके । कपिलं सिद्धम् आचार्यम् ऊचुर् मुनिगणास् तदा

॥४॥

मुनिगणा ऊचुः:

गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर

॥५॥

ब्रह्मोवाच:

ततोऽब्रवीन् मुनिर् ध्यात्वा कपिलस् त्व् आगतान् मुनीन्

॥६॥

कपिल उवाच:

वेनस्योरुर् विमथ्योऽभूत् ततः कश्चिद् भविष्यति

॥७॥

ब्रह्मोवाच:

तथैव चक्रुर् मुनयो वेनस्योरुं विमथ्य वै । तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः

॥८॥

तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् । निषादः सोऽभवत् तस्मान् निषादाश् चाभवंस् ततः

॥९॥

वेनबाहुं ममन्थुस् ते दक्षिणं धर्मसंहितम् । ततः पृथुस्वरश् चैव सर्वलक्षणलक्षितः

॥१०॥

राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः । तम् आगत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान्

॥११॥

तस्मै ददुस् तथास्त्राणि मन्त्राणि गुणवन्ति च । ततोऽब्रुवन् मुनिगणास् तं पृथुं कपिलेन च

॥१२॥

मुनय ऊचुः:

आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीर् अपि

॥१३॥

ब्रह्मोवाच:

ततः स धनुर् आदाय भुवम् आह नृपोत्तमः

॥१४॥

पृथुर् उवाच:

ओषधीर् देहि या ग्रस्ताः प्रजानां हितकाम्यया

॥१५॥

ब्रह्मोवाच:

तम् उवाच मही भीता पृथुं तं पृथुलोचनम्

॥१६॥

मह्य् उवाच:

मयि जीर्णा महौषध्यः कथं दातुम् अहं क्षमा

॥१७॥

ब्रह्मोवाच:

ततः सकोपो नृपतिस् ताम् आह पृथिवीं पुनः

॥१८॥

पृथुर् उवाच:

नो चेद् ददास्य् अद्य त्वां वै हत्वा दास्ये महौषधीः

॥१९॥

भूमिर् उवाच:

कथं हंसि स्त्रियं राजञ् ज्ञानी भूत्वा नृपोत्तम । विना मया कथं चेमाः प्रजाः सन्धारयिष्यसि

॥२०॥

पृथुर् उवाच:

यत्रोपकारोऽनेकानाम् एकनाशे भविष्यति । न दोषस् तत्र पृथिवि तपसा धारये प्रजाः

॥२१॥

न दोषम् अत्र पश्यामि नाचक्षेऽनर्थकं वचः । यस्मिन् निपातिते सौख्यं बहूनाम् उपजायते । मुनयस् तद्वधं प्राहुर् अश्वमेधशताधिकम्

॥२२॥

ब्रह्मोवाच:

ततो देवाश् च ऋषयः सान्त्वयित्वा नृपोत्तमम् । महीं च मातरं देवीम् ऊचुः सुरगणास् तदा

॥२३॥

देवा ऊचुः:

भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः । देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन् नृपः । प्रजासंरक्षणं च स्यात् ततः क्षेमं भविष्यति

॥२४॥

ब्रह्मोवाच:

ततो गोरूपम् आस्थाय भूम्य् आसीत् कपिलान्तिके । दुदोह च महौषध्यो राजा वेनकरोद्भवः

॥२५॥

यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः । महीं गोरूपम् आपन्नां नर्मदायां महामुने

॥२६॥

सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः । महानदीषु सर्वासु दुदुहेऽसौ पयो महत्

॥२७॥

सा दुह्यमाना पृथुना पुण्यतोयाभवन् नदी । गौतम्या सङ्गता चाभूत् तद् अद्भुतम् इवाभवत्

॥२८॥

ततः प्रभृति तत् तीर्थं कपिलासङ्गमं विदुः । तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते

॥२९॥

तीर्थान्य् आहुर् मुनिगणाः स्मरणाद् अपि नारद । पावनानि जगत्य् अस्मिंस् तानि सर्वाण्य् अनुक्रमात्

॥३०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).