अध्यायः १४५
ब्रह्मोवाच:
मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् । सर्वक्रतुफलं पुण्यम् अघौघविनिवारणम्
॥१॥तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः । मार्कण्डेयो भरद्वाजो वसिष्ठोऽत्रिश् च गौतमः
॥२॥याज्ञवल्क्यश् च जाबालिर् मुनयोऽन्येऽपि नारद । एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः
॥३॥पुराणन्यायमीमांसाकथासु परिनिष्ठिताः । मिथः समूचुर् विद्वांसो मुक्तिं प्रति यथामति
॥४॥केचिज् ज्ञानं प्रशंसन्ति केचित् कर्म तथोभयम् । एवं विवदमानास् ते माम् ऊचुर् उभयं मतम्
॥५॥मदीयं तु मतं ज्ञात्वा ययुश् चक्रगदाधरम् । तस्य चापि मतं ज्ञात्वा ऋषयस् ते महौजसः
॥६॥पुनर् विवदमानास् ते शङ्करं प्रष्टुम् उद्यताः । गङ्गायां च भवं पूज्य तम् एवार्थं शशंसिरे
॥७॥कर्मणस् तु प्रधानत्वम् उवाच त्रिपुरान्तकः । क्रियारूपं च तज् ज्ञानं क्रिया सैव तद् उच्यते
॥८॥तस्मात् सर्वाणि भूतानि कर्मणा सिद्धिम् आप्नुयुः । कर्मैव विश्वतोव्यापि तदृते नास्ति किञ्चन
॥९॥विद्याभ्यासो यज्ञकृतिर् योगाभ्यासः शिवार्चनम् । सर्वं कर्मैव नाकर्मी प्राणी क्वाप्य् अत्र विद्यते
॥१०॥कर्मैव कारणं तस्माद् अन्यद् उन्मत्तचेष्टितम् । ऋषीणां यत्र संवादो यत्र देवो महेश्वरः
॥११॥चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः । मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डम् उच्यते
॥१२॥तीर्थम् ऋषिगणाकीर्णं गङ्गाया उत्तरे तटे । पितॄणां पावनं पुण्यं स्मरणाद् अपि सर्वदा
॥१३॥तत्राष्टौ नवतिस् तात तीर्थान्य् आह जगन्मयः । वेदेन चापि तत् प्रोक्तम् ऋषयो मेनिरे च तत्
॥१४॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).