मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १५४

3
ब्रह्मपुराणम् · 154

अध्यायः १५४

ब्रह्मोवाच:

सहस्रकुण्डम् आख्यातं तीर्थं वेदविदो विदुः । यस्य स्मरणमात्रेण सुखी सम्पद्यते नरः

॥१॥

पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे । लङ्कां दग्ध्वा रिपून् हत्वा रावणादीन् रणे शरैः

॥२॥

वैदेहीं च समासाद्य रामो वचनम् अब्रवीत् । पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते

॥३॥

अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसन्निधौ । एहि वैदेहि शुद्धासि अङ्कम् आरोढुम् अर्हसि

॥४॥

नेत्य् उवाच तदा श्रीमान् अङ्गदो हनुमांस् तथा । अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः

॥५॥

तत्र शुद्धिम् अवाप्याथ पुनर् भ्रातृषु मातृषु । लौकिकेष्व् अपि पश्यत्सु ततः शुद्धा नृपात्मजा

॥६॥

अयोध्यायां सुपुण्येऽह्नि अङ्कम् आरोढुम् अर्हसि । अस्याश् चरित्रविषये सन्देहः कस्य जायते

॥७॥

लोकापवादस् तद् अपि निरस्यः स्वजनेषु हि । तयोर् वाक्यम् अनादृत्य लक्ष्मणः सविभीषणः

॥८॥

रामश् च जाम्बवांश् चैव ताम् आह्वयन् नृपात्मजाम् । स्वस्तीत्य् उक्ता देवताभी राज्ञोऽङ्कं चारुरोह सा

॥९॥

मुदितास् ते ययुः शीघ्रं पुष्पकेण विराजता । अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत्

॥१०॥

मुदितास् तेऽभवन् सर्वे सदा रामानुवर्तिनः । ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम्

॥११॥

वाचं श्रुत्वा स तत्याज गुर्विणीं ताम् अयोनिजाम् । मिथ्यापवादम् अपि हि न सहन्ते कुलोन्नताः

॥१२॥

वाल्मीकेर् मुनिमुख्यस्य आश्रमस्य समीपतः । तत्याज लक्ष्मणः सीताम् अदुष्टां रुदतीं रुदन्

॥१३॥

नोल्लङ्घ्याज्ञा गुरूणाम् इत्य् असौ तद् अकरोद् भिया । ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः

॥१४॥

रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः । तत्रैवाजग्मतुर् उभौ रामपुत्रौ यशस्विनौ

॥१५॥

लवः कुशश् च विख्यातौ नारदाव् इव गायकौ । रामायणं समग्रं तद् गन्धर्वाव् इव सुस्वरौ

॥१६॥

रामस्य चरितं सर्वं गायमानौ समीयतुः । यज्ञवाटं राजसुतौ हेतुभिर् लक्षितौ तदा

॥१७॥

रामपुत्राव् उभौ शूरौ वैदेह्यास् तनयाव् इति । ताव् आनीय ततः पुत्राव् अभिषिच्य यथाक्रमम्

॥१८॥

अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः । संसारदुःखखिन्नानाम् अगतीनां शरीरिणाम्

॥१९॥

पुत्रालिङ्गनम् एवात्र परं विश्रान्तिकारणम् । मुहुर् आलिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति

॥२०॥

किम् अप्य् अन्तर् ध्यायति च निःश्वसत्य् अपि वै मुहुः । एतस्मिन्न् अन्तरे प्राप्ता राक्षसा लङ्कवासिनः

॥२१॥

सुग्रीवो हनुमांश् चैव अङ्गदो जाम्बवांस् तथा । अन्ये च वानराः सर्वे विभीषणपुरःसराः

॥२२॥

ते चागत्य नृपं प्राप्ताः सिंहासनम् उपस्थितम् । सीताम् अदृष्ट्वा हनुमान् अङ्गदः कनकाङ्गदः

॥२३॥

क्व गतायोनिजा माता एको रामोऽत्र दृश्यते । रामेण सा परित्यक्ता इत्य् ऊचुर् द्वारपालकाः

॥२४॥

पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि । अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः

॥२५॥

उत्पन्नैर् लौकिकैर् वाक्यै रामस् त्यजति तां प्रियाम् । मरिष्याव इति ह्य् उक्त्वा गौतमीं पुनर् ईयतुः

॥२६॥

रामस् तौ पृष्ठतोऽभ्येत्य अयोध्यावासिभिः सह । आगत्य गौतमीं तत्रऽकुर्वंस् ते परमं तपः

॥२७॥

स्मारं स्मारं निश्वसन्तस् तां सीतां लोकमातरम् । संसारास्थाविरहिता गौतमीसेवनोत्सुकाः

॥२८॥

लोकत्रयपतिः साक्षाद् रामोऽनुजसमन्वितः । प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः

॥२९॥

परितापं जहौ सर्वं सहस्रपरिवारितः । यत्र चासीत् स वृत्तान्तः सहस्रकुण्डम् उच्यते

॥३०॥

दशापराणि तीर्थानि तत्र सर्वार्थदानि च । तत्र स्नानं च दानं च सहस्रफलदायकम्

॥३१॥

यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः । सर्वापत्तारकं होमम् अकारयद् अघान्तकम्

॥३२॥

सहस्रसङ्ख्यायुक्तेषु कुण्डेषु वसुधारया । सर्वान् अपेक्षितान् कामान् अवापासौ महातपाः

॥३३॥

गौतम्याः सरिदम्बायाः प्रसादाद् राक्षसान्तकः । सहस्रकुण्डाभिधं तद् अभूत् तीर्थं महाफलम्

॥३४॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).