मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १५८

3
ब्रह्मपुराणम् · 158

अध्यायः १५८

ब्रह्मोवाच:

व्यासतीर्थम् इति ख्यातं प्राचेतसम् अतः परम् । नातः परतरं किञ्चित् पावनं सर्वसिद्धिदम्

॥१॥

दश मे मानसाः पुत्राः स्रष्टारो जगताम् अपि । अन्तं जिज्ञासवस् ते वै पृथिव्या जग्मुर् ओजसा

॥२॥

पुनः सृष्टाः पुनस् तेऽपि यातास् तान् समवेक्षितुम् । नैव तेऽपि समायाता ये गतास् ते गता गताः

॥३॥

तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने । वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः

॥४॥

तेऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः । तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम्

॥५॥

सर्वेभ्यो ह्य् अधिका माता गुरुभ्यो गौरवेण हि । तदा नारद कोपेन सा शशाप तदात्मजान्

॥६॥

मातोवाच:

माम् अनादृत्य ये पुत्राः प्रवृत्ताश् चरितुं तपः । सर्वैर् अपि प्रकारैस् तन् न तेषां सिद्धिम् एष्यति

॥७॥

ब्रह्मोवाच:

नानादेशांश् च चिन्वानास् तपःसिद्धिं न यान्ति च । विघ्नम् अन्वेति तान् सर्वान् इतश् चेतश् च धावतः

॥८॥

क्वापि तद् राक्षसैर् विघ्नं क्वापि तन् मानुषैर् अभूत् । प्रमदाभिः क्वचिच् चापि क्वापि तद्देहदोषतः

॥९॥

एवं तु भ्रममाणास् ते ययुः सर्वे तपोनिधिम् । अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम्

॥१०॥

नमस्कृत्वा ह्य् आङ्गिरसा ह्य् अग्निवंशसमुद्भवाः । दक्षिणाशापतिं शान्तं विनीताः प्रष्टुम् उद्यताः

॥११॥

आङ्गिरसा ऊचुः:

भगवन् केन दोषेण तपोऽस्माकं न सिध्यति । नानाविधैर् अप्य् उपायैः कुर्वतां च पुनः पुनः

॥१२॥

किं कुर्मः कः प्रकारोऽत्र तपस्य् एव भवाम किम् । उपायं ब्रूहि विप्रेन्द्र ज्येष्ठोऽसि तपसा ध्रुवम्

॥१३॥

ज्ञातासि ज्ञानिनां ब्रह्मन् वक्तासि वदतां वरः । शान्तोऽसि यमिनां नित्यं दयावान् प्रियकृत् तथा

॥१४॥

अक्रोधनश् च न द्वेष्टा तस्माद् ब्रूहि विवक्षितम् । साहङ्कारा दयाहीना गुरुसेवाविवर्जिताः । असत्यवादिनः क्रूरा न ते तत्त्वं विजानते

॥१५॥

ब्रह्मोवाच:

अगस्त्यः प्राह तान् सर्वान् क्षणं ध्यात्वा शनैः शनैः

॥१६॥

अगस्त्य उवाच:

शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः । न पर्याप्तं तपश् चाभूत् स्मरध्वं स्मयकारणम्

॥१७॥

ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखम् एधते । ये गताः पुनर् अन्वेष्टुं ते च त्व् आङ्गिरसोऽभवन्

॥१८॥

ते यूयं च पुनः काले याता याताः शनैः शनैः । प्रजापतेर् अप्य् अधिका भवितारो न संशयः

॥१९॥

इतो यान्तु तपस् तप्तुं गङ्गां त्रैलोक्यपावनीम् । नोपायोऽन्योऽस्ति संसारे विना गङ्गां शिवप्रियाम्

॥२०॥

तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ । स च्छेदयिष्यत्य् अखिलं संशयं वो महामतिः । न सिद्धिः क्वापि केषाञ्चिद् विना सद्गुरुणा यतः

॥२१॥

ब्रह्मोवाच:

ते तम् ऊचुर् मुनिवरं ज्ञानदः कोऽभिधीयते । ब्रह्मा विष्णुर् महेशो वा आदित्यो वापि चन्द्रमाः

॥२२॥

अग्निश् च वरुणः कः स्याज् ज्ञानदो मुनिसत्तम । अगस्त्यः पुनर् अप्य् आह ज्ञानदः श्रूयताम् अयम्

॥२३॥

या आपः सोऽग्निर् इत्य् उक्तो योऽग्निः सूर्यः स उच्यते । यश् च सूर्यः स वै विष्णुर् यश् च विष्णुः स भास्करः

॥२४॥

यश् च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वम् एव तत् । यस्य सर्वं तु तज् ज्ञानं ज्ञानदः सोऽत्र कीर्त्यते

॥२५॥

देशिकप्रेरकव्याख्याकृदुपाध्यायदेहदाः । गुरवः सन्ति बहवस् तेषां ज्ञानप्रदो महान्

॥२६॥

तद् एव ज्ञानम् अत्रोक्तं येन भेदो विहन्यते । एक एवाद्वयः शम्भुर् इन्द्रमित्राग्निनामभिः । वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे

॥२७॥

ब्रह्मोवाच:

एतच् छ्रुत्वा मुनेर् वाक्यं गाथा गायन्त एव ते । जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश् च दक्षिणाम्

॥२८॥

अगस्त्येनोदितान् देवान् पूजयन्तो यथाविधि । आसनेषु विशेषेण ह्य् आसीनास् तत्त्वचिन्तकाः

॥२९॥

तेषां सर्वे सुरगणाः प्रीतिमन्तोऽभवन् मुने । स्रष्टृत्वं तु युगादौ यत् कल्पितं विश्वयोनिना

॥३०॥

अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च । लोकानाम् उपकारार्थं धर्मकामार्थसिद्धये

॥३१॥

पुराणस्मृतिवेदार्थधर्मशास्त्रार्थनिश्चये । स्रष्टृत्वं जगताम् इष्टं तादृग्रूपा भविष्यथ

॥३२॥

प्रजापतित्वं तेषां वै भविष्यति शनैः क्रमात् । यदा ह्य् अधर्मो भविता वेदानां च पराभवः

॥३३॥

वेदानां व्यसनं तेभ्यो भाविव्यासास् ततस् तु ते । यदा यदा तु धर्मस्य ग्लानिर् वेदस्य दृश्यते

॥३४॥

तदा तदा तु ते व्यासा भविष्यन्त्य् उपकारिणः । तेषां यत् तपसः स्थानं गङ्गायास् तीरम् उत्तमम्

॥३५॥

तत्र तत्र शिवो विष्णुर् अहम् आदित्य एव च । अग्निर् आपः सर्वम् इति तत्र सन्निहितं सदा

॥३६॥

नैतेभ्यः पावनं किञ्चिन् नैतेभ्यस् त्व् अधिकं क्वचित् । तत्तदाकारतां प्राप्तं परं ब्रह्मैव केवलम्

॥३७॥

सर्वात्मकः शिवो व्यापी सर्वभावस्वरूपधृक् । विशेषतस् तत्र तीर्थे सर्वप्राण्यनुकम्पया

॥३८॥

सर्वैर् देवैर् अनुवृतस् तदनुग्रहकारकः । धर्मव्यासास् तु ते ज्ञेया वेदव्यासास् तथैव च

॥३९॥

तेषां तीर्थं तेन नाम्ना व्यपदिष्टं जगत्त्रये । पापपङ्कक्षालनाम्भो मोहध्वान्तमदापहम् । सर्वसिद्धिप्रदं पुंसां व्यासतीर्थम् अनुत्तमम्

॥४०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).