अध्यायः १५९
ब्रह्मोवाच:
वञ्जरासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् । ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस् तथा
॥१॥दासत्वम् अगमत् पूर्वं नागानां गरुडः खगः । मातृदास्यात् तदा दुःखपरिसन्तप्तमानसः । कदाचिच् चिन्तयाम् आस रहः स्थित्वा विनिश्वसन्
॥२॥गरुड उवाच:
त एव धन्या लोकेऽस्मिन् कृतपुण्यास् त एव हि । नान्यसेवा कृता यैस् तु न येषां व्यसनागमः
॥३॥सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च । स्वदेहप्रभवो धन्या धिग् धिग् अन्यवशे स्थितान्
॥४॥ब्रह्मोवाच:
इति चिन्तासमाविष्टो जननीम् एत्य दुःखितः । पर्यपृच्छद् अमेयात्मा वैनतेयोऽथ मातरम्
॥५॥गरुड उवाच:
कस्यापराधान् मातस् त्वं पितुर् वा मम वान्यतः । दासीत्वम् आप्ता वद तत्कारणं मम पृच्छतः
॥६॥ब्रह्मोवाच:
साब्रवीत् पुत्रम् आत्मीयम् अरुणस्यानुजं प्रियम्
॥७॥विनतोवाच:
नैव कस्यापराधोऽस्ति स्वापराधो मयोदितः । यस्या वाक्यं विपर्येति सा दासी स्यान् मयोदितम्
॥८॥कद्रूश् चापि तथैवाहं सा मया संयुता ययौ । कद्र्वा ममाभवद् वादश् छद्मनाहं तया जिता
॥९॥विधिर् हि बलवांस् तात कां कां चेष्टां न चेष्टते । एवं दासीत्वम् अगमं कद्र्वाः कश्यपनन्दन । यदा दासी तु जाताहं दासोऽभूस् त्वं द्विजन्मज
॥१०॥ब्रह्मोवाच:
तूष्णीं तदा बभूवासौ गरुडोऽतीव दुःखितः । न किञ्चिद् ऊचे जननीं चिन्तयन् भवितव्यताम्
॥११॥कद्रूः कदाचित् सा प्राह पुत्राणां हितम् इच्छती । आत्मनो भूतिम् इच्छन्ती विनतां खगमातरम्
॥१२॥कद्रूर् उवाच:
पुत्रः सूर्यं नमस्कर्तुं तव यात्य् अनिवारितः । अहो लोकत्रयेऽप्य् अस्मिन् धन्यासि बत दास्य् अपि
॥१३॥ब्रह्मोवाच:
स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता
॥१४॥विनतोवाच:
तव पुत्रास् तु किम् इति रविं द्रष्टुं न यान्ति च
॥१५॥कद्रूर् उवाच:
पुत्रान् मदीयान् सुभगे नय नागालयं प्रति । समुद्रस्य समीपे तु तद् आस्ते शीतलं सरः
॥१६॥ब्रह्मोवाच:
सुपर्णस् त्व् अवहन् नागान् कद्रूं च विनता तथा । ततः प्रोवाच मुदिता वैनतेयस्य मातरम्
॥१७॥सुराणां नेतु निलयं गरुडो मत्सुतान् इति । पुनः प्राह सर्पमाता गरुडं विनयान्वितम्
॥१८॥सर्पमातोवाच:
पुत्रा मे द्रष्टुम् इच्छन्ति हंसं त्रिजगतां गुरुम् । नमस्कृत्वा ततः सूर्यम् एष्यन्ति निलयं मम । हण्डे त्वं नय पुत्रान् मे सूर्यमण्डलम् अन्वहम्
॥१९॥ब्रह्मोवाच:
सा वेपमाना विनता दीना कद्रूम् अभाषत
॥२०॥विनतोवाच:
नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् । दृष्ट्वा दिनकरं देवं पुनर् एव प्रयान्तु ते
॥२१॥ब्रह्मोवाच:
विनता स्वसुतं प्राह विहगानाम् अधीश्वरम् । नमस्कर्तुम् अथेच्छन्ति नागाः स्वामित्वम् आगताः
॥२२॥भास्वन्तम् इत्य् उवाचेयं मां सर्पजननी हठात् । तथेत्य् उक्त्वा स गरुडो माम् आरोहन्तु पन्नगाः
॥२३॥तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् । शनैः शनैर् उपगमद् यत्र देवो दिवाकरः । ते दह्यमानास् तीक्ष्णेन भानुतापेन विव्यथुः
॥२४॥सर्पा ऊचुः:
निवर्तस्व महाप्राज्ञ पतङ्गाय नमो नमः । अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा । यामस् त्वया वा गरुड विहाय त्वाम् अथापि वा
॥२५॥ब्रह्मोवाच:
एवं नागैर् उच्यमान आदित्यं दर्शयामि वः । इत्य् उक्त्वा गगनं शीघ्रं जगामादित्यसम्मुखः
॥२६॥दग्धभोगा निपेतुस् ते द्वीपं तं वीरणं प्रति । बहवः शतसाहस्राः पीडिता दग्धविग्रहाः
॥२७॥पुत्राणाम् आर्तसन्नादं पतितानां महीतले । आश्वासितुं समायाता तान् सा कद्रूः सुविह्वला
॥२८॥उवाच विनतां कद्रूस् तव पुत्रोऽतिदुष्कृतम् । कृतवान् अतिदुर्मेधा येषां शान्तिर् न विद्यते
॥२९॥नान्यथा कर्तुम् आयाति स्वामिवाक्यं फणीश्वरः । स काश्यपो बृहत्तेजा यद्य् अत्र स्याद् अनामयम्
॥३०॥भवेच् चैवं कथं शान्तिः पुत्राणां मम भामिनि । कद्र्वास् तद् वचनं श्रुत्वा विनता ह्य् अतिभीतवत्
॥३१॥पुत्रम् आह महात्मानं गरुडं विहगाधिपम्
॥३२॥विनतोवाच:
नेदं युक्ततरं पुत्र भूषणं विनयेन हि । वर्तितुं युक्तम् इत्य् उक्तं वैपरीत्यं न युज्यते
॥३३॥नामित्रेष्व् अपि कर्तव्यं सद्भिर् जिह्मं कदाचन । श्रोत्रिये चान्त्यजे वापि समं चन्द्रः प्रकाशते
॥३४॥कुर्वन्त्य् अनिष्टं कपटैस् त एव मम पुत्रक । प्रसह्य कर्तुं ये साक्षाद् अशक्ताः पुरुषाधमाः
॥३५॥ब्रह्मोवाच:
विनता च ततः प्राह कद्रूं तां सर्पमातरम्
॥३६॥विनतोवाच:
किं कृत्वा शान्तिर् अभ्येति पुत्राणां ते करोमि तत् । जरया तु गृहीतास् ते वद शान्तिं करोमि तत्
॥३७॥ब्रह्मोवाच:
कद्रूर् अप्य् आह विनतां रसातलगतं पयः । तेनाभिषेचितानां मे पुत्राणां शान्तिर् एष्यति
॥३८॥कद्र्वास् तद् वचनं श्रुत्वा रसातलगतं पयः । क्षणेनैव समानीय नागांस् तान् अभ्यषेचयत् । ततः प्रोवाच गरुडो मघवानं शतक्रतुम्
॥३९॥गरुड उवाच:
मेघाश् चाप्य् अत्र वर्षन्तु त्रैलोक्यस्योपकारिणः
॥४०॥ब्रह्मोवाच:
तथा ववर्ष पर्जन्यो नागानाम् अभवच् छिवम् । रसातलभवं गाङ्गं नागसञ्जीवनं पयः
॥४१॥जराशोकविनाशार्थम् आनीतं गरुडेन यत् । यत्राभिषेचिता नागास् तन् नागालयम् उच्यते
॥४२॥गरुडेन यतो वारि आनीतं तद् रसातलात् । तद् गाङ्गं वारि सर्वेषां सर्वपापप्रणाशनम्
॥४३॥जराया वारणं यस्मान् नागानाम् अभवच् छिवम् । रसातलभवं गाङ्गं नागसञ्जीवनं यतः
॥४४॥जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे । साक्षाद् अमृतसंवाहा वञ्जरा साभवन् नदी
॥४५॥जरादारिद्र्यसन्तापहारिणी क्लेशवारिणी । रसातलभवा गङ्गा मर्त्यलोकभवा तु या
॥४६॥तयोश् च सङ्गमो यः स्यात् किं पुनस् तत्र वर्ण्यते । यस्यानुस्मरणाद् एव नाशं यान्त्य् अघसञ्चयाः
॥४७॥तत्र च स्नानदानानां फलं को वक्तुम् ईश्वरः । सपादं तत्र तीर्थानां लक्षम् आहुर् मनीषिणः
॥४८॥सर्वसम्पत्तिदातॄणां सर्वपापौघहारिणाम् । वञ्जरासङ्गमसमं तीर्थं क्वापि न विद्यते । यदनुस्मरणेनापि विपद्यन्ते विपत्तयः
॥४९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).