मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १७१

3
ब्रह्मपुराणम् · 171

अध्यायः १७१

ब्रह्मोवाच:

उर्वशीतीर्थम् आख्यातम् अश्वमेधफलप्रदम् । स्नानदानमहादेववासुदेवार्चनादिभिः

॥१॥

महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः । प्रमतिर् नाम राजासीत् सार्वभौमः प्रतापवान्

॥२॥

रिपूञ् जित्वा जगामाशु इन्द्रलोकं सुरैर् वृतम् । तत्रापश्यत् सुरपतिं मरुद्भिः सह नारद

॥३॥

जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः । तं हसन्तम् अथालक्ष्य हरिः प्रमतिम् अब्रवीत्

॥४॥

इन्द्र उवाच:

देवालये महाबुद्धे मरुद्भिः क्रीडितैर् अलम् । दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह

॥५॥

ब्रह्मोवाच:

सकषायं हरिवचो निशम्य प्रमतिर् नृपः । तथेत्य् उवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे । तच् छ्रुत्वा प्रमतेर् वाक्यं सुरराण् नृपम् अब्रवीत्

॥६॥

इन्द्र उवाच:

उर्वश्य् एव पणोऽस्माकं प्राप्या या निखिलैर् मखैः

॥७॥

ब्रह्मोवाच:

एतच् छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः । उर्वशीं निष्कृतिं मन्ये त्वं राजन् किं नु मन्यसे

॥८॥

यद् ब्रवीषि सुरेशान तन् मन्येऽहं शतक्रतो । प्राहेन्द्रं प्रमतिस् तद्वन् निष्कृत्यै दक्षिणं करम् । सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम्

॥९॥

ब्रह्मोवाच:

ताव् एवं संविदं कृत्वा देवनायोपतस्थतुः । प्रमतिर् जितवांस् तत्र उर्वशीं दैवतस्त्रियम् । तां जित्वा प्रमतिः प्राह संरम्भात् तं शतक्रतुम्

॥१०॥

प्रमतिर् उवाच:

निष्कृत्यै पुनर् अन्यन् मे पश्चाद् दीव्ये त्वया विभो

॥११॥

इन्द्र उवाच:

देवयोग्यम् अथो वज्रं जैत्रं सरथम् उत्तमम् । दीव्येऽहं तेन नृपते करेणाप्य् अविचारयन्

॥१२॥

ब्रह्मोवाच:

स गृहीत्वा तदा पाशान् अन्यांश् च मणिभूषितान् । जितम् इत्य् अब्रवीच् छक्रं प्रमतिः प्रहसंस् तदा

॥१३॥

एतस्मिन्न् अन्तरे प्रायाद् अक्षज्ञस् तत्र नारद । विश्वावसुर् इति ख्यातो गन्धर्वाणां महेश्वरः

॥१४॥

विश्वावसुर् उवाच:

गन्धर्वविद्यया राजंस् तया दीव्यामहे त्वया । तथेत्य् उक्त्वा स नृपतिर् जितम् इत्य् अब्रवीत् तदा

॥१५॥

तौ जित्वा नृपतिर् मौर्ख्याद् देवेन्द्रं प्राह कश्मलम्

॥१६॥

प्रमतिर् उवाच:

रणे वा देवने वापि न त्वं जेता कथञ्चन । महेन्द्र सततं तस्माद् अस्मदाराधको भव । वद केन प्रकारेण जाता देवेन्द्रता तव

॥१७॥

ब्रह्मोवाच:

तथा प्राहोर्वशीं गर्वाद् गच्छ कर्मकरी भव । उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि । वर्तेय सर्वभावेन न मां धिक्कर्तुम् अर्हसि

॥१८॥

ब्रह्मोवाच:

ततस् तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः । त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव

॥१९॥

एतच् छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस् तदा । चित्रसेन इति ख्यातः सुतो विश्वावसोर् बली

॥२०॥

चित्रसेन उवाच:

दीव्येऽहं वै त्वया राजन् सर्वेणानेन भूपते । राज्येन जीवितेनापि मदीयेन तवापि च

॥२१॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा पुनर् उभौ चित्रसेननृपोत्तमौ । दीव्येताम् अभिसंरब्धौ चित्रसेनोऽजयत् तदा

॥२२॥

गान्धर्वैस् तं महापाशैर् बबन्ध नृपतिं तदा । चित्रसेनोऽजयत् सर्वम् उर्वशीमुख्यतः पणैः

॥२३॥

राज्यं कोशं बलं चैव यद् अन्यद् वसु किञ्चन । चित्रसेनस्य तज् जातं यद् आसीत् प्रमतेर् धनम्

॥२४॥

तस्य पुत्रो बाल एव पुरोधसम् उवाच ह । वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसम् ओजसा

॥२५॥

प्रमतिपुत्र उवाच:

किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः । कथम् एष्यति स्वं स्थानं कथं पाशैर् विमोक्ष्यते

॥२६॥

ब्रह्मोवाच:

सुमतेर् वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः । मधुच्छन्दा जगादेदं प्रमतेर् वर्तनं तदा

॥२७॥

मधुच्छन्दा उवाच:

देवलोके तव पिता बद्ध आस्ते महामते । कैतवैर् बहुदोषैश् च भ्रष्टराज्यो बभूव ह

॥२८॥

यो याति कैतवसभां स चापि क्लेशभाग् भवेत् । द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज

॥२९॥

पापिनाम् एव जायन्ते सदा पापात्मकानि हि । एकैकम् अप्य् अनर्थाय पापाय नरकाय च

॥३०॥

यानासनाभिलापाद्यैः कृतैः कैतववर्तिभिः । कुलीनाः कलुषीभूताः किं पुनः कितवो जनः

॥३१॥

कितवस्य तु या जाया तप्यते नित्यम् एव सा । स चापि कितवः पापो योषितं वीक्ष्य तप्यते

॥३२॥

तां दृष्ट्वा विगतानन्दो नित्यं वदति पापकृत् । अहो संसारचक्रेऽस्मिन् मया तुल्यो न पातकी

॥३३॥

न किञ्चिद् अपि यस्यास्ते लोके विषयजं सुखम् । लोकद्वयेऽपि न सुखी कितवः कोपि दृश्यते

॥३४॥

विभाति च तथा नित्यं लज्जया दग्धमानसः । गतधर्मो निरानन्दो ग्रस्तगर्वस् तथाटति

॥३५॥

अकैतवी च या वृत्तिः सा प्रशस्ता द्विजन्मनाम् । कृषिगोरक्ष्यवाणिज्यम् अपि कुर्यान् न कैतवम्

॥३६॥

यस् तु कैतववृत्त्या हि धनम् आहर्तुम् इच्छति । धर्मार्थकामाभिजनैः स विमुच्येत पौरुषात्

॥३७॥

वेदेऽपि दूषितं कर्म तव पित्रा तदादृतम् । तस्मात् किं कुर्महे वत्स यद् उक्तं ते विधीयते

॥३८॥

विधातृविहितं मार्गं को नु वात्येति पण्डितः

॥३९॥

ब्रह्मोवाच:

एतत् पुरोधसो वाक्यं श्रुत्वा सुमतिर् अब्रवीत्

॥४०॥

सुमतिर् उवाच:

किं कृत्वा प्रमतिस् तातः पुना राज्यम् अवाप्नुयात्

॥४१॥

ब्रह्मोवाच:

पुनर् ध्यात्वा मधुच्छन्दाः सुमतिं चेदम् अब्रवीत्

॥४२॥

मधुच्छन्दा उवाच:

गौतमीं याहि वत्स त्वं तत्र पूजय शङ्करम् । अदितिं वरुणं विष्णुं ततः पाशाद् विमोक्ष्यते

॥४३॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा जगामाशु गङ्गां नत्वा जनार्दनम् । पूजयाम् आस शम्भुं च तपस् तेपे यतव्रतः

॥४४॥

सहस्रम् एकं वर्षाणां बद्धं पितरम् आत्मनः । मोचयाम् आस देवेभ्यः पुना राज्यम् अवाप सः

॥४५॥

शिवेशाभ्यां मुक्तपाशो राज्यं प्राप सुतात् स्वकात् । अवाप्य विद्यां गान्धर्वीं प्रियश् चासीच् छतक्रतोः

॥४६॥

शाम्भवं वैष्णवं चैव उर्वशीतीर्थम् एव च । ततःप्रभृति तत् तीर्थं कैतवं चेति विश्रुतम्

॥४७॥

शिवविष्णुसरिन्मातुप्रसादाद् आप्यते न किम् । तत्र स्नानं च दानं च बहुपुण्यफलप्रदम् । पापपाशविमोक्षं तु सर्वदुर्गतिनाशनम्

॥४८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).