अध्यायः १७३
ब्रह्मोवाच:
ऋषिसत्त्रम् इति ख्यातम् ऋषयः सप्त नारद । निषेदुस् तपसे यत्र यत्र भीमेश्वरः शिवः
॥१॥तत्रेदं वृत्तम् आख्यास्ये देवर्षिपितृबृंहितम् । शृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम्
॥२॥सप्तधा व्यभजन् गङ्गाम् ऋषयः सप्त नारद । वासिष्ठी दाक्षिणेयी स्याद् वैश्वामित्री तदुत्तरा
॥३॥वामदेव्य् अपरा ज्ञेया गौतमी मध्यतः शुभा । भारद्वाजी स्मृता चान्या आत्रेयी चेत्य् अथापरा
॥४॥जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा । तैः सर्वैर् ऋषिभिस् तत्र यष्टुम् इष्टैर् महात्मभिः
॥५॥निष्पादितं महासत्त्रम् ऋषिभिः पारदर्शिभिः । एतस्मिन्न् अन्तरे तत्र देवानां प्रबलो रिपुः
॥६॥विश्वरूप इति ख्यातो मुनीनां सत्त्रम् अभ्यगात् । ब्रह्मचर्येण तपसा तान् आराध्य यथाविधि । विनयेनाथ पप्रच्छ ऋषीन् सर्वान् अनुक्रमात्
॥७॥विश्वरूप उवाच:
ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना । यथा स्याद् बलवान् पुत्रो देवानाम् अपि दुर्धरः । यज्ञैर् वा तपसा वापि मुनयो वक्तुम् अर्हथ
॥८॥ब्रह्मोवाच:
तत्र प्राह महाबुद्धिर् विश्वामित्रो महामनाः
॥९॥विश्वामित्र उवाच:
कर्मणा तात लभ्यन्ते फलानि विविधानि च । त्रयाणां कारणानां च कर्म प्रथमकारणम्
॥१०॥ततश् च कारणं कर्ता ततश् चान्यत् प्रकीर्तितम् । उपादानं तथा बीजं न च कर्म विदुर् बुधाः
॥११॥कर्मणां कारणत्वं च कारणे पुष्कले सति । भावाभावौ फले दृष्टौ तस्मात् कर्माश्रितं फलम्
॥१२॥कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् । कर्तव्यं क्रियमाणस्य साधनं यद् यद् उच्यते
॥१३॥तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् । यद् यद् भावयते जन्तुः कर्म कुर्वन् विचक्षणः
॥१४॥तद्भावनानुरूपेण फलनिष्पत्तिर् उच्यते । करोति कर्म विधिवद् विना भावनया यदि
॥१५॥अन्यथा स्यात् फलं सर्वं तस्य भावानुरूपतः । तस्मात् तपो व्रतं दानं जपयज्ञादिकाः क्रियाः
॥१६॥कर्मणस् त्व् अनुरूपेण फलं दास्यन्ति भावतः । तस्माद् भावानुरूपेण कर्म वै दास्यते फलम्
॥१७॥भावस् तु त्रिविधो ज्ञेयः सात्त्विको राजसस् तथा । तामसस् तु तथा ज्ञेयः फलं कर्मानुसारतः
॥१८॥भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः । तस्माद् इच्छानुसारेण भावं कुर्याद् विचक्षणः
॥१९॥पश्चात् कर्मापि कर्तव्यं फलदातापि तद्विधम् । फलं ददाति फलिनां फले यदि प्रवर्तते
॥२०॥कर्मकारो न तत्रास्ति कुर्यात् कर्म स्वभावतः । तद् एव चोपदानादि सत्त्वादिगुणभेदतः
॥२१॥भावात् प्रारभते तद्वद् भावैः फलम् अवाप्यते । धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम्
॥२२॥भावस्थितं भवेत् कर्म मुक्तिदं बन्धकारणम् । स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च
॥२३॥फलानि विविधान्य् आशु करोति समतानुगम् । एक एव पदार्थोऽसौ भावैर् भेदः प्रदृश्यते
॥२४॥क्रियते भुज्यते वापि तस्माद् भावो विशिष्यते । यथाभावं कर्म कुरु यथेप्सितम् अवाप्स्यसि
॥२५॥ब्रह्मोवाच:
एतच् छ्रुत्वा ऋषेर् वाक्यं विश्वामित्रस्य धीमतः । तपस् तप्त्वा बहुकालं तामसं भावम् आश्रितः
॥२६॥विश्वरूपः कर्म भीमं चकार सुरभीषणम् । पश्यत्सु ऋषिमुख्येषु वार्यमाणोऽपि नित्यशः
॥२७॥आत्मकोपानुसारेण भीमं कर्म तथाकरोत् । भीषणे कुण्डखाते तु भीषणे जातवेदसि
॥२८॥भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम् । एवं तपन्तम् आलक्ष्य वाग् उवाचाशरीरिणी
॥२९॥जटाजूटं विनात्मानं न च वृत्रो व्यजीयत । वृथात्मानं विश्वरूपो जुहुयाज् जातवेदसि
॥३०॥स एवेन्द्रः स वरुणः स च स्यात् सर्वम् एव च । त्यक्त्वात्मानं जटामात्रं हुतवान् वृजिनोद्भवः
॥३१॥वृत्र इत्य् उच्यते वेदे स चापि वृजिनोऽभवत् । भीमस्य महिमानं को जानाति जगदीशितुः
॥३२॥सृजत्य् अशेषम् अपि यो न च सङ्गेन लिप्यते । विररामेति सङ्कीर्त्य सा वाण्य् एनं मुनीश्वराः
॥३३॥भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वम् अथाश्रमम् । विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः
॥३४॥भीमभावो भीमतनुं ध्यात्वात्मानं जुहाव ह । तस्माद् भीमेश्वरो देवः पुराणे परिपठ्यते । तत्र स्नानं च दानं च मुक्तिदं नात्र संशयः
॥३५॥इति पठति शृणोति यश् च भक्त्या । विबुधपतिं शिवम् अत्र भीमरूपम् । स्मृतिपदशरणेन मुक्तिदश् च
॥३६॥समूहहन्त्री परमार्थदात्री । सदैव सर्वत्र विशेषतस् तु । यत्राम्बुराशिं समनुप्रविष्टा
॥३७॥स्नात्वा तु तस्मिन् सुकृती शरीरी । गोदावरीवारिधिसङ्गमे यः । उद्धृत्य तीव्रान् निरयाद् अशेषात् । स पूर्वजान् याति पुरं पुरारेः
॥३८॥वेदान्तवेद्यं यद् उपासितव्यं । तद् ब्रह्म साक्षात् खलु भीमनाथः । दृष्टे हि तस्मिन् न पुनर् विशन्ति । शरीरिणः संस्मृतिम् उग्रदुःखाम्
॥३९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).