मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १७४

3
ब्रह्मपुराणम् · 174

अध्यायः १७४

ब्रह्मोवाच:

सा सङ्गता पूर्वम् अपाम्पतिं तं । गङ्गा सुराणाम् अपि वन्दनीया । देवैश् च सर्वैर् अनुगम्यमाना । संस्तूयमाना मुनिभिर् मरुद्भिः

॥१॥

क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः । भृग्वग्निवेश्यात्रिमरीचिमुख्याः

॥२॥

सुधूतपापा मनुगौतमादयः । सकौशिकास् तुम्बरुपर्वताद्याः । अगस्त्यमार्कण्डसपिप्पलाद्याः । सगालवा योगपरायणाश् च

॥३॥

सवामदेवाङ्गिरसोऽथ भार्गवाः । स्मृतिप्रवीणाः श्रुतिभिर् मनोज्ञाः । सर्वे पुराणार्थविदो बहुज्ञास् । ते गौतमीं देवनदीं तु गत्वा

॥४॥

स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् । हृद्यैश् च तुष्टैर् मुदितैर् मनोभिः । तां सङ्गतां वीक्ष्य शिवो हरिश् च । आत्मानम् आदर्शयतां मुनिभ्यः

॥५॥

तथामरास् तौ पितृभिश् च दृष्टौ । स्तुवन्ति देवौ सकलार्तिहारिणौ

॥६॥

आदित्या वसवो रुद्रा मरुतो लोकपालकाः । कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशङ्करौ

॥७॥

सङ्गमेषु प्रसिद्धेषु नित्यं सप्तसु नारद । समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ

॥८॥

गौतमेश्वर आख्यातो यत्र देवो महेश्वरः । नित्यं सन्निहितस् तत्र माधवो रमया सह

॥९॥

ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः । लोकानाम् उपकारार्थम् आत्मनः कारणान्तरे

॥१०॥

चक्रपाणिर् इति ख्यातः स्तुतो देवैर् मया सह । तत्र सन्निहितो विष्णुर् देवैः सह मरुद्गणैः

॥११॥

ऐन्द्रतीर्थम् इति ख्यातं तद् एव हयमूर्धकम् । हयमूर्धा तत्र विष्णुस् तन्मूर्धनि सुरा अपि । सोमतीर्थम् इति ख्यातं यत्र सोमेश्वरः शिवः

॥१२॥

इन्द्रस्य सोमश्रवसो देवैश् च ऋषिभिस् तथा । प्रार्थितः सोम एवादाव् इन्द्रायेन्दो परिस्रव

॥१३॥

सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न । इन्द्रायेन्दो परिस्रव

॥१४॥

यत् ते राजञ् छृतं हविस् तेन सोमाभिरक्ष नः । अरातीवा मा नस् तारीन् मो च नः किञ्चनाममद् । इन्द्रायेन्दो परिस्रव

॥१५॥

ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः । सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर् । इन्द्रायेन्दो परिस्रव

॥१६॥

कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना । नानाधियो वसूयवोऽनु गा इव तस्थिम । इन्द्रायेन्दो परिस्रव

॥१७॥

एवम् उक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे । तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः

॥१८॥

तत् सोमतीर्थम् आख्यातम् आग्नेयं पुरतस् तु तत् । अग्निर् इष्ट्वा महायज्ञैर् माम् आराध्य मनीषितम्

॥१९॥

सम्प्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः । स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस् तथा

॥२०॥

तस्माद् आग्नेयम् आख्यातम् आदित्यं तदनन्तरम् । यत्रादित्यो वेदमयो नित्यम् एति उपासितुम्

॥२१॥

रूपान्तरेण मध्याह्ने द्रष्टुं मां शङ्करं हरिम् । नमस्कार्यस् तत्र सदा मध्याह्ने सकलो जनः

॥२२॥

रूपेण केन सविता समायातीत्य् अनिश्चयात् । तस्माद् आदित्यम् आख्यातं बार्हस्पत्यम् अनन्तरम्

॥२३॥

बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह । ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः

॥२४॥

तत्तीर्थस्मरणाद् एव ग्रहशान्तिर् भविष्यति । तस्माद् अप्य् अपरं तीर्थम् इन्द्रगोपे नगोत्तमे

॥२५॥

प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे । हिमालयेन तत् तीर्थम् अद्रितीर्थं तद् उच्यते

॥२६॥

तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् । एवं सा गौतमी गङ्गा ब्रह्माद्रेश् च विनिःसृता

॥२७॥

यावत् सागरगा देवी तत्र तीर्थानि कानिचित् । सङ्क्षेपेण मयोक्तानि रहस्यानि शुभानि च

॥२८॥

वेदे पुराणे ऋषिभिः प्रसिद्धा । या गौतमी लोकनमस्कृता च । वक्तुं कथं ताम् अतिसुप्रभावाम् । अशेषतो नारद कस्य शक्तिः

॥२९॥

भक्त्या प्रवृत्तस्य यथाकथञ्चिन् । नैवापराधोऽस्ति न संशयोऽत्र । तस्माच् च दिङ्मात्रमतिप्रयासात् । संसूचितं लोकहिताय तस्याः

॥३०॥

कस् तस्याः प्रतितीर्थं तु प्रभावं वक्तुम् ईश्वरः । अपि लक्ष्मीपतिर् विष्णुर् अलं सोमेश्वरः शिवः

॥३१॥

क्वचित् कस्मिंश् च तीर्थानि कालयोगे भवन्ति हि । गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम्

॥३२॥

सर्वत्र सर्वदा पुण्या को न्व् अस्या गुणकीर्तनम् । वक्तुं शक्तस् ततस् तस्यै नम इत्य् एव युज्यते

॥३३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).