अध्यायः १७५
नारद उवाच:
त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर । ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम्
॥१॥आदिमध्यावसाने च उभयोस् तीरयोर् अपि । या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम । पुनः सङ्क्षेपतो ब्रूहि न मे तृप्तिः प्रजायते
॥२॥ब्रह्मोवाच:
कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा । महेश्वरजटाजूटे स्थिता सैव नमस्कृता
॥३॥ब्रह्मतेजःप्रभावेण शिवम् आराध्य यत्नतः । ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति
॥४॥आगत्य सङ्गता देवी सर्वतीर्थमयी नृणाम् । ईप्सितानां तथा दात्री प्रभावोऽस्या विशिष्यते
॥५॥एतस्या नाधिकं मन्ये किञ्चित् तीर्थं जगत्त्रये । अस्याश् चैव प्रभावेण भाव्यं यच् च मनःस्थितम्
॥६॥अद्याप्य् अस्या हि माहात्म्यं वक्तुं कैश्चिन् न शक्यते । भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः
॥७॥तस्याः परतरं तीर्थं न स्याद् इति मतिर् मम । अन्यतीर्थेन साधर्म्यं न युज्येत कथञ्चन
॥८॥श्रुत्वा मद्वाक्यपीयूषैर् गङ्गाया गुणकीर्तनम् । सर्वेषां न मतिः कस्मात् तत्रैवोपरतिं गता । इति भाति विचित्रं मे मुने खलु जगत्त्रये
॥९॥नारद उवाच:
धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः । छन्दांसि सरहस्यानि पुराणस्मृतयोऽपि च
॥१०॥धर्मशास्त्राणि यच् चान्यत् तव वाक्ये प्रतिष्ठितम् । तीर्थानाम् अथ दानानां यज्ञानां तपसां तथा
॥११॥देवतामन्त्रसेवानाम् अधिकं किं वद प्रभो । यद् ब्रूषे भगवन् भक्त्या तथा भाव्यं न चान्यथा
॥१२॥एतं मे संशयं ब्रह्मन् वाक्यात् त्वं छेत्तुम् अर्हसि । इष्टं मनोगतं श्रुत्वा तस्माद् विस्मयम् आगतः
॥१३॥ब्रह्मोवाच:
शृणु नारद वक्ष्यामि रहस्यं धर्मम् उत्तमम् । चतुर्विधानि तीर्थानि तावन्त्य् एव युगानि च
॥१४॥गुणास् त्रयश् च पुरुषास् त्रयो देवाः सनातनाः । वेदाश् च स्मृतिभिर् युक्ताश् चत्वारस् ते प्रकीर्तिताः
॥१५॥पुरुषार्थाश् च चत्वारो वाणी चापि चतुर्विधा । गुणा ह्य् अपि तु चत्वारः समत्वेनेति नारद
॥१६॥सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः । साध्यसाधनभावेन स एव बहुधा मतः
॥१७॥तस्याश्रयश् च द्विविधो देशः कालश् च सर्वदा । कालाश्रयश् च यो धर्मो हीयते वर्धते सदा
॥१८॥युगानाम् अनुरूपेण पादः पादोऽस्य हीयते । धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम्
॥१९॥कालेन चाश्रितो धर्मो देशे नित्यं प्रतिष्ठितः । युगेषु क्षीयमाणेषु न देशेषु स हीयते
॥२०॥उभयत्र विहीने च धर्मस्य स्याद् अभावता । तस्माद् देशाश्रितो धर्मश् चतुष्पात् सुप्रतिष्ठितः
॥२१॥स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति । कृते देशं च कालं च धर्मोऽवष्टभ्य तिष्ठति
॥२२॥त्रेतायां पादहीनेन स तु पादः प्रदेशतः । द्वापरे चार्धतः काले धर्मो देशे समास्थितः
॥२३॥कलौ पादेन चैकेन धर्मश् चलति सङ्कटम् । एवंविधं तु यो धर्मं वेत्ति तस्य न हीयते
॥२४॥युगानाम् अनुभावेन जातिभेदाश् च संस्थिताः । गुणेभ्यो गुणकर्तृभ्यो विचित्रा धर्मसंस्थितिः
॥२५॥गुणानाम् अनुभावेन उद्भवाभिभवौ तथा । तीर्थानाम् अपि वर्णानां वेदानां स्वर्गमोक्षयोः
॥२६॥तादृग्रूपप्रवृत्त्या तु तद् एव च विशिष्यते । कालोऽभिव्यञ्जकः प्रोक्तो देशोऽभिव्यङ्ग्य उच्यते
॥२७॥यदा यदा अभिव्यक्तिं कालो धत्ते तदा तदा । तद् एव व्यञ्जनं ब्रह्मंस् तस्मान् नास्त्य् अत्र संशयः
॥२८॥युगानुरूपा मूर्तिः स्याद् देवानां वैदिकी तथा । कर्मणाम् अपि तीर्थानां जातीनाम् आश्रमस्य तु
॥२९॥त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते । द्विदैवत्यं युगेऽन्यस्मिन् द्वापरे चैकदैविकम्
॥३०॥कलौ न किञ्चिद् विज्ञेयम् अथान्यद् अपि तच् छृणु । दैवं कृतयुगे तीर्थं त्रेतायाम् आसुरं विदुः
॥३१॥आर्षं च द्वापरे प्रोक्तं कलौ मानुषम् उच्यते । अथान्यद् अपि वक्ष्यामि शृणु नारद कारणम्
॥३२॥गौतम्यां यत् त्वया पृष्टं तत् ते वक्ष्यामि विस्तरात् । यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने
॥३३॥तदा प्रभृति सा गङ्गा शम्भोः प्रियतराभवत् । तद् देवस्य मतं ज्ञात्वा गजवक्त्रम् उवाच सा
॥३४॥उमा लोकत्रयेशाना माता च जगतो हिता । शान्ता श्रुतिर् इति ख्याता भुक्तिमुक्तिप्रदायिनी
॥३५॥ब्रह्मोवाच:
तन् मातुर् वचनं श्रुत्वा गजवक्त्रोऽभ्यभाषत
॥३६॥गजवक्त्र उवाच:
किं कृत्यं शाधि मां मातस् तत्कर्ताहम् असंशयम्
॥३७॥ब्रह्मोवाच:
उमा सुतम् उवाचेदं महेश्वरजटास्थिता । त्वयावतार्यतां गङ्गा सत्यम् ईशप्रिया सती
॥३८॥पुनश् चेशस् तत्र चित्रम् अध्यास्ते सर्वदा सुत । शिवो यत्र सुरास् तत्र तत्र वेदाः सनातनाः
॥३९॥तत्रैव ऋषयः सर्वे मनुष्याः पितरस् तथा । तस्मान् निवर्तयेशानं देवदेवं महेश्वरम्
॥४०॥तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि । निवृत्तास् ते भविष्यन्ति शृणु चेदं वचो मम । निवर्तय ततस् तस्याः सर्वभावेन शङ्करम्
॥४१॥ब्रह्मोवाच:
मातुस् तद् वचनं श्रुत्वा पुनर् आह गणेश्वरः
॥४२॥गणेश्वर उवाच:
नैव शक्यः शिवो देवो मया तस्या निवर्तितुम् । अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम्
॥४३॥न शक्या जगतां मातर् अथान्यच् चापि कारणम् । गङ्गावतारिता पूर्वं गौतमेन महात्मना
॥४४॥ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा । सामोपायेन तद्वाक्यात् पूज्येन ब्रह्मतेजसा
॥४५॥आराधयित्वा देवेशं तपोभिः स्तुतिभिर् भवम् । तुष्टेन शङ्करेणेदम् उक्तोऽसौ गौतमस् तदा
॥४६॥शङ्कर उवाच:
वरान् वरय पुण्यांश् च प्रियांश् च मनसेप्सितान् । यद् यद् इच्छसि तत् सर्वं दाता तेऽद्य महामते
॥४७॥ब्रह्मोवाच:
एवम् उक्तः शिवेनासौ गौतमो मयि शृण्वति । इदम् एव तदोवाच सजटां देहि शङ्कर । गङ्गां मे याचते पुण्यां किम् अन्येन वरेण मे
॥४८॥ब्रह्मोवाच:
पुनः प्रोवाच तं शम्भुः सर्वलोकोपकारकः
॥४९॥शम्भुर् उवाच:
उक्तं न चात्मनः किञ्चित् तस्माद् याचस्व दुष्करम्
॥५०॥ब्रह्मोवाच:
गौतमोऽदीनसत्त्वस् तं भवम् आह कृताञ्जलिः
॥५१॥गौतम उवाच:
एतद् एव च सर्वेषां दुष्करं तव दर्शनम् । मया तद् अद्य सम्प्राप्तं कृपया तव शङ्कर
॥५२॥स्मरणाद् एव ते पद्भ्यां कृतकृत्या मनीषिणः । भवन्ति किं पुनः साक्षात् त्वयि दृष्टे महेश्वरे
॥५३॥ब्रह्मोवाच:
एवम् उक्ते गौतमेन भवो हर्षसमन्वितः । त्रयाणाम् उपकारार्थं लोकानां याचितं त्वया
॥५४॥न चात्मनो महाबुद्धे याचेत्य् आह शिवो द्विजम् । एवं प्रोक्तः पुनर् विप्रो ध्यात्वा प्राह शिवं तथा
॥५५॥विनीतवद् अदीनात्मा शिवभक्तिसमन्वितः । सर्वलोकोपकाराय पुनर् याचितवान् इदम् । शृण्वत्सु लोकपालेषु जगादेदं स गौतमः
॥५६॥गौतम उवाच:
यावत् सागरगा देवी निसृष्टा ब्रह्मणो गिरेः । सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज
॥५७॥फलेप्सूनां फलं दाता त्वम् एव जगतः प्रभो । तीर्थान्य् अन्यानि देवेश क्वापि क्वापि शुभानि च
॥५८॥यत्र ते सन्निधिर् नित्यं तद् एव शुभदं विदुः । यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता । सर्वत्र तव सान्निध्यात् सर्वतीर्थानि शङ्कर
॥५९॥ब्रह्मोवाच:
तद् गौतमवचः श्रुत्वा पुनर् हर्षाच् छिवोऽब्रवीत्
॥६०॥शिव उवाच:
यत्र क्वापि च यत् किञ्चिद् यो वा भवति भक्तितः । यात्रां स्नानम् अथो दानं पितॄणां वापि तर्पणम्
॥६१॥श्रवणं पठनं वापि स्मरणं वापि गौतम । यः करोति नरो भक्त्या गोदावर्या यतव्रतः
॥६२॥सप्तद्वीपवती पृथ्वी सशैलवनकानना । सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता
॥६३॥दत्त्वा भवति यो धर्मः स भवेद् गौतमीस्मृतेः । एवंविधा इला विप्र गोदानाद् याभिधीयते
॥६४॥चन्द्रसूर्यग्रहे काले मत्सान्निध्ये यतव्रतः । भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः
॥६५॥गाः सुन्दराः सवत्साश् च सङ्गमे लोकविश्रुते । यो ददाति द्विजश्रेष्ठ तत्र यत् पुण्यम् आप्नुयात्
॥६६॥तस्माद् वरं पुण्यम् एति स्नानदानादिना नरः । गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः
॥६७॥तस्माद् गोदावरी गङ्गा त्वया नीता भविष्यति । सर्वपापक्षयकरी सर्वाभीष्टप्रदायिनी
॥६८॥गणेश्वर उवाच:
एतच् छ्रुतं मया मातर् वदतो गौतमं शिवात् । एतस्मात् कारणाच् छम्भुर् गङ्गायां नियतः स्थितः
॥६९॥को निवर्तयितुं शक्तस् तम् अम्ब करुणोदधिम् । अथापि मातर् एतत् स्यान् मानुषा विघ्नपाशकैः
॥७०॥विनिबद्धा न गच्छन्ति गोदाम् अप्य् अन्तिकस्थिताम् । न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न
॥७१॥तथा मातः करिष्यामि तव सन्तोषहेतवे । सन्निरोद्धुम् अथो क्लेशस् तव वाक्यं क्षमस्व मे
॥७२॥ब्रह्मोवाच:
ततः प्रभृति विघ्नेशो मानुषान् प्रति किञ्चन । विघ्नम् आचरते यस् तु तम् उपास्य प्रवर्तते
॥७३॥अथो विघ्नम् अनादृत्य गौतमीं याति भक्तितः । स कृतार्थो भवेल् लोके न कृत्यम् अवशिष्यते
॥७४॥विघ्नान्य् अनेकानि भवन्ति गेहान् । निर्गन्तुकामस्य नराधमस्य । निधाय तन्मूर्ध्नि पदं प्रयाति । गङ्गां न किं तेन फलं प्रलब्धम्
॥७५॥अस्याः प्रभावं को ब्रूयाद् अपि साक्षात् सदाशिवः । सङ्क्षेपेण मया प्रोक्तम् इतिहासपदानुगम्
॥७६॥धर्मार्थकाममोक्षाणां साधनं यच् चराचरे । तद् अत्र विद्यते सर्वम् इतिहासे सविस्तरे
॥७७॥वेदोदितं श्रुतिसकलरहस्यम् उक्तं । सत्कारणं समभिधानम् इदं सदैव । सम्यक् च दृष्टं जगतां हिताय । प्रोक्तं पुराणं बहुधर्मयुक्तम्
॥७८॥अस्य श्लोकं पदं वापि भक्तितः शृणुयात् पठेत् । गङ्गा गङ्गेति वा वाक्यं स तु पुण्यम् अवाप्नुयात्
॥७९॥कलिकलङ्कविनाशनदक्षम् इदं । सकलसिद्धिकरं शुभदं शिवम् । जगति पूज्यम् अभीष्टफलप्रदं । गाङ्गम् एतद् उदीरितम् उत्तमम्
॥८०॥साधु गौतम भद्रं ते कोऽन्योऽस्ति सदृशस् त्वया । य एनां गौतमीं गङ्गां दण्डकारण्यम् आप्नुयात्
॥८१॥गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैर् अपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
॥८२॥तिस्रः कोट्योऽर्धकोटी च तीर्थानि भुवनत्रये । तानि स्नातुं समायान्ति गङ्गायां सिंहगे गुरौ
॥८३॥षष्टिर् वर्षसहस्राणि भागीरथ्यवगाहनम् । सकृद् गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ
॥८४॥इयं तु गौतमी पुत्र यत्र क्वापि ममाज्ञया । सर्वेषां सर्वदा नॄणां स्नानान् मुक्तिं प्रदास्यति
॥८५॥अश्वमेधसहस्राणि वाजपेयशतानि च । कृत्वा यत् फलम् आप्नोति तद् अस्य श्रवणाद् भवेत्
॥८६॥यस्यैतत् तिष्ठति गृहे पुराणं ब्रह्मणोदितम् । न भयं विद्यते तस्य कलिकालस्य नारद
॥८७॥यस्य कस्यापि नाख्येयं पुराणम् इदम् उत्तमम् । श्रद्दधानाय शान्ताय वैष्णवाय महात्मने
॥८८॥इदं कीर्त्यं भुक्तिमुक्तिदायकं पापनाशकम् । एतच्छ्रवणमात्रेण कृतकृत्यो भवेन् नरः
॥८९॥लिखित्वा पुस्तकम् इदं ब्राह्मणाय प्रयच्छति । सर्वपापविनिर्मुक्तः पुनर् गर्भं न संविशेत्
॥९०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).