अध्यायः १८१
व्यास उवाच:
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । अवतारं हरेश् चात्र भारावतरणेच्छया
॥१॥यदा यदा त्व् अधर्मस्य वृद्धिर् भवति भो द्विजाः । धर्मश् च ह्रासम् अभ्येति तदा देवो जनार्दनः
॥२॥अवतारं करोत्य् अत्र द्विधा कृत्वात्मनस् तनुम् । साधूनां रक्षणार्थाय धर्मसंस्थापनाय च
॥३॥दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् । प्रजानां रक्षणार्थाय जायतेऽसौ युगे युगे
॥४॥पुरा किल मही विप्रा भूरिभारावपीडिता । जगाम धरणी मेरौ समाजे त्रिदिवौकसाम्
॥५॥सब्रह्मकान् सुरान् सर्वान् प्रणिपत्याथ मेदिनी । कथयाम् आस तत् सर्वं खेदात् करुणभाषिणी
॥६॥धरण्य् उवाच:
अग्निः सुवर्णस्य गुरुर् गवां सूर्योऽपरो गुरुः । ममाप्य् अखिललोकानां वन्द्यो नारायणो गुरुः
॥७॥तत्साम्प्रतम् इमे दैत्याः कालनेमिपुरोगमाः । मर्त्यलोकं समागम्य बाधन्तेऽहर्निशं प्रजाः
॥८॥कालनेमिर् हतो योऽसौ विष्णुना प्रभविष्णुना । उग्रसेनसुतः कंसः सम्भूतः सुमहासुरः
॥९॥अरिष्टो धेनुकः केशी प्रलम्बो नरकस् तथा । सुन्दोऽसुरस् तथात्युग्रो बाणश् चापि बलेः सुतः
॥१०॥तथान्ये च महावीर्या नृपाणां भवनेषु ये । समुत्पन्ना दुरात्मानस् तान् न सङ्ख्यातुम् उत्सहे
॥११॥अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः । महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि
॥१२॥तद्भूरिभारपीडार्ता न शक्नोम्य् अमरेश्वराः । विभर्तुम् आत्मानम् अहम् इति विज्ञापयामि वः
॥१३॥क्रियतां तन् महाभागा मम भारावतारणम् । यथा रसातलं नाहं गच्छेयम् अतिविह्वला
॥१४॥व्यास उवाच:
इत्य् आकर्ण्य धरावाक्यम् अशेषैस् त्रिदशैस् ततः । भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः
॥१५॥ब्रह्मोवाच:
यद् आह वसुधा सर्वं सत्यम् एतद् दिवौकसः । अहं भवो भवन्तश् च सर्वं नारायणात्मकम्
॥१६॥विभूतयस् तु यास् तस्य तासाम् एव परस्परम् । आधिक्यं न्यूनता बाध्यबाधकत्वेन वर्तते
॥१७॥तद् आगच्छत गच्छामः क्षीराब्धेस् तटम् उत्तमम् । तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै
॥१८॥सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः । स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम्
॥१९॥व्यास उवाच:
इत्य् उक्त्वा प्रययौ तत्र सह देवैः पितामहः । समाहितमना भूत्वा तुष्टाव गरुडध्वजम्
॥२०॥ब्रह्मोवाच:
नमो नमस् तेऽस्तु सहस्रमूर्ते । सहस्रबाहो बहुवक्त्रपाद । विनाशसंस्थानपराप्रमेय
॥२१॥सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणं । गरीयसाम् अप्य् अतिगौरवात्मन् । मूलापरात्मन् भगवन् प्रसीद
॥२२॥एषा मही देव महीप्रसूतैर् । महासुरैः पीडितशैलबन्धा । परायणं त्वां जगताम् उपैति । भारावतारार्थम् अपारपारम्
॥२३॥एते वयं वृत्ररिपुस् तथायं । नासत्यदस्रौ वरुणस् तथैषः । इमे च रुद्रा वसवः ससूर्याः । समीरणाग्निप्रमुखास् तथान्ये
॥२४॥सुराः समस्ताः सुरनाथ कार्यम् । एभिर् मया यच् च तद् ईश सर्वम् । आज्ञापयाज्ञां प्रतिपालयन्तस् । तवैव तिष्ठाम सदास्तदोषाः
॥२५॥व्यास उवाच:
एवं संस्तूयमानस् तु भगवान् परमेश्वरः । उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः
॥२६॥उवाच च सुरान् एतौ मत्केशौ वसुधातले । अवतीर्य भुवो भारक्लेशहानिं करिष्यतः
॥२७॥सुराश् च सकलाः स्वांशैर् अवतीर्य महीतले । कुर्वन्तु युद्धम् उन्मत्तैः पूर्वोत्पन्नैर् महासुरैः
॥२८॥ततः क्षयम् अशेषास् ते दैतेया धरणीतले । प्रयास्यन्ति न सन्देहो नानायुधविचूर्णिताः
॥२९॥वसुदेवस्य या पत्नी देवकी देवतोपमा । तस्या गर्भोऽष्टमोऽयं तु मत्केशो भविता सुराः
॥३०॥अवतीर्य च तत्रायं कंसं घातयिता भुवि । कालनेमिसमुद्भूतम् इत्य् उक्त्वान्तर्दधे हरिः
॥३१॥अदृश्याय ततस् तेऽपि प्रणिपत्य महात्मने । मेरुपृष्ठं सुरा जग्मुर् अवतेरुश् च भूतले
॥३२॥कंसाय चाष्टमो गर्भो देवक्या धरणीतले । भविष्यतीत्य् आचचक्षे भगवान् नारदो मुनिः
॥३३॥कंसोऽपि तद् उपश्रुत्य नारदात् कुपितस् ततः । देवकीं वसुदेवं च गृहे गुप्ताव् अधारयत्
॥३४॥जातं जातं च कंसाय तेनैवोक्तं यथा पुरा । तथैव वसुदेवोऽपि पुत्रम् अर्पितवान् द्विजाः
॥३५॥हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः । विष्णुप्रयुक्ता तान् निद्रा क्रमाद् गर्भे न्ययोजयत्
॥३६॥योगनिद्रा महामाया वैष्णवी मोहितं यया । अविद्यया जगत् सर्वं ताम् आह भगवान् हरिः
॥३७॥विष्णुर् उवाच:
गच्छ निद्रे ममादेशात् पातालतलसंश्रयान् । एकैकश्येन षड्गर्भान् देवकीजठरे नय
॥३८॥हतेषु तेषु कंसेन शेषाख्योऽंशस् ततोऽनघः । अंशांशेनोदरे तस्याः सप्तमः सम्भविष्यति
॥३९॥गोकुले वसुदेवस्य भार्या वै रोहिणी स्थिता । तस्याः प्रसूतिसमये गर्भो नेयस् त्वयोदरम्
॥४०॥सप्तमो भोजराजस्य भयाद् रोधोपरोधतः । देवक्याः पतितो गर्भ इति लोको वदिष्यति
॥४१॥गर्भसङ्कर्षणात् सोऽथ लोके सङ्कर्षणेति वै । सञ्ज्ञाम् अवाप्स्यते वीरः श्वेताद्रिशिखरोपमः
॥४२॥ततोऽहं सम्भविष्यामि देवकीजठरे शुभे । गर्भे त्वया यशोदाया गन्तव्यम् अविलम्बितम्
॥४३॥प्रावृट्काले च नभसि कृष्णाष्टम्याम् अहं निशि । उत्पत्स्यामि नवम्यां च प्रसूतिं त्वम् अवाप्स्यसि
॥४४॥यशोदाशयने मां तु देवक्यास् त्वाम् अनिन्दिते । मच्छक्तिप्रेरितमतिर् वसुदेवो नयिष्यति
॥४५॥कंसश् च त्वाम् उपादाय देवि शैलशिलातले । प्रक्षेप्स्यत्य् अन्तरिक्षे च त्वं स्थानं समवाप्स्यसि
॥४६॥ततस् त्वां शतधा शक्रः प्रणम्य मम गौरवात् । प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति
॥४७॥ततः शुम्भनिशुम्भादीन् हत्वा दैत्यान् सहस्रशः । स्थानैर् अनेकैः पृथिवीम् अशेषां मण्डयिष्यसि
॥४८॥त्वं भूतिः सन्नतिः कीर्तिः कान्तिर् वै पृथिवी धृतिः । लज्जा पुष्टिर् उषा या च काचिद् अन्या त्वम् एव सा
॥४९॥ये त्वाम् आर्येति दुर्गेति वेदगर्भेऽम्बिकेति च । भद्रेति भद्रकालीति क्षेम्या क्षेमङ्करीति च
॥५०॥प्रातश् चैवापराह्णे च स्तोष्यन्त्य् आनम्रमूर्तयः । तेषां हि वाञ्छितं सर्वं मत्प्रसादाद् भविष्यति
॥५१॥सुरामांसोपहारैस् तु भक्ष्यभोज्यैश् च पूजिता । नृणाम् अशेषकामांस् त्वं प्रसन्नायां प्रदास्यसि
॥५२॥ते सर्वे सर्वदा भद्रा मत्प्रसादाद् असंशयम् । असन्दिग्धं भविष्यन्ति गच्छ देवि यथोदितम्
॥५३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).