अध्यायः १८४
व्यास उवाच:
विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः । प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै
॥१॥वसुदेवोऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् । वार्धकेऽपि समुत्पन्नस् तनयोऽयं तवाधुना
॥२॥दत्तो हि वार्षिकः सर्वो भवद्भिर् नृपतेः करः । यदर्थम् आगतस् तस्मान् नात्र स्थेयं महात्मना
॥३॥यदर्थम् आगतः कार्यं तन् निष्पन्नं किम् आस्यते । भवद्भिर् गम्यतां नन्द तच् छीघ्रं निजगोकुलम्
॥४॥ममापि बालकस् तत्र रोहिणीप्रसवो हि यः । स रक्षणीयो भवता यथायं तनयो निजः
॥५॥व्यास उवाच:
इत्य् उक्ताः प्रययुर् गोपा नन्दगोपपुरोगमाः । शकटारोपितैर् भाण्डैः करं दत्त्वा महाबलाः
॥६॥वसतां गोकुले तेषां पूतना बालघातिनी । सुप्तं कृष्णम् उपादाय रात्रौ च प्रददौ स्तनम्
॥७॥यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति । तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते
॥८॥कृष्णस् तस्याः स्तनं गाढं कराभ्याम् अतिपीडितम् । गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः
॥९॥सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना । पपात पूतना भूमौ म्रियमाणातिभीषणा
॥१०॥तन्नादश्रुतिसन्त्रासाद् विबुद्धास् ते व्रजौकसः । ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम्
॥११॥आदाय कृष्णं सन्त्रस्ता यशोदा च ततो द्विजाः । गोपुच्छभ्रामणाद्यैश् च बालदोषम् अपाकरोत्
॥१२॥गोपुरीषम् उपादाय नन्दगोपोऽपि मस्तके । कृष्णस्य प्रददौ रक्षां कुर्वन्न् इदम् उदैरयत्
॥१३॥नन्दगोप उवाच:
रक्षतु त्वाम् अशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतात् पङ्कजाद् अभवज् जगत्
॥१४॥येन दंष्ट्राग्रविधृता धारयत्य् अवनी जगत् । वराहरूपधृग् देवः स त्वां रक्षतु केशवः
॥१५॥गुह्यं स जठरं विष्णुर् जङ्घापादौ जनार्दनः । वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत्
॥१६॥त्रिविक्रमक्रमाक्रान्तत्रैलोक्यस्फुरदायुधः । शिरस् ते पातु गोविन्दः कण्ठं रक्षतु केशवः
॥१७॥मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च । रक्षत्व् अव्याहतैश्वर्यस् तव नारायणोऽव्ययः
॥१८॥त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः । हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः
॥१९॥व्यास उवाच:
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । शायितः शकटस्याधो बालपर्यङ्किकातले
॥२०॥ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम् । मृतायाः परमं त्रासं विस्मयं च तदा ययुः
॥२१॥कदाचिच् छकटस्याधः शयानो मधुसूदनः । चिक्षेप चरणाव् ऊर्ध्वं स्तनार्थी प्ररुरोद च
॥२२॥तस्य पादप्रहारेण शकटं परिवर्तितम् । विध्वस्तभाण्डकुम्भं तद् विपरीतं पपात वै
॥२३॥ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः । आजगाम तदा ज्ञात्वा बालम् उत्तानशायिनम्
॥२४॥गोपाः केनेति जगदुः शकटं परिवर्तितम् । तत्रैव बालकाः प्रोचुर् बालेनानेन पातितम्
॥२५॥रुदता दृष्टम् अस्माभिः पादविक्षेपताडितम् । शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम्
॥२६॥ततः पुनर् अतीवासन् गोपा विस्मितचेतसः । नन्दगोपोऽपि जग्राह बालम् अत्यन्तविस्मितः
॥२७॥यशोदा विस्मयारूढा भग्नभाण्डकपालकम् । शकटं चार्चयाम् आस दधिपुष्पफलाक्षतैः
॥२८॥गर्गश् च गोकुले तत्र वसुदेवप्रचोदितः । प्रच्छन्न एव गोपानां संस्कारम् अकरोत् तयोः
॥२९॥ज्येष्ठं च रामम् इत्य् आह कृष्णं चैव तथापरम् । गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः
॥३०॥अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ । घृष्टजानुकरौ विप्रा बभूवतुर् उभाव् अपि
॥३१॥करीषभस्मदिग्धाङ्गौ भ्रममाणाव् इतस् ततः । न निवारयितुं शक्ता यशोदा तौ न रोहिणी
॥३२॥गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः । तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ
॥३३॥यदा यशोदा तौ बालाव् एकस्थानचराव् उभौ । शशाक नो वारयितुं क्रीडन्ताव् अतिचञ्चलौ
॥३४॥दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले । कृष्णम् अक्लिष्टकर्माणम् आह चेदम् अमर्षिता
॥३५॥यशोदोवाच:
यदि शक्तोऽसि गच्छ त्वम् अतिचञ्चलचेष्टित
॥३६॥व्यास उवाच:
इत्य् उक्त्वा च निजं कर्म सा चकार कुटुम्बिनी । व्यग्रायाम् अथ तस्यां स कर्षमाण उलूखलम्
॥३७॥यमलार्जुनयोर् मध्ये जगाम कमलेक्षणः । कर्षता वृक्षयोर् मध्ये तिर्यग् एवम् उलूखलम्
॥३८॥भग्नाव् उत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ । ततः कटकटाशब्दसमाकर्णनकातरः
॥३९॥आजगाम व्रजजनो ददृशे च महाद्रुमौ । भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले
॥४०॥ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम् । तयोर् मध्यगतं बद्धं दाम्ना गाढं तथोदरे
॥४१॥ततश् च दामोदरतां स ययौ दामबन्धनात् । गोपवृद्धास् ततः सर्वे नन्दगोपपुरोगमाः
॥४२॥मन्त्रयाम् आसुर् उद्विग्ना महोत्पातातिभीरवः । स्थानेनेह न नः कार्यं व्रजामोऽन्यन् महावनम्
॥४३॥उत्पाता बहवो ह्य् अत्र दृश्यन्ते नाशहेतवः । पूतनाया विनाशश् च शकटस्य विपर्ययः
॥४४॥विना वातादिदोषेण द्रुमयोः पतनं तथा । वृन्दावनम् इतः स्थानात् तस्माद् गच्छाम मा चिरम्
॥४५॥यावद् भौममहोत्पातदोषो नाभिभवेद् व्रजम् । इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः
॥४६॥ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् । ततः क्षणेन प्रययुः शकटैर् गोधनैस् तथा
॥४७॥यूथशो वत्सपालीश् च कालयन्तो व्रजौकसः । सर्वावयवनिर्धूतं क्षणमात्रेण तत् तदा
॥४८॥काककाकीसमाकीर्णं व्रजस्थानम् अभूद् द्विजाः । वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा
॥४९॥शुभेन मनसा ध्यातं गवां वृद्धिम् अभीप्सता । ततस् तत्रातिरुक्षेऽपि धर्मकाले द्विजोत्तमाः
॥५०॥प्रावृट्काल इवाभूच् च नवशष्पं समन्ततः । स समावासितः सर्वो व्रजो वृन्दावने ततः
॥५१॥शकटीवाटपर्यन्तचन्द्रार्धाकारसंस्थितिः । वत्सबालौ च संवृत्तौ रामदामोदरौ ततः
॥५२॥तत्र स्थितौ तौ च गोष्ठे चेरतुर् बाललीलया । बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ
॥५३॥गोपवेणुकृतातोद्यपत्त्रवाद्यकृतस्वनौ । काकपक्षधरौ बालौ कुमाराव् इव पावकौ
॥५४॥हसन्तौ च रमन्तौ च चेरतुस् तन् महद् वनम् । क्वचिद् धसन्ताव् अन्योन्यं क्रीडमानौ तथा परैः
॥५५॥गोपपुत्रैः समं वत्सांश् चारयन्तौ विचेरतुः । कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः
॥५६॥सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे । प्रावृट्कालस् ततोऽतीव मेघौघस्थगिताम्बरः
॥५७॥बभूव वारिधाराभिर् ऐक्यं कुर्वन् दिशाम् इव । प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही
॥५८॥यथा मारकते वासीत् पद्मरागविभूषिता । ऊहुर् उन्मार्गगामीनि निम्नगाम्भांसि सर्वतः
॥५९॥मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवाम् इव । विकाले च यथाकामं व्रजम् एत्य महाबलौ । गोपैः समानैः सहितौ चिक्रीडातेऽमराव् इव
॥६०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).