मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १८७

3
ब्रह्मपुराणम् · 187

अध्यायः १८७

व्यास उवाच:

तस्मिन् रासभदैतेये सानुजे विनिपातिते । सर्वगोपालगोपीनां रम्यं तालवनं बभौ

॥१॥

ततस् तौ जातहर्षौ तु वसुदेवसुताव् उभौ । शुशुभाते महात्मानौ बालशृङ्गाव् इवर्षभौ

॥२॥

चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः । नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ

॥३॥

सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ । महेन्द्रायुधसङ्काशौ श्वेतकृष्णाव् इवाम्बुदौ

॥४॥

चेरतुर् लोकसिद्धाभिः क्रीडाभिर् इतरेतरम् । समस्तलोकनाथानां नाथभूतौ भुवं गतौ

॥५॥

मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । तज्जातिगुणयुक्ताभिः क्रीडाभिश् चेरतुर् वनम्

॥६॥

ततस् त्व् आन्दोलिकाभिश् च नियुद्धैश् च महाबलौ । व्यायामं चक्रतुस् तत्र क्षेपणीयैस् तथाश्मभिः

॥७॥

तल्लिप्सुर् असुरस् तत्र उभयो रममाणयोः । आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः

॥८॥

सोऽवगाहत निःशङ्कं तेषां मध्यममानुषः । मानुषं रूपम् आस्थाय प्रलम्बो दानवोत्तमः

॥९॥

तयोश् छिद्रान्तरप्रेप्सुर् अतिशीघ्रम् अमन्यत । कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम्

॥१०॥

हरिणा क्रीडनं नाम बालक्रीडनकं ततः । प्रक्रीडितास् तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन्

॥११॥

श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः । गोपालैर् अपरैश् चान्ये गोपालाः सह पुप्लुवुः

॥१२॥

श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः । जितवान् कृष्णपक्षीयैर् गोपैर् अन्यैः पराजिताः

॥१३॥

ते वाहयन्तस् त्व् अन्योन्यं भाण्डीरस्कन्धम् एत्य वै । पुनर् निवृत्तास् ते सर्वे ये ये तत्र पराजिताः

॥१४॥

सङ्कर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः । न तस्थौ प्रजगामैव सचन्द्र इव वारिदः

॥१५॥

अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः । ववृधे सुमहाकायः प्रावृषीव बलाहकः

॥१६॥

सङ्कर्षणस् तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम्

॥१७॥

रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् । ह्रियमाणस् ततः कृष्णम् इदं वचनम् अब्रवीत्

॥१८॥

बलराम उवाच:

कृष्ण कृष्ण ह्रिये त्व् एष पर्वतोदग्रमूर्तिना । केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा

॥१९॥

यद् अत्र साम्प्रतं कार्यं मया मधुनिषूदन । तत् कथ्यतां प्रयात्य् एष दुरात्मातित्वरान्वितः

॥२०॥

व्यास उवाच:

तम् आह रामं गोविन्दः स्मितभिन्नौष्ठसम्पुटः । महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित्

॥२१॥

कृष्ण उवाच:

किम् अयं मानुषो भावो व्यक्तम् एवावलम्ब्यते । सर्वात्मन् सर्वगुह्यानां गुह्याद् गुह्यात्मना त्वया

॥२२॥

स्मराशेषजगदीश कारणं कारणाग्रज । आत्मानम् एकं तद्वच् च जगत्य् एकार्णवे च यः

॥२३॥

भवान् अहं च विश्वात्मन्न् एकम् एव हि कारणम् । जगतोऽस्य जगत्य् अर्थे भेदेनावां व्यवस्थितौ

॥२४॥

तत् स्मर्यताम् अमेयात्मंस् त्वयात्मा जहि दानवम् । मानुष्यम् एवम् आलम्ब्य बन्धूनां क्रियतां हितम्

॥२५॥

व्यास उवाच:

इति संस्मारितो विप्राः कृष्णेन सुमहात्मना । विहस्य पीडयाम् आस प्रलम्बं बलवान् बलः

॥२६॥

मुष्टिना चाहन् मूर्ध्नि कोपसंरक्तलोचनः । तेन चास्य प्रहारेण बहिर् याते विलोचने

॥२७॥

स निष्कासितमस्तिष्को मुखाच् छोणितम् उद्वमन् । निपपात महीपृष्ठे दैत्यवर्यो ममार च

॥२८॥

प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा । प्रहृष्टास् तुष्टुवुर् गोपाः साधु साध्व् इति चाब्रुवन्

॥२९॥

संस्तूयमानो रामस् तु गोपैर् दैत्ये निपातिते । प्रलम्बे सह कृष्णेन पुनर् गोकुलम् आययौ

॥३०॥

व्यास उवाच:

तयोर् विहरतोर् एवं रामकेशवयोर् व्रजे । प्रावृड्व्यतीता विकसत्सरोजा चाभवच् छरत्

॥३१॥

विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम् । ददर्शेन्द्रोत्सवारम्भप्रवृत्तान् व्रजवासिनः

॥३२॥

कृष्णस् तान् उत्सुकान् दृष्ट्वा गोपान् उत्सवलालसान् । कौतूहलाद् इदं वाक्यं प्राह वृद्धान् महामतिः

॥३३॥

कृष्ण उवाच:

कोऽयं शक्रमहो नाम येन वो हर्ष आगतः । प्राह तं नन्दगोपश् च पृच्छन्तम् अतिसादरम्

॥३४॥

नन्द उवाच:

मेघानां पयसाम् ईशो देवराजः शतक्रतुः । येन सञ्चोदिता मेघा वर्षन्त्य् अम्बुमयं रसम्

॥३५॥

तद्वृष्टिजनितं सस्यं वयम् अन्ये च देहिनः । वर्तयामोपभुञ्जानास् तर्पयामश् च देवताः

॥३६॥

क्षीरवत्य इमा गावो वत्सवत्यश् च निर्वृताः । तेन संवर्धितैः सस्यैः पुष्टास् तुष्टा भवन्ति वै

॥३७॥

नासस्या नानृणा भूमिर् न बुभुक्षार्दितो जनः । दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः

॥३८॥

भौमम् एतत् पयो गोभिर् धत्ते सूर्यस्य वारिदः । पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति

॥३९॥

तस्मात् प्रावृषि राजानः शक्रं सर्वे मुदान्विताः । महे सुरेशम् अर्घन्ति वयम् अन्ये च देहिनः

॥४०॥

व्यास उवाच:

नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस् तदा

॥४१॥

कृष्ण उवाच:

न वयं कृषिकर्तारो वणिज्याजीविनो न च । गावोऽस्मद्दैवतं तात वयं वनचरा यतः

॥४२॥

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस् तथापरा । विद्याचतुष्टयं त्व् एतद् वार्त्ताम् अत्र शृणुष्व मे

॥४३॥

कृषिर् वणिज्या तद्वच् च तृतीयं पशुपालनम् । विद्या ह्य् एता महाभागा वार्त्ता वृत्तित्रयाश्रया

॥४४॥

कर्षकाणां कृषिर् वृत्तिः पण्यं तु पणजीविनाम् । अस्माकं गाः परा वृत्तिर् वार्त्ता भेदैर् इयं त्रिभिः

॥४५॥

विद्यया यो यया युक्तस् तस्य सा दैवतं महत् । सैव पूज्यार्चनीया च सैव तस्योपकारिका

॥४६॥

योऽन्यस्याः फलम् अश्नन् वै पूजयत्य् अपरां नरः । इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम्

॥४७॥

पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर् वनम् । वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः

॥४८॥

गिरियज्ञस् त्व् अयं तस्माद् गोयज्ञश् च प्रवर्त्यताम् । किम् अस्माकं महेन्द्रेण गावः शैलाश् च देवताः

॥४९॥

मन्त्रयज्ञपरा विप्राः सीरयज्ञाश् च कर्षकाः । गिरिगोयज्ञशीलाश् च वयम् अद्रिवनाश्रयाः

॥५०॥

तस्माद् गोवर्धनः शैलो भवद्भिर् विविधार्हणैः । अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः

॥५१॥

सर्वघोषस्य सन्दोहा गृह्यन्तां मा विचार्यताम् । भोज्यन्तां तेन वै विप्रास् तथान्ये चापि वाञ्छकाः

॥५२॥

तम् अर्चितं कृते होमे भोजितेषु द्विजातिषु । शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः

॥५३॥

एतन् मम मतं गोपाः सम्प्रीत्या क्रियते यदि । ततः कृता भवेत् प्रीतिर् गवाम् अद्रेस् तथा मम

॥५४॥

व्यास उवाच:

इति तस्य वचः श्रुत्वा नन्दाद्यास् ते व्रजौकसः । प्रीत्युत्फुल्लमुखा विप्राः साधु साध्व् इत्य् अथाब्रुवन्

॥५५॥

शोभनं ते मतं वत्स यद् एतद् भवतोदितम् । तत् करिष्याम्य् अहं सर्वं गिरियज्ञः प्रवर्त्यताम्

॥५६॥

तथा च कृतवन्तस् ते गिरियज्ञं व्रजौकसः । दधिपायसमांसाद्यैर् ददुः शैलबलिं ततः

॥५७॥

द्विजांश् च भोजयाम् आसुः शतशोऽथ सहस्रशः । गावः शैलं ततश् चक्रुर् अर्चितास् तं प्रदक्षिणम्

॥५८॥

वृषभाश् चाभिनर्दन्तः सतोया जलदा इव । गिरिमूर्धनि गोविन्दः शैलोऽहम् इति मूर्तिमान्

॥५९॥

बुभुजेऽन्नं बहुविधं गोपवर्याहृतं द्विजाः । कृष्णस् तेनैव रूपेण गोपैः सह गिरेः शिरः

॥६०॥

अधिरुह्यार्चयाम् आस द्वितीयाम् आत्मनस् तनुम् । अन्तर्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् । कृत्वा गिरिमहं गोष्ठं निजम् अभ्याययुः पुनः

॥६१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).