मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १८९

3
ब्रह्मपुराणम् · 189

अध्यायः १८९

व्यास उवाच:

गते शक्रे तु गोपालाः कृष्णम् अक्लिष्टकारिणम् । ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम्

॥१॥

गोपा ऊचुः:

वयम् अस्मान् महाभाग भवता महतो भयात् । गावश् च भवता त्राता गिरिधारणकर्मणा

॥२॥

बालक्रीडेयम् अतुला गोपालत्वं जुगुप्सितम् । दिव्यं च कर्म भवतः किम् एतत् तात कथ्यताम्

॥३॥

कालियो दमितस् तोये प्रलम्बो विनिपातितः । धृतो गोवर्धनश् चायं शङ्कितानि मनांसि नः

॥४॥

सत्यं सत्यं हरेः पादौ श्रयामोऽमितविक्रम । यथा त्वद्वीर्यम् आलोक्य न त्वां मन्यामहे नरम्

॥५॥

देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा । किं चास्माकं विचारेण बान्धवोऽस्ति नमोऽस्तु ते

॥६॥

प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव । कर्म चेदम् अशक्यं यत् समस्तैस् त्रिदशैर् अपि

॥७॥

बालत्वं चातिवीर्यं च जन्म चास्मास्व् अशोभनम् । चिन्त्यमानम् अमेयात्मञ् शङ्कां कृष्ण प्रयच्छति

॥८॥

व्यास उवाच:

क्षणं भूत्वा त्व् असौ तूष्णीं किञ्चित् प्रणयकोपवान् । इत्य् एवम् उक्तस् तैर् गोपैर् आह कृष्णो द्विजोत्तमाः

॥९॥

श्रीकृष्ण उवाच:

मत्सम्बन्धेन वो गोपा यदि लज्जा न जायते । श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम्

॥१०॥

यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि । तद् अर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि

॥११॥

नाहं देवो न गन्धर्वो न यक्षो न च दानवः । अहं वो बान्धवो जातो नातश् चिन्त्यम् अतोऽन्यथा

॥१२॥

व्यास उवाच:

इति श्रुत्वा हरेर् वाक्यं बद्धमौनास् ततो बलम् । ययुर् गोपा महाभागास् तस्मिन् प्रणयकोपिनि

॥१३॥

कृष्णस् तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् । तथा कुमुदिनीं फुल्लाम् आमोदितदिगन्तराम्

॥१४॥

वनराजीं तथा कूजद्भृङ्गमालामनोरमाम् । विलोक्य सह गोपीभिर् मनश् चक्रे रतिं प्रति

॥१५॥

सह रामेण मधुरम् अतीव वनिताप्रियम् । जगौ कमलपादोऽसौ नाम तत्र कृतव्रतः

॥१६॥

रम्यं गीतध्वनिं श्रुत्वा सन्त्यज्यावसथांस् तदा । आजग्मुस् त्वरिता गोप्यो यत्रास्ते मधुसूदनः

॥१७॥

शनैः शनैर् जगौ गोपी काचित् तस्य पदानुगा । दत्तावधाना काचिच् च तम् एव मनसास्मरत्

॥१८॥

काचित् कृष्णेति कृष्णेति चोक्त्वा लज्जाम् उपाययौ । ययौ च काचित् प्रेमान्धा तत्पार्श्वम् अविलज्जिता

॥१९॥

काचिद् आवसथस्यान्तः स्थित्वा दृष्ट्वा बहिर् गुरुम् । तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना

॥२०॥

गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् । मानयाम् आस गोविन्दो रासारम्भरसोत्सुकः

॥२१॥

गोप्यश् च वृन्दशः कृष्णचेष्टाभ्यायत्तमूर्तयः । अन्यदेशगते कृष्णे चेरुर् वृन्दावनान्तरम्

॥२२॥

बभ्रमुस् तास् ततो गोप्यः कृष्णदर्शनलालसाः । कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः

॥२३॥

एवं नानाप्रकारासु कृष्णचेष्टासु तासु च । गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम्

॥२४॥

निवृत्तास् तास् ततो गोप्यो निराशाः कृष्णदर्शने । यमुनातीरम् आगम्य जगुस् तच्चरितं द्विजाः

॥२५॥

ततो ददृशुर् आयान्तं विकाशिमुखपङ्कजम् । गोप्यस् त्रैलोक्यगोप्तारं कृष्णम् अक्लिष्टकारिणम्

॥२६॥

काचिद् आलोक्य गोविन्दम् आयान्तम् अतिहर्षिता । कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना

॥२७॥

काचिद् भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् । विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम्

॥२८॥

काचिद् आलोक्य गोविन्दं निमीलितविलोचना । तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ

॥२९॥

ततः काञ्चित् प्रियालापैः काञ्चिद् भ्रूभङ्गवीक्षितैः । निन्येऽनुनयम् अन्याश् च करस्पर्शेन माधवः

॥३०॥

ताभिः प्रसन्नचित्ताभिर् गोपीभिः सह सादरम् । रराम रासगोष्ठीभिर् उदारचरितो हरिः

॥३१॥

रासमण्डलबद्धोऽपि कृष्णपार्श्वम् अनूद्गता । गोपीजनो न चैवाभूद् एकस्थानस्थिरात्मना

॥३२॥

हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डलम् । चकार च करस्पर्शनिमीलितदृशं हरिः

॥३३॥

ततः प्रववृते रम्या चलद्वलयनिस्वनैः । अनुयातशरत्काव्यगेयगीतिर् अनुक्रमाम्

॥३४॥

कृष्णः शरच्चन्द्रमसं कौमुदीकुमुदाकरम् । जगौ गोपीजनस् त्व् एकं कृष्णनाम पुनः पुनः

॥३५॥

परिवृत्ता श्रमेणैका चलद्वलयतापिनी । ददौ बाहुलतां स्कन्धे गोपी मधुविघातिनः

॥३६॥

काचित् प्रविलसद्बाहुः परिरभ्य चुचुम्ब तम् । गोपी गीतस्तुतिव्याजनिपुणा मधुसूदनम्

॥३७॥

गोपीकपोलसंश्लेषम् अभिपद्य हरेर् भुजौ । पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ

॥३८॥

रासगेयं जगौ कृष्णो यावत् तारतरध्वनिः । साधु कृष्णेति कृष्णेति तावत् ता द्विगुणं जगुः

॥३९॥

गतेऽनुगमनं चक्रुर् वलने सम्मुखं ययुः । प्रतिलोमानुलोमेन भेजुर् गोपाङ्गना हरिम्

॥४०॥

स तदा सह गोपीभी रराम मधुसूदनः । स वर्षकोटिप्रतिमः क्षणस् तेन विनाभवत्

॥४१॥

ता वार्यमाणाः पितृभिः पतिभिर् भ्रातृभिस् तथा । कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः

॥४२॥

सोऽपि कैशोरकवया मानयन् मधुसूदनः । रेमे ताभिर् अमेयात्मा क्षपासु क्षपिताहितः

॥४३॥

तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः । आत्मस्वरूपरूपोऽसौ व्याप्य सर्वम् अवस्थितः

॥४४॥

यथा समस्तभूतेषु नभोऽग्निः पृथिवी जलम् । वायुश् चात्मा तथैवासौ व्याप्य सर्वम् अवस्थितः

॥४५॥

व्यास उवाच:

प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने । त्रासयन् समदो गोष्ठान् अरिष्टः समुपागतः

॥४६॥

सतोयतोयदाकारस् तीक्ष्णशृङ्गोऽर्कलोचनः । खुराग्रपातैर् अत्यर्थं दारयन् धरणीतलम्

॥४७॥

लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः । संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः

॥४८॥

उदग्रककुदाभोगः प्रमाणाद् दुरतिक्रमः । विण्मूत्रालिप्तपृष्ठाङ्गो गवाम् उद्वेगकारकः

॥४९॥

प्रलम्बकण्ठोऽभिमुखस् तरुघाताङ्किताननः । पातयन् स गवां गर्भान् दैत्यो वृषभरूपधृक्

॥५०॥

सूदयंस् तरसा सर्वान् वनान्य् अटति यः सदा । ततस् तम् अतिघोराक्षम् अवेक्ष्यातिभयातुराः

॥५१॥

गोपा गोपस्त्रियश् चैव कृष्ण कृष्णेति चुक्रुशुः । सिंहनादं ततश् चक्रे तलशब्दं च केशवः

॥५२॥

तच्छब्दश्रवणाच् चासौ दामोदरमुखं ययौ । अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः

॥५३॥

अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् । आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम्

॥५४॥

न चचाल ततः स्थानाद् अवज्ञास्मितलीलया । आसन्नं चैव जग्राह ग्राहवन् मधुसूदनः

॥५५॥

जघान जानुना कुक्षौ विषाणग्रहणाचलम् । तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः

॥५६॥

आपीडयद् अरिष्टस्य कण्ठं क्लिन्नम् इवाम्बरम् । उत्पाट्य शृङ्गम् एकं च तेनैवाताडयत् ततः

॥५७॥

ममार स महादैत्यो मुखाच् छोणितम् उद्वमन् । तुष्टुवुर् निहते तस्मिन् गोपा दैत्ये जनार्दनम् । जम्भे हते सहस्राक्षं पुरा देवगणा यथा

॥५८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).