मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १९३

3
ब्रह्मपुराणम् · 193

अध्यायः १९३

व्यास उवाच:

राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् । ददर्श कुब्जाम् आयान्तीं नवयौवनगोचराम्

॥१॥

ताम् आह ललितं कृष्णः कस्येदम् अनुलेपनम् । भवत्या नीयते सत्यं वदेन्दीवरलोचने

॥२॥

सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति । प्राह सा ललितं कुब्जा ददर्श च बलात् ततः

॥३॥

कुब्जोवाच:

कान्त कस्मान् न जानासि कंसेनापि नियोजिता । नैकवक्रेति विख्याताम् अनुलेपनकर्मणि

॥४॥

नान्यपिष्टं हि कंसस्य प्रीतये ह्य् अनुलेपनम् । भवत्य् अहम् अतीवास्य प्रसादधनभाजनम्

॥५॥

श्रीकृष्ण उवाच:

सुगन्धम् एतद् राजार्हं रुचिरं रुचिरानने । आवयोर् गात्रसदृशं दीयताम् अनुलेपनम्

॥६॥

व्यास उवाच:

श्रुत्वा तम् आह सा कृष्णं गृह्यताम् इति सादरम् । अनुलेपं च प्रददौ गात्रयोग्यम् अथोभयोः

॥७॥

भक्तिच्छेदानुलिप्ताङ्गौ ततस् तौ पुरुषर्षभौ । सेन्द्रचापौ विराजन्तौ सितकृष्णाव् इवाम्बुदौ

॥८॥

ततस् तां चिबुके शौरिर् उल्लापनविधानवित् । उल्लाप्य तोलयाम् आस द्व्यङ्गुलेनाग्रपाणिना

॥९॥

चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् । ततः सा ऋजुतां प्राप्ता योषिताम् अभवद् वरा

॥१०॥

विलासललितं प्राह प्रेमगर्भभरालसम् । वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै

॥११॥

आयास्ये भवतीगेहम् इति तां प्राह केशवः । विससर्ज जहासोच्चै रामस्यालोक्य चाननम्

॥१२॥

भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बराव् उभौ । धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ

॥१३॥

अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस् तु रक्षिभिः । आख्यातं सहसा कृष्णो गृहीत्वापूरयद् धनुः

॥१४॥

ततः पूरयता तेन भज्यमानं बलाद् धनुः । चकारातिमहाशब्दं मथुरा तेन पूरिता

॥१५॥

अनुयुक्तौ ततस् तौ च भग्ने धनुषि रक्षिभिः । रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात्

॥१६॥

अक्रूरागमवृत्तान्तम् उपलभ्य तथा धनुः । भग्नं श्रुत्वाथ कंसोऽपि प्राह चाणूरमुष्टिकौ

॥१७॥

कंस उवाच:

गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः । मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ

॥१८॥

नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्य् अहम् । दास्याम्य् अभिमतान् कामान् नान्यथैतन् महाबलौ

॥१९॥

न्यायतोऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ । हन्तव्यौ तद्वधाद् राज्यं सामान्यं वो भविष्यति

॥२०॥

व्यास उवाच:

इत्य् आदिश्य स तौ मल्लौ ततश् चाहूय हस्तिपम् । प्रोवाचोच्चैस् त्वया मत्तः समाजद्वारि कुञ्जरः

॥२१॥

स्थाप्यः कुवलयापीडस् तेन तौ गोपदारकौ । घातनीयौ नियुद्धाय रङ्गद्वारम् उपागतौ

॥२२॥

तम् आज्ञाप्याथ दृष्ट्वा च मञ्चान् सर्वान् उपाहृतान् । आसन्नमरणः कंसः सूर्योदयम् उदैक्षत

॥२३॥

ततः समस्तमञ्चेषु नागरः स तदा जनः । राजमञ्चेषु चारूढाः सह भृत्यैर् महीभृतः

॥२४॥

मल्लप्राश्निकवर्गश् च रङ्गमध्ये समीपगः । कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः

॥२५॥

अन्तःपुराणां मञ्चाश् च यथान्ये परिकल्पिताः । अन्ये च वारमुख्यानाम् अन्ये नगरयोषिताम्

॥२६॥

नन्दगोपादयो गोपा मञ्चेष्व् अन्येष्व् अवस्थिताः । अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ

॥२७॥

नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी । अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता

॥२८॥

वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति । हाहाकारपरे लोक आस्फोटयति मुष्टिके

॥२९॥

हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् । मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ

॥३०॥

मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ । प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ

॥३१॥

हाहाकारो महाञ् जज्ञे सर्वरङ्गेष्व् अनन्तरम् । कृष्णोऽयं बलभद्रोऽयम् इति लोकस्य विस्मयात्

॥३२॥

सोऽयं येन हता घोरा पूतना सा निशाचरी । प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ

॥३३॥

सोऽयं यः कालियं नागं ननर्तारुह्य बालकः । धृतो गोवर्धनो येन सप्तरात्रं महागिरिः

॥३४॥

अरिष्टो धेनुकः केशी लीलयैव महात्मना । हतो येन च दुर्वृत्तो दृश्यते सोऽयम् अच्युतः

॥३५॥

अयं चास्य महाबाहुर् बलदेवोऽग्रजोऽग्रतः । प्रयाति लीलया योषिन्मनोनयननन्दनः

॥३६॥

अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः । गोपालो यादवं वंशं मग्नम् अभ्युद्धरिष्यति

॥३७॥

अयं स सर्वभूतस्य विष्णोर् अखिलजन्मनः । अवतीर्णो महीम् अंशो नूनं भारहरो भुवः

॥३८॥

इत्य् एवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् । उरस् तताप देवक्याः स्नेहस्नुतपयोधरम्

॥३९॥

महोत्सवम् इवालोक्य पुत्राव् एव विलोकयन् । युवेव वसुदेवोऽभूद् विहायाभ्यागतां जराम्

॥४०॥

विस्तारिताक्षियुगला राजान्तःपुरयोषितः । नागरस्त्रीसमूहश् च द्रष्टुं न विरराम तौ

॥४१॥

स्त्रिय ऊचुः:

सख्यः पश्यत कृष्णस्य मुखम् अप्य् अम्बुजेक्षणम् । गजयुद्धकृतायासस्वेदाम्बुकणिकाञ्चितम्

॥४२॥

विकासीव सरोम्भोजम् अवश्यायजलोक्षितम् । परिभूताक्षरं जन्म सफलं क्रियतां दृशः

॥४३॥

श्रीवत्साङ्कं जगद्धाम बालस्यैतद् विलोक्यताम् । विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि

॥४४॥

वल्गता मुष्टिकेनैव चाणूरेण तथा परैः । क्रियते बलभद्रस्य हास्यम् ईषद् विलोक्यताम्

॥४५॥

सख्यः पश्यत चाणूरं नियुद्धार्थम् अयं हरिः । समुपैति न सन्त्य् अत्र किं वृद्धा युक्तकारिणः

॥४६॥

क्व यौवनोन्मुखीभूतः सुकुमारतनुर् हरिः । क्व वज्रकठिनाभोगशरीरोऽयं महासुरः

॥४७॥

इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ । दैतेयमल्लाश् चाणूरप्रमुखास् त्व् अतिदारुणाः

॥४८॥

नियुद्धप्राश्निकानां तु महान् एष व्यतिक्रमः । यद् बालबलिनोर् युद्धं मध्यस्थैः समुपेक्ष्यते

॥४९॥

व्यास उवाच:

इत्थं पुरस्त्रीलोकस्य वदतश् चालयन् भुवम् । ववर्ष हर्षोत्कर्षं च जनस्य भगवान् हरिः

॥५०॥

बलभद्रोऽपि चास्फोट्य ववल्ग ललितं यदा । पदे पदे तदा भूमिर् न शीर्णा यत् तद् अद्भुतम्

॥५१॥

चाणूरेण ततः कृष्णो युयुधेऽमितविक्रमः । नियुद्धकुशलो दैत्यो बलदेवेन मुष्टिकः

॥५२॥

सन्निपातावधूतैश् च चाणूरेण समं हरिः । क्षेपणैर् मुष्टिभिश् चैव कीलावज्रनिपातनैः

॥५३॥

पादोद्भूतैः प्रमृष्टाभिस् तयोर् युद्धम् अभून् महत् । अशस्त्रम् अतिघोरं तत् तयोर् युद्धं सुदारुणम्

॥५४॥

स्वबलप्राणनिष्पाद्यं समाजोत्सवसन्निधौ । यावद् यावच् च चाणूरो युयुधे हरिणा सह

॥५५॥

प्राणहानिम् अवापाग्र्यां तावत् तावन् न बान्धवम् । कृष्णोऽपि युयुधे तेन लीलयैव जगन्मयः

॥५६॥

खेदाच् चालयता कोपान् निजशेषकरे करम् । बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः

॥५७॥

वारयाम् आस तूर्याणि कंसः कोपपरायणः । मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात्

॥५८॥

खसङ्गतान्य् अवाद्यन्त दैवतूर्याण्य् अनेकशः । जय गोविन्द चाणूरं जहि केशव दानवम्

॥५९॥

इत्य् अन्तर्धिगता देवास् तुष्टुवुस् ते प्रहर्षिताः । चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः

॥६०॥

उत्पाट्य भ्रामयाम् आस तद्वधाय कृतोद्यमः । भ्रामयित्वा शतगुणं दैत्यमल्लम् अमित्रजित्

॥६१॥

भूमाव् आस्फोटयाम् आस गगने गतजीवितम् । भूमाव् आस्फोटितस् तेन चाणूरः शतधा भवन्

॥६२॥

रक्तस्रावमहापङ्कां चकार स तदा भुवम् । बलदेवस् तु तत्कालं मुष्टिकेन महाबलः

॥६३॥

युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः । सोऽप्य् एनं मुष्टिना मूर्ध्नि वक्षस्य् आहत्य जानुना

॥६४॥

पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् । कृष्णस् तोशलकं भूयो मल्लराजं महाबलम्

॥६५॥

वाममुष्टिप्रहारेण पातयाम् आस भूतले । चाणूरे निहते मल्ले मुष्टिके च निपातिते

॥६६॥

नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः । ववल्गतुस् तदा रङ्गे कृष्णसङ्कर्षणाव् उभौ

॥६७॥

समानवयसो गोपान् बलाद् आकृष्य हर्षितौ । कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर् व्यायतान् नरान्

॥६८॥

गोपाव् एतौ समाजौघान् निष्क्रम्येतां बलाद् इतः । नन्दोऽपि गृह्यतां पापो निगडैर् आशु बध्यताम्

॥६९॥

अवृद्धार्हेण दण्डेन वसुदेवोऽपि वध्यताम् । वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः

॥७०॥

गावो ह्रियन्ताम् एषां च यच् चास्ति वसु किञ्चन । एवम् आज्ञापयन्तं तं प्रहस्य मधुसूदनः

॥७१॥

उत्पत्यारुह्य तन्मञ्चं कंसं जग्राह वेगितः । केशेष्व् आकृष्य विगलत्किरीटम् अवनीतले

॥७२॥

स कंसं पातयाम् आस तस्योपरि पपात च । निःशेषजगदाधारगुरुणा पततोपरि

॥७३॥

कृष्णेन त्याजितः प्राणान्न् उग्रसेनात्मजो नृपः । मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः

॥७४॥

चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः । गौरवेणातिमहता परिपातेन कृष्यता

॥७५॥

कृता कंसस्य देहेन वेगितेन महात्मना । कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा

॥७६॥

सुनामा बलभद्रेण लीलयैव निपातितः । ततो हाहाकृतं सर्वम् आसीत् तद् रङ्गमण्डलम्

॥७७॥

अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् । कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरम्

॥७८॥

देवक्याश् च महाबाहुर् बलदेवसहायवान् । उत्थाप्य वसुदेवस् तु देवकी च जनार्दनम् । स्मृतजन्मोक्तवचनौ ताव् एव प्रणतौ स्थितौ

॥७९॥

वसुदेव उवाच:

प्रसीद देवदेवेश देवानां प्रवर प्रभो । तथावयोः प्रसादेन कृताभ्युद्धार केशव

॥८०॥

आराधितो यद् भगवान् अवतीर्णो गृहे मम । दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम्

॥८१॥

त्वम् अन्तः सर्वभूतानां सर्वभूतेष्व् अवस्थितः । वर्तते च समस्तात्मंस् त्वत्तो भूतभविष्यती

॥८२॥

यज्ञे त्वम् इज्यसेऽचिन्त्य सर्वदेवमयाच्युत । त्वम् एव यज्ञो यज्वा च यज्ञानां परमेश्वर

॥८३॥

सापह्नवं मम मनो यद् एतत् त्वयि जायते । देवक्याश् चात्मज प्रीत्या तद् अत्यन्तविडम्बना

॥८४॥

त्वं कर्ता सर्वभूतानाम् अनादिनिधनो भवान् । क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति

॥८५॥

जगद् एतज् जगन्नाथ सम्भूतम् अखिलं यतः । कया युक्त्या विना मायां सोऽस्मत्तः सम्भविष्यति

॥८६॥

यस्मिन् प्रतिष्ठितं सर्वं जगत् स्थावरजङ्गमम् । स कोष्ठोत्सङ्गशयनो मनुष्याज् जायते कथम्

॥८७॥

स त्वं प्रसीद परमेश्वर पाहि विश्वम् । अंशावतारकरणैर् न ममासि पुत्रः । आब्रह्मपादपमयं जगद् ईश सर्वं । चित्ते विमोहयसि किं परमेश्वरात्मन्

॥८८॥

मायाविमोहितदृशा तनयो ममेति । कंसाद् भयं कृतवता तु मयातितीव्रम् । नीतोऽसि गोकुलम् अरातिभयाकुलस्य । वृद्धिं गतोऽसि मम चैव गवाम् अधीश

॥८९॥

कर्माणि रुद्रमरुदश्विशतक्रतूनां । साध्यानि यानि न भवन्ति निरीक्षितानि । त्वं विष्णुर् ईशजगताम् उपकारहेतोः । प्राप्तोऽसि नः परिगतः परमो विमोहः

॥९०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).