अध्यायः १९८
व्यास उवाच:
वने विहरतस् तस्य सह गोपैर् महात्मनः । मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः
॥१॥निष्पादितोरुकार्यस्य कार्येणैवावतारिणः । उपभोगार्थम् अत्यर्थं वरुणः प्राह वारुणीम्
॥२॥वरुण उवाच:
अभीष्टां सर्वदा ह्य् अस्य मदिरे त्वं महौजसः । अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे
॥३॥व्यास उवाच:
इत्य् उक्ता वारुणी तेन सन्निधानम् अथाकरोत् । वृन्दावनतटोत्पन्नकदम्बतरुकोटरे
॥४॥विचरन् बलदेवोऽपि मदिरागन्धम् उद्धतम् । आघ्राय मदिराहर्षम् अवापाथ पुरातनम्
॥५॥ततः कदम्बात् सहसा मद्यधारां स लाङ्गली । पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम्
॥६॥पपौ च गोपगोपीभिः समवेतो मुदान्वितः । उपगीयमानो ललितं गीतवाद्यविशारदैः
॥७॥श्रमतोऽत्यन्तघर्माम्भःकणिकामौक्तिकोज्ज्वलः । आगच्छ यमुने स्नातुम् इच्छामीत्य् आह विह्वलः
॥८॥तस्य वाचं नदी सा तु मत्तोक्ताम् अवमन्य वै । नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली
॥९॥गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः । पापे नायासि नायासि गम्यताम् इच्छयान्यतः
॥१०॥सा कृष्टा तेन सहसा मार्गं सन्त्यज्य निम्नगा । यत्रास्ते बलदेवोऽसौ प्लावयाम् आस तद् वनम्
॥११॥शरीरिणी तथोपेत्य त्रासविह्वललोचना । प्रसीदेत्य् अब्रवीद् रामं मुञ्च मां मुशलायुध
॥१२॥सोऽब्रवीद् अवजानासि मम शौर्यबलं यदि । सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा
॥१३॥व्यास उवाच:
इत्य् उक्तयातिसन्त्रस्तस् तया नद्या प्रसादितः । भूभागे प्लाविते तत्र मुमोच यमुनां बलः
॥१४॥ततः स्नातस्य वै कान्तिर् आजगाम महावने । अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम्
॥१५॥वरुणप्रहितां चास्मै मालाम् अम्लानपङ्कजाम् । समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीर् अयच्छत
॥१६॥कृतावतंसः स तदा चारुकुण्डलभूषितः । नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः
॥१७॥इत्थं विभूषितो रेमे तत्र रामस् तदा व्रजे । मासद्वयेन यातश् च पुनः स मथुरां पुरीम्
॥१८॥रेवतीं चैव तनयां रैवतस्य महीपतेः । उपयेमे बलस् तस्यां जज्ञाते निशठोल्मुकौ
॥१९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).