अध्यायः २०४
व्यास उवाच:
संस्तुतो भगवान् इत्थं देवराजेन केशवः । प्रहस्य भावगम्भीरम् उवाचेदं द्विजोत्तमाः
॥१॥श्रीभगवान् उवाच:
देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते । क्षन्तव्यं भवतैवैतद् अपराधकृतं मम
॥२॥पारिजाततरुश् चायं नीयताम् उचितास्पदम् । गृहीतोऽयं मया शक्र सत्यावचनकारणात्
॥३॥वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया । तवैवैतत् प्रहरणं शक्र वैरिविदारणम्
॥४॥शक्र उवाच:
विमोहयसि माम् ईश मर्त्योऽहम् इति किं वदन् । जानीमस् त्वां भगवतोऽनन्तसौख्यविदो वयम्
॥५॥योऽसि सोऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः । जगतः शल्यनिष्कर्षं करोष्य् असुरसूदन
॥६॥नीयतां पारिजातोऽयं कृष्ण द्वारवतीं पुरीम् । मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि
॥७॥व्यास उवाच:
तथेत्य् उक्त्वा तु देवेन्द्रम् आजगाम भुवं हरिः । प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस् त्व् अथर्षिभिः
॥८॥जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् । ततः शङ्खम् उपाध्माय द्वारकोपरि संस्थितः
॥९॥हर्षम् उत्पादयाम् आस द्वारकावासिनां द्विजाः । अवतीर्याथ गरुडात् सत्यभामासहायवान्
॥१०॥निष्कुटे स्थापयाम् आस पारिजातं महातरुम् । यम् अभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम्
॥११॥वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् । ततस् ते यादवाः सर्वे देवगन्धान् अमानुषान्
॥१२॥ददृशुः पादपे तस्मिन् कुर्वतो मुखदर्शनम् । किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम्
॥१३॥स्त्रियश् च कृष्णो जग्राह नरकस्य परिग्रहात् । ततः काले शुभे प्राप्त उपयेमे जनार्दनः
॥१४॥ताः कन्या नरकावासात् सर्वतो याः समाहृताः । एकस्मिन्न् एव गोविन्दः कालेनासां द्विजोत्तमाः
॥१५॥जग्राह विधिवत् पाणीन् पृथग्देहे स्वधर्मतः । षोडश स्त्रीसहस्राणि शतम् एकं तथाधिकम्
॥१६॥तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः । एकैकशश् च ताः कन्या मेनिरे मधुसूदनम्
॥१७॥ममैव पाणिग्रहणं गोविन्दः कृतवान् इति । निशासु जगतः स्रष्टा तासां गेहेषु केशवः । उवास विप्राः सर्वासां विश्वरूपधरो हरिः
॥१८॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).