अध्यायः २०५
व्यास उवाच:
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः । भान्वादिकांश् च वै पुत्रान् सत्यभामा व्यजायत
॥१॥दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास् तनया हरेः । बभूवुर् जाम्बवत्याश् च साम्बाद्या बाहुशालिनः
॥२॥तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः । सङ्ग्रामजित्प्रधानास् तु शैब्यायां चाभवन् सुताः
॥३॥वृकाद्यास् तु सुता माद्री गात्रवत्प्रमुखान् सुतान् । अवाप लक्ष्मणा पुत्रान् कालिन्द्याश् च श्रुतादयः
॥४॥अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः । अष्टायुतानि पुत्राणां सहस्राणि शतं तथा
॥५॥प्रद्युम्नः प्रमुखस् तेषां रुक्मिण्यास् तु सुतस् ततः । प्रद्युम्नाद् अनिरुद्धोऽभूद् वज्रस् तस्माद् अजायत
॥६॥अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः । बाणस्य तनयाम् ऊषाम् उपयेमे द्विजोत्तमाः
॥७॥यत्र युद्धम् अभूद् घोरं हरिशङ्करयोर् महत् । छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा
॥८॥मुनय ऊचुः:
कथं युद्धम् अभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः । कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः
॥९॥एतत् सर्वं महाभाग वक्तुम् अर्हसि नोऽखिलम् । महत् कौतूहलं जातं श्रोतुम् एतां कथां शुभाम्
॥१०॥व्यास उवाच:
उषा बाणसुता विप्राः पार्वतीं शम्भुना सह । क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् । ततः सकलचित्तज्ञा गौरी ताम् आह भामिनीम्
॥११॥गौर्य् उवाच:
अलम् इत्य् अनुतापेन भर्त्रा त्वम् अपि रंस्यसे
॥१२॥व्यास उवाच:
इत्य् उक्ता सा तदा चक्रे कदेति मतिम् आत्मनः । को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती
॥१३॥पार्वत्य् उवाच:
वैशाखे शुक्लद्वादश्यां स्वप्ने योऽभिभवं तव । करिष्यति स ते भर्ता राजपुत्रि भविष्यति
॥१४॥व्यास उवाच:
तस्यां तिथौ पुमान् स्वप्ने यथा देव्या उदीरितः । तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा । ततः प्रबुद्धा पुरुषम् अपश्यन्ती तम् उत्सुका
॥१५॥उषोवाच:
क्व गतोऽसीति निर्लज्जा द्विजाश् चोक्तवती सखीम् । बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा तु तत्सुता
॥१६॥तस्याः सख्य् अभवत् सा च प्राह कोऽयं त्वयोच्यते । यदा लज्जाकुला नास्य कथयाम् आस सा सखी
॥१७॥तदा विश्वासम् आनीय सर्वम् एवान्ववेदयत् । विदितायां तु ताम् आह पुनर् ऊषा यथोदितम् । देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम्
॥१८॥व्यास उवाच:
ततः पटे सुरान् दैत्यान् गन्धर्वांश् च प्रधानतः । मनुष्यांश् चाभिलिख्यासौ चित्रलेखाप्य् अदर्शयत्
॥१९॥अपास्य सा तु गन्धर्वांस् तथोरगसुरासुरान् । मनुष्येषु ददौ दृष्टिं तेष्व् अप्य् अन्धकवृष्णिषु
॥२०॥कृष्णरामौ विलोक्यासीत् सुभ्रूर् लज्जायतेक्षणा । प्रद्युम्नदर्शने व्रीडादृष्टिं निन्ये ततो द्विजाः
॥२१॥दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता । सोऽयं सोऽयं ममेत्य् उक्ते तया सा योगगामिनी । ययौ द्वारवतीम् ऊषां समाश्वास्य ततः सखी
॥२२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).