मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २०८

3
ब्रह्मपुराणम् · 208

अध्यायः २०८

मुनय ऊचुः:

श्रोतुम् इच्छामहे भूयो बलभद्रस्य धीमतः । मुने पराक्रमं शौर्यं तन् नो व्याख्यातुम् अर्हसि

॥१॥

यमुनाकर्षणादीनि श्रुतान्य् अस्माभिर् अत्र वै । तत् कथ्यतां महाभाग यद् अन्यत् कृतवान् बलः

॥२॥

व्यास उवाच:

शृणुध्वं मुनयः कर्म यद् रामेणाभवत् कृतम् । अनन्तेनाप्रमेयेन शेषेण धरणीभृता

॥३॥

दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम् । बलाद् आदत्तवान् वीरः साम्बो जाम्बवतीसुतः

॥४॥

ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः । भीष्मद्रोणादयश् चैव बबन्धुर् युधि निर्जितम्

॥५॥

तच् छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु । मुनयः प्रतिचक्रुश् च तान् विहन्तुं महोद्यमम्

॥६॥

तान् निवार्य बलः प्राह मदलोलाकुलाक्षरम् । मोक्ष्यन्ति ते मद्वचनाद् यास्याम्य् एको हि कौरवान्

॥७॥

बलदेवस् ततो गत्वा नगरं नागसाह्वयम् । बाह्योपवनमध्येऽभून् न विवेश च तत् पुरम्

॥८॥

बलम् आगतम् आज्ञाय तदा दुर्योधनादयः । गाम् अर्घम् उदकं चैव रामाय प्रत्यवेदयन् । गृहीत्वा विधिवत् सर्वं ततस् तान् आह कौरवान्

॥९॥

बलदेव उवाच:

आज्ञापयत्य् उग्रसेनः साम्बम् आशु विमुञ्चत

॥१०॥

व्यास उवाच:

ततस् तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः । कर्णदुर्योधनाद्याश् च चुक्रुधुर् द्विजसत्तमाः

॥११॥

ऊचुश् च कुपिताः सर्वे बाह्लिकाद्याश् च भूमिपाः । अराजार्हं यदोर् वंशम् अवेक्ष्य मुशलायुधम्

॥१२॥

कौरवा ऊचुः:

भो भोः किम् एतद् भवता बलभद्रेरितं वचः । आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति

॥१३॥

उग्रसेनोऽपि यद्य् आज्ञां कौरवाणां प्रदास्यति । तद् अलं पाण्डुरैश् छत्त्रैर् नृपयोग्यैर् अलङ्कृतैः

॥१४॥

तद् गच्छ बलभद्र त्वं साम्बम् अन्यायचेष्टितम् । विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात्

॥१५॥

प्रणतिर् या कृतास्माकं मान्यानां कुकुरान्धकैः । न नाम सा कृता केयम् आज्ञा स्वामिनि भृत्यतः

॥१६॥

गर्वम् आरोपिता यूयं समानासनभोजनैः । को दोषो भवतां नीतिर् यत् प्रीणात्य् अनपेक्षिता

॥१७॥

अस्माभिर् अर्च्यो भवता योऽयं बल निवेदितः । प्रेम्णैव न तद् अस्माकं कुलाद् युष्मत्कुलोचितम्

॥१८॥

व्यास उवाच:

इत्य् उक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् । कृतैकनिश्चयाः सर्वे विविशुर् गजसाह्वयम्

॥१९॥

मत्तः कोपेन चाघूर्णं ततोऽधिक्षेपजन्मना । उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः

॥२०॥

ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः । आस्फोटयाम् आस तदा दिशः शब्देन पूरयन् । उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः

॥२१॥

बलदेव उवाच:

अहो महावलेपोऽयम् असाराणां दुरात्मनाम् । कौरवाणाम् आधिपत्यम् अस्माकं किल कालजम्

॥२२॥

उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्य् अलङ्घनाम् । आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः

॥२३॥

सदाध्यास्ते सुधर्मां ताम् उग्रसेनः शचीपतेः । धिङ् मनुष्यशतोच्छिष्टे तुष्टिर् एषां नृपासने

॥२४॥

पारिजाततरोः पुष्पमञ्जरीर् वनिताजनः । बिभर्ति यस्य भृत्यानां सोऽप्य् एषां न महीपतिः

॥२५॥

समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु । अद्य निष्कौरवाम् उर्वीं कृत्वा यास्यामि तां पुरीम्

॥२६॥

कर्णं दुर्योधनं द्रोणम् अद्य भीष्मं सबाह्लिकम् । दुःशासनादीन् भूरिं च भूरिश्रवसम् एव च

॥२७॥

सोमदत्तं शलं भीमम् अर्जुनं सयुधिष्ठिरम् । यमजौ कौरवांश् चान्यान् हन्यां साश्वरथद्विपान्

॥२८॥

वीरम् आदाय तं साम्बं सपत्नीकं ततः पुरीम् । द्वारकाम् उग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान्

॥२९॥

अथवा कौरवादीनां समस्तैः कुरुभिः सह । भारावतरणे शीघ्रं देवराजेन चोदितः

॥३०॥

भागीरथ्यां क्षिपाम्य् आशु नगरं नागसाह्वयम्

॥३१॥

व्यास उवाच:

इत्य् उक्त्वा क्रोधरक्ताक्षस् तालाङ्कोऽधोमुखं हलम् । प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः

॥३२॥

आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम् । दृष्ट्वा सङ्क्षुब्धहृदयाश् चुक्रुशुः सर्वकौरवाः

॥३३॥

कौरवा ऊचुः:

राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया । उपसंह्रियतां कोपः प्रसीद मुशलायुध

॥३४॥

एष साम्बः सपत्नीकस् तव निर्यातितो बल । अविज्ञातप्रभावाणां क्षम्यताम् अपराधिनाम्

॥३५॥

व्यास उवाच:

ततो निर्यातयाम् आसुः साम्बं पत्न्या समन्वितम् । निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः

॥३६॥

भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् । क्षान्तम् एव मयेत्य् आह बलो बलवतां वरः

॥३७॥

अद्याप्य् आघूर्णिताकारं लक्ष्यते तत् पुरं द्विजाः । एष प्रभावो रामस्य बलशौर्यवतो द्विजाः

॥३८॥

ततस् तु कौरवाः साम्बं सम्पूज्य हलिना सह । प्रेषयाम् आसुर् उद्वाहधनभार्यासमन्वितम्

॥३९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).