मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २१०

3
ब्रह्मपुराणम् · 210

अध्यायः २१०

व्यास उवाच:

एवं दैत्यवधं कृष्णो बलदेवसहायवान् । चक्रे दुष्टक्षितीशानां तथैव जगतः कृते

॥१॥

क्षितेश् च भारं भगवान् फाल्गुनेन समं विभुः । अवतारयाम् आस हरिः समस्ताक्षौहिणीवधात्

॥२॥

कृत्वा भारावतरणं भुवो हत्वाखिलान् नृपान् । शापव्याजेन विप्राणाम् उपसंहृतवान् कुलम्

॥३॥

उत्सृज्य द्वारकां कृष्णस् त्यक्त्वा मानुष्यम् आत्मभूः । स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर् निजम्

॥४॥

मुनय ऊचुः:

स विप्रशापव्याजेन सञ्जह्रे स्वकुलं कथम् । कथं च मानुषं देहम् उत्ससर्ज जनार्दनः

॥५॥

व्यास उवाच:

विश्वामित्रस् तथा कण्वो नारदश् च महामुनिः । पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः

॥६॥

ततस् ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः । साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा । प्रसृतास् तान् मुनीन् ऊचुः प्रणिपातपुरःसरम्

॥७॥

कुमारा ऊचुः:

इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति

॥८॥

व्यास उवाच:

दिव्यज्ञानोपपन्नास् ते विप्रलब्धा कुमारकैः । शापं ददुस् तदा विप्रास् तेषां नाशाय सुव्रताः

॥९॥

मुनयः कुपिताः प्रोचुर् मुशलं जनयिष्यति । येनाखिलकुलोत्सादो यादवानां भविष्यति

॥१०॥

इत्य् उक्तास् तैः कुमारास् त आचचक्षुर् यथातथम् । उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात्

॥११॥

तद् उग्रसेनो मुशलम् अयश्चूर्णम् अकारयत् । जज्ञे तच् चैरका चूर्णं प्रक्षिप्तं वै महोदधौ

॥१२॥

मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर् द्विजाः । खण्डं चूर्णयितुं शेकुर् नैव ते तोमराकृति

॥१३॥

तद् अप्य् अम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः । घातितस्योदरात् तस्य लुब्धो जग्राह तज् जरा

॥१४॥

विज्ञातपरमार्थोऽपि भगवान् मधुसूदनः । नैच्छत् तद् अन्यथा कर्तुं विधिना यत् समाहृतम्

॥१५॥

देवैश् च प्रहितो दूतः प्रणिपत्याह केशवम् । रहस्य् एवम् अहं दूतः प्रहितो भगवन् सुरैः

॥१६॥

वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह । विज्ञापयति वः शक्रस् तद् इदं श्रूयतां प्रभो

॥१७॥

देवा ऊचुः:

भारावतरणार्थाय वर्षाणाम् अधिकं शतम् । भगवान् अवतीर्णोऽत्र त्रिदशैः सम्प्रसादितः

॥१८॥

दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः । त्वया सनाथास् त्रिदशा व्रजन्तु त्रिदिवेशताम्

॥१९॥

तद् अतीतं जगन्नाथ वर्षाणाम् अधिकं शतम् । इदानीं गम्यतां स्वर्गो भवता यदि रोचते

॥२०॥

देवैर् विज्ञापितो देवोऽप्य् अथात्रैव रतिस् तव । तत् स्थीयतां यथाकालम् आख्येयम् अनुजीविभिः

॥२१॥

श्रीभगवान् उवाच:

यत् त्वम् आत्थाखिलं दूत वेद्मि चैतद् अहं पुनः । प्रारब्ध एव हि मया यादवानाम् अपि क्षयः

॥२२॥

भुवो नामातिभारोऽयं यादवैर् अनिबर्हितैः । अवतारं करोम्य् अस्य सप्तरात्रेण सत्वरः

॥२३॥

यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः । यादवान् उपसंहृत्य यास्यामि त्रिदशालयम्

॥२४॥

मनुष्यदेहम् उत्सृज्य सङ्कर्षणसहायवान् । प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः

॥२५॥

जरासन्धादयो येऽन्ये निहता भारहेतवः । क्षितेस् तेभ्यः स भारो हि यदूनां समधीयत

॥२६॥

तद् एतत् सुमहाभारम् अवतार्य क्षितेर् अहम् । यास्याम्य् अमरलोकस्य पालनाय ब्रवीहि तान्

॥२७॥

व्यास उवाच:

इत्य् उक्तो वासुदेवेन देवदूतः प्रणम्य तम् । द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ

॥२८॥

भगवान् अप्य् अथोत्पातान् दिव्यान् भौमान्तरिक्षगान् । ददर्श द्वारकापुर्यां विनाशाय दिवानिशम्

॥२९॥

तान् दृष्ट्वा यादवान् आह पश्यध्वम् अतिदारुणान् । महोत्पाताञ् शमायैषां प्रभासं याम मा चिरम्

॥३०॥

व्यास उवाच:

महाभागवतः प्राह प्रणिपत्योद्धवो हरिम्

॥३१॥

उद्धव उवाच:

भगवन् यन् मया कार्यं तद् आज्ञापय साम्प्रतम् । मन्ये कुलम् इदं सर्वं भगवान् संहरिष्यति । नाशायास्य निमित्तानि कुलस्याच्युत लक्षये

॥३२॥

श्रीभगवान् उवाच:

गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया । बदरीम् आश्रमं पुण्यं गन्धमादनपर्वते

॥३३॥

नरनारायणस्थाने पवित्रितमहीतले । मन्मना मत्प्रसादेन तत्र सिद्धिम् अवाप्स्यसि

॥३४॥

अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् । द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति

॥३५॥

व्यास उवाच:

इत्य् उक्तः प्रणिपत्यैनं जगाम स तदोद्धवः । नरनारायणस्थानं केशवेनानुमोदितः

॥३६॥

ततस् ते यादवाः सर्वे रथान् आरुह्य शीघ्रगान् । प्रभासं प्रययुः सार्धं कृष्णरामादिभिर् द्विजाः

॥३७॥

प्राप्य प्रभासं प्रयता प्रीतास् ते कुक्कुरान्धकाः । चक्रुस् तत्र सुरापानं वासुदेवानुमोदिताः

॥३८॥

पिबतां तत्र वै तेषां सङ्घर्षेण परस्परम् । यादवानां ततो जज्ञे कलहाग्निः क्षयावहः

॥३९॥

जघ्नुः परस्परं ते तु शस्त्रैर् दैवबलात् कृताः । क्षीणशस्त्रास् तु जगृहुः प्रत्यासन्नाम् अथैरकाम्

॥४०॥

एरका तु गृहीता तैर् वज्रभूतेव लक्ष्यते । तया परस्परं जघ्नुः सम्प्रहारैः सुदारुणैः

॥४१॥

प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः । अनिरुद्धादयश् चान्ये पृथुर् विपृथुर् एव च

॥४२॥

चारुवर्मा सुचारुश् च तथाक्रूरादयो द्विजाः । एरकारूपिभिर् वज्रैस् ते निजघ्नुः परस्परम्

॥४३॥

निवारयाम् आस हरिर् यादवास् ते च केशवम् । सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम्

॥४४॥

कृष्णोऽपि कुपितस् तेषाम् एरकामुष्टिम् आददे । वधाय तेषां मुशलं मुष्टिलोहम् अभूत् तदा

॥४५॥

जघान तेन निःशेषान् आततायी स यादवान् । जघ्नुश् च सहसाभ्येत्य तथान्ये तु परस्परम्

॥४६॥

ततश् चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः । पश्यतो दारुकस्याशु हृतोऽश्वैर् द्विजसत्तमाः

॥४७॥

चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खोऽसिर् एव च । प्रदक्षिणं ततः कृत्वा जग्मुर् आदित्यवर्त्मना

॥४८॥

क्षणमात्रेण वै तत्र यादवानाम् अभूत् क्षयः । ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः

॥४९॥

चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम् । ददृशाते मुखाच् चास्य निष्क्रामन्तं महोरगम्

॥५०॥

निष्क्रम्य स मुखात् तस्य महाभोगो भुजङ्गमः । प्रयातश् चार्णवं सिद्धैः पूज्यमानस् तथोरगैः

॥५१॥

तम् अर्घ्यम् आदाय तदा जलधिः सम्मुखं ययौ । प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः । दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः

॥५२॥

श्रीभगवान् उवाच:

इदं सर्वं त्वम् आचक्ष्व वसुदेवोग्रसेनयोः । निर्याणं बलदेवस्य यादवानां तथा क्षयम्

॥५३॥

योगे स्थित्वाहम् अप्य् एतत् परित्यज्य कलेवरम् । वाच्यश् च द्वारकावासी जनः सर्वस् तथाहुकः

॥५४॥

यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति । तस्माद् रथैः सुसज्जैस् तु प्रतीक्ष्यो ह्य् अर्जुनागमः

॥५५॥

न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे । तेनैव सह गन्तव्यं यत्र याति स कौरवः

॥५६॥

गत्वा च ब्रूहि कौन्तेयम् अर्जुनं वचनं मम । पालनीयस् त्वया शक्त्या जनोऽयं मत्परिग्रहः

॥५७॥

इत्य् अर्जुनेन सहितो द्वारवत्यां भवाञ् जनम् । गृहीत्वा यातु वज्रश् च यदुराजो भविष्यति

॥५८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).