मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २१२

3
ब्रह्मपुराणम् · 212

अध्यायः २१२

व्यास उवाच:

अर्जुनोऽपि तदान्विष्य कृष्णरामकलेवरे । संस्कारं लम्भयाम् आस तथान्येषाम् अनुक्रमात्

॥१॥

अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास् तु याः । उपगृह्य हरेर् देहं विविशुस् ता हुताशनम्

॥२॥

रेवती चैव रामस्य देहम् आश्लिष्य सत्तमाः । विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम्

॥३॥

उग्रसेनस् तु तच् छ्रुत्वा तथैवानकदुन्दुभिः । देवकी रोहिणी चैव विविशुर् जातवेदसम्

॥४॥

ततोऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि । निश्चक्राम जनं सर्वं गृहीत्वा वज्रम् एव च

॥५॥

द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः । वज्रं जनं च कौन्तेयः पालयञ् शनकैर् ययौ

॥६॥

सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता । स्वर्गं जगाम भो विप्राः पारिजातश् च पादपः

॥७॥

यस्मिन् दिने हरिर् यातो दिवं सन्त्यज्य मेदिनीम् । तस्मिन् दिनेऽवतीर्णोऽयं कालकायः कलिः किल

॥८॥

प्लावयाम् आस तां शून्यां द्वारकां च महोदधिः । यदुश्रेष्ठगृहं त्व् एकं नाप्लावयत सागरः

॥९॥

नातिक्रामति भो विप्रास् तद् अद्यापि महोदधिः । नित्यं सन्निहितस् तत्र भगवान् केशवो यतः

॥१०॥

तद् अतीव महापुण्यं सर्वपातकनाशनम् । विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते

॥११॥

पार्थः पञ्चनदे देशे बहुधान्यधनान्विते । चकार वासं सर्वस्य जनस्य मुनिसत्तमाः

॥१२॥

ततो लोभः समभवत् पार्थेनैकेन धन्विना । दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः

॥१३॥

ततस् ते पापकर्माणो लोभोपहतचेतसः । आभीरा मन्त्रयाम् आसुः समेत्यात्यन्तदुर्मदाः

॥१४॥

आभीरा ऊचुः:

अयम् एकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् । नयत्य् अस्मान् अतिक्रम्य धिग् एतत् क्रियतां बलम्

॥१५॥

हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् । कर्णादींश् च न जानाति बलं ग्रामनिवासिनाम्

॥१६॥

बलज्येष्ठान् नरान् अन्यान् ग्राम्यांश् चैव विशेषतः । सर्वान् एवावजानाति किं वो बहुभिर् उत्तरैः

॥१७॥

व्यास उवाच:

ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः । सहस्रशोऽभ्यधावन्त तं जनं निहतेश्वरम् । ततो निवृत्तः कौन्तेयः प्राहाभीरान् हसन्न् इव

॥१८॥

अर्जुन उवाच:

निवर्तध्वम् अधर्मज्ञा यदीतो न मुमूर्षवः

॥१९॥

व्यास उवाच:

अवज्ञाय वचस् तस्य जगृहुस् ते तदा धनम् । स्त्रीजनं चापि कौन्तेयाद् विष्वक्सेनपरिग्रहम्

॥२०॥

ततोऽर्जुनो धनुर् दिव्यं गाण्डीवम् अजरं युधि । आरोपयितुम् आरेभे न शशाक स वीर्यवान्

॥२१॥

चकार सज्जं कृच्छ्रात् तु तद् अभूच् छिथिलं पुनः । न सस्मार तथास्त्राणि चिन्तयन्न् अपि पाण्डवः

॥२२॥

शरान् मुमोच चैतेषु पार्थः शेषान् स हर्षितः । न भेदं ते परं चक्रुर् अस्ता गाण्डीवधन्वना

॥२३॥

वह्निना चाक्षया दत्ताः शरास् तेऽपि क्षयं ययुः । युध्यतः सह गोपालैर् अर्जुनस्याभवत् क्षयः

॥२४॥

अचिन्तयत् तु कौन्तेयः कृष्णस्यैव हि तद् बलम् । यन् मया शरसङ्घातैः सबला भूभृतो जिताः

॥२५॥

मिषतः पाण्डुपुत्रस्य ततस् ताः प्रमदोत्तमाः । अपाकृष्यन्त चाभीरैः कामाच् चान्याः प्रवव्रजुः

॥२६॥

ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः । जघान दस्यूंस् ते चास्य प्रहाराञ् जहसुर् द्विजाः

॥२७॥

पश्यतस् त्व् एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः । जग्मुर् आदाय ते म्लेच्छाः समन्तान् मुनिसत्तमाः

॥२८॥

ततः स दुःखितो जिष्णुः कष्टं कष्टम् इति ब्रुवन् । अहो भगवता तेन मुक्तोऽस्मीति रुरोद वै

॥२९॥

अर्जुन उवाच:

तद् धनुस् तानि चास्त्राणि स रथस् ते च वाजिनः । सर्वम् एकपदे नष्टं दानम् अश्रोत्रिये यथा

॥३०॥

अहो चाति बलं दैवं विना तेन महात्मना । यद् असामर्थ्ययुक्तोऽहं नीचैर् नीतः पराभवम्

॥३१॥

तौ बाहू स च मे मुष्टिः स्थानं तत् सोऽस्मि चार्जुनः । पुण्येनेव विना तेन गतं सर्वम् असारताम्

॥३२॥

ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् । विना तेन यद् आभीरैर् जितोऽहं कथम् अन्यथा

॥३३॥

व्यास उवाच:

इत्थं वदन् ययौ जिष्णुर् इन्द्रप्रस्थं पुरोत्तमम् । चकार तत्र राजानं वज्रं यादवनन्दनम्

॥३४॥

स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् । तम् उपेत्य महाभागं विनयेनाभ्यवादयत्

॥३५॥

तं वन्दमानं चरणाव् अवलोक्य सुनिश्चितम् । उवाच पार्थं विच्छायः कथम् अत्यन्तम् ईदृशः

॥३६॥

अजारजोनुगमनं ब्रह्महत्याथवा कृता । जयाशाभङ्गदुःखी वा भ्रष्टच्छायोऽसि साम्प्रतम्

॥३७॥

सान्तानिकादयो वा ते याचमाना निराकृताः । अगम्यस्त्रीरतिर् वापि तेनासि विगतप्रभः

॥३८॥

भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टम् एकम् अथो भवान् । किं वा कृपणवित्तानि हृतानि भवतार्जुन

॥३९॥

कच्चिन् न सूर्यवातस्य गोचरत्वं गतोऽर्जुन । दुष्टचक्षुर् हतो वापि निःश्रीकः कथम् अन्यथा

॥४०॥

स्पृष्टो नखाम्भसा वापि घटाम्भःप्रोक्षितोऽपि वा । तेनातीवासि विच्छायो न्यूनैर् वा युधि निर्जितः

॥४१॥

व्यास उवाच:

ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्न् इति । प्रोक्तो यथावद् आचष्ट विप्रा आत्मपराभवम्

॥४२॥

अर्जुन उवाच:

यद् बलं यच् च नस् तेजो यद् वीर्यं यत् पराक्रमः । या श्रीश् छाया च नः सोऽस्मान् परित्यज्य हरिर् गतः

॥४३॥

इतरेणेव महता स्मितपूर्वाभिभाषिणा । हीना वयं मुने तेन जातास् तृणमया इव

॥४४॥

अस्त्राणां सायकानां च गाण्डीवस्य तथा मम । सारता याभवन् मूर्ता स गतः पुरुषोत्तमः

॥४५॥

यस्यावलोकनाद् अस्माञ् श्रीर् जयः सम्पद् उन्नतिः । न तत्याज स गोविन्दस् त्यक्त्वास्मान् भगवान् गतः

॥४६॥

भीष्मद्रोणाङ्गराजाद्यास् तथा दुर्योधनादयः । यत्प्रभावेन निर्दग्धाः स कृष्णस् त्यक्तवान् भुवम्

॥४७॥

निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही । विभाति तात नैकोऽहं विरहे तस्य चक्रिणः

॥४८॥

यस्यानुभावाद् भीष्माद्यैर् मय्य् अग्नौ शलभायितम् । विना तेनाद्य कृष्णेन गोपालैर् अस्मि निर्जितः

॥४९॥

गाण्डीवं त्रिषु लोकेषु ख्यातं यद् अनुभावतः । मम तेन विनाभीरैर् लगुडैस् तु तिरस्कृतम्

॥५०॥

स्त्रीसहस्राण्य् अनेकानि ह्य् अनाथानि महामुने । यततो मम नीतानि दस्युभिर् लगुडायुधैः

॥५१॥

आनीयमानम् आभीरैः सर्वं कृष्णावरोधनम् । हृतं यष्टिप्रहरणैः परिभूय बलं मम

॥५२॥

निःश्रीकता न मे चित्रं यज् जीवामि तद् अद्भुतम् । नीचावमानपङ्काङ्की निर्लज्जोऽस्मि पितामह

॥५३॥

व्यास उवाच:

श्रुत्वाहं तस्य तद् वाक्यम् अब्रवं द्विजसत्तमाः । दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः

॥५४॥

अलं ते व्रीडया पार्थ न त्वं शोचितुम् अर्हसि । अवेहि सर्वभूतेषु कालस्य गतिर् ईदृशी

॥५५॥

कालो भवाय भूतानाम् अभवाय च पाण्डव । कालमूलम् इदं ज्ञात्वा कुरु स्थैर्यम् अतोऽर्जुन

॥५६॥

नद्यः समुद्रा गिरयः सकला च वसुन्धरा । देवा मनुष्याः पशवस् तरवश् च सरीसृपाः

॥५७॥

सृष्टाः कालेन कालेन पुनर् यास्यन्ति सङ्क्षयम् । कालात्मकम् इदं सर्वं ज्ञात्वा शमम् अवाप्नुहि

॥५८॥

यथात्थ कृष्णमाहात्म्यं तत् तथैव धनञ्जय । भारावतारकार्यार्थम् अवतीर्णः स मेदिनीम्

॥५९॥

भाराक्रान्ता धरा याता देवानां सन्निधौ पुरा । तदर्थम् अवतीर्णोऽसौ कामरूपी जनार्दनः

॥६०॥

तच् च निष्पादितं कार्यम् अशेषा भूभृतो हताः । वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम्

॥६१॥

न किञ्चिद् अन्यत् कर्तव्यम् अस्य भूमितलेऽर्जुन । ततो गतः स भगवान् कृतकृत्यो यथेच्छया

॥६२॥

सृष्टिं सर्गे करोत्य् एष देवदेवः स्थितिं स्थितौ । अन्ते तापसमर्थोऽयं साम्प्रतं वै यथा कृतम्

॥६३॥

तस्मात् पार्थ न सन्तापस् त्वया कार्यः पराभवात् । भवन्ति भवकालेषु पुरुषाणां पराक्रमाः

॥६४॥

यतस् त्वयैकेन हता भीष्मद्रोणादयो नृपाः । तेषाम् अर्जुन कालोत्थः किं न्यूनाभिभवो न सः

॥६५॥

विष्णोस् तस्यानुभावेन यथा तेषां पराभवः । त्वत्तस् तथैव भवतो दस्युभ्योऽन्ते तदुद्भवः

॥६६॥

स देवोऽन्यशरीराणि समाविश्य जगत्स्थितिम् । करोति सर्वभूतानां नाशं चान्ते जगत्पतिः

॥६७॥

भवोद्भवे च कौन्तेय सहायस् ते जनार्दनः । भवान्ते त्वद्विपक्षास् ते केशवेनावलोकिताः

॥६८॥

कः श्रद्दध्यात् सगाङ्गेयान् हन्यास् त्वं सर्वकौरवान् । आभीरेभ्यश् च भवतः कः श्रद्दध्यात् पराभवम्

॥६९॥

पार्थैतत् सर्वभूतेषु हरेर् लीलाविचेष्टितम् । त्वया यत् कौरवा ध्वस्ता यद् आभीरैर् भवाञ् जितः

॥७०॥

गृहीता दस्युभिर् यच् च रक्षिता भवता स्त्रियः । तद् अप्य् अहं यथावृत्तं कथयामि तवार्जुन

॥७१॥

अष्टावक्रः पुरा विप्र उदवासरतोऽभवत् । बहून् वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम्

॥७२॥

जितेष्व् असुरसङ्घेषु मेरुपृष्ठे महोत्सवः । बभूव तत्र गच्छन्त्यो ददृशुस् तं सुरस्त्रियः

॥७३॥

रम्भातिलोत्तमाद्याश् च शतशोऽथ सहस्रशः । तुष्टुवुस् तं महात्मानं प्रशशंसुश् च पाण्डव

॥७४॥

आकण्ठमग्नं सलिले जटाभारधरं मुनिम् । विनयावनताश् चैव प्रणेमुः स्तोत्रतत्पराः

॥७५॥

यथा यथा प्रसन्नोऽभूत् तुष्टुवुस् तं तथा तथा । सर्वास् ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम्

॥७६॥

अष्टावक्र उवाच:

प्रसन्नोऽहं महाभागा भवतीनां यद् इष्यते । मत्तस् तद् व्रियतां सर्वं प्रदास्याम्य् अपि दुर्लभम्

॥७७॥

व्यास उवाच:

रम्भातिलोत्तमाद्याश् च दिव्याश् चाप्सरसोऽब्रुवन्

॥७८॥

अप्सरस ऊचुः:

प्रसन्ने त्वय्य् असम्प्राप्तं किम् अस्माकम् इति द्विजाः

॥७९॥

इतरास् त्व् अब्रुवन् विप्र प्रसन्नो भगवन् यदि । तद् इच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम्

॥८०॥

व्यास उवाच:

एवं भविष्यतीत्य् उक्त्वा उत्ततार जलान् मुनिः । तम् उत्तीर्णं च ददृशुर् विरूपं वक्रम् अष्टधा

॥८१॥

तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् । ताः शशाप मुनिः कोपम् अवाप्य कुरुनन्दन

॥८२॥

अष्टावक्र उवाच:

यस्माद् विरूपरूपं मां मत्वा हासावमानना । भवतीभिः कृता तस्माद् एष शापं ददामि वः

॥८३॥

मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् । मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ

॥८४॥

व्यास उवाच:

इत्य् उदीरितम् आकर्ण्य मुनिस् ताभिः प्रसादितः । पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ

॥८५॥

एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम् । भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः

॥८६॥

तत् त्वया नात्र कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव । तेनैवाखिलनाथेन सर्वं तद् उपसंहृतम्

॥८७॥

भवतां चोपसंहारम् आसन्नं तेन कुर्वता । बलं तेजस् तथा वीर्यं माहात्म्यं चोपसंहृतम्

॥८८॥

जातस्य नियतो मृत्युः पतनं च तथोन्नतेः । विप्रयोगावसानं तु संयोगः सञ्चयः क्षयः

॥८९॥

विज्ञाय न बुधाः शोकं न हर्षम् उपयान्ति ये । तेषाम् एवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः

॥९०॥

तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद् भ्रातृभिः सह । परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम्

॥९१॥

तद् गच्छ धर्मराजाय निवेद्यैतद् वचो मम । परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु

॥९२॥

व्यास उवाच:

इत्य् उक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् । दृष्टं चैवानुभूतं वा कथितं तद् अशेषतः

॥९३॥

व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम् । राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम्

॥९४॥

इत्य् एवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम् । जातस्य च यदोर् वंशे वासुदेवस्य चेष्टितम्

॥९५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).