मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २१३

3
ब्रह्मपुराणम् · 213

अध्यायः २१३

मुनय ऊचुः:

अहो कृष्णस्य माहात्म्यम् अद्भुतं चातिमानुषम् । रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम्

॥१॥

न तृप्तिम् अधिगच्छामः शृण्वन्तो भगवत्कथाम् । तस्माद् ब्रूहि महाभाग भूयो देवस्य चेष्टितम्

॥२॥

प्रादुर्भावः पुराणेषु विष्णोर् अमिततेजसः । सतां कथयताम् एव वराह इति नः श्रुतम्

॥३॥

न जानीमोऽस्य चरितं न विधिं न च विस्तरम् । न कर्मगुणसद्भावं न हेतुत्वमनीषितम्

॥४॥

किमात्मको वराहोऽसौ का मूर्तिः का च देवता । किमाचारप्रभावो वा किं वा तेन तदा कृतम्

॥५॥

यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् । महावराहचरितं सर्वलोकसुखावहम्

॥६॥

यथा नारायणो ब्रह्मन् वाराहं रूपम् आस्थितः । दंष्ट्रया गां समुद्रस्थाम् उज्जहारारिमर्दनः

॥७॥

विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः । श्रोतुं नो वर्तते बुद्धिर् हरेः कृष्णस्य धीमतः

॥८॥

कर्मणाम् आनुपूर्व्या च प्रादुर्भावाश् च ये विभो । या वास्य प्रकृतिर् ब्रह्मंस् ताश् चाख्यातुं त्वम् अर्हसि

॥९॥

व्यास उवाच:

प्रश्नभारो महान् एष भवद्भिः समुदाहृतः । यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः

॥१०॥

विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिर् उत्थिता । तस्माद् विष्णोः समस्ता वै शृणुध्वं याः प्रवृत्तयः

॥११॥

सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् । सहस्रशिरसं देवं सहस्रकरम् अव्ययम्

॥१२॥

सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् । सहस्रदं सहस्रादिं सहस्रभुजम् अव्ययम्

॥१३॥

हवनं सवनं चैव होतारं हव्यम् एव च । पात्राणि च पवित्राणि वेदिं दीक्षां समित् स्रुवम्

॥१४॥

स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् । अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः

॥१५॥

यूपं चक्रं ध्रुवां दर्वीं चरूंश् चोलूखलानि च । प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत्

॥१६॥

ह्रस्वाण्य् अतिप्रमाणानि स्थावराणि चराणि च । प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास् तथा

॥१७॥

मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् । अग्रासिनं सोमभुजं हुतार्चिषम् उदायुधम्

॥१८॥

आहुर् वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् । तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः

॥१९॥

प्रादुर्भावसहस्राणि समतीतान्य् अनेकशः । भूयश् चैव भविष्यन्ति ह्य् एवम् आह पितामहः

॥२०॥

यत् पृच्छध्वं महाभागा दिव्यां पुण्याम् इमां कथाम् । प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम्

॥२१॥

शृणुध्वं तां महाभागास् तद्गतेनान्तरात्मना । प्रवक्ष्याम्य् आनुपूर्व्येण यत् पृच्छध्वं ममानघाः

॥२२॥

वासुदेवस्य माहात्म्यं चरितं च महामतेः । हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च

॥२३॥

बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् । प्रादुर्भावांश् च वक्ष्यामि पुण्यान् दिव्यान् गुणान्वितान्

॥२४॥

सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः । पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः

॥२५॥

ब्रह्मा च कपिलश् चैव त्र्यम्बकस् त्रिदशास् तथा । देवाः सप्तर्षयश् चैव नागाश् चाप्सरसस् तथा

॥२६॥

सनत्कुमारश् च महानुभावो । मनुर् महात्मा भगवान् प्रजाकरः । पुराणदेवोऽथ पुराणि चक्रे । प्रदीप्तवैश्वानरतुल्यतेजाः

॥२७॥

योऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे । नष्टे देवासुरनरे प्रनष्टोरगराक्षसे

॥२८॥

योद्धुकामौ दुराधर्षौ ताव् उभौ मधुकैटभौ । हतौ भगवता तेन तयोर् दत्त्वामितं वरम्

॥२९॥

पुरा कमलनाभस्य स्वपतः सागराम्भसि । पुष्करे तत्र सम्भूता देवाः सर्षिगणास् तथा

॥३०॥

एष पौष्करको नाम प्रादुर्भावो महात्मनः । पुराणं कथ्यते यत्र देवश्रुतिसमाहितम्

॥३१॥

वाराहस् तु श्रुतिमुखः प्रादुर्भावो महात्मनः । यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपम् आस्थितः

॥३२॥

वेदपादो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः । अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः

॥३३॥

अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः । आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान्

॥३४॥

सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः । प्रायश्चित्तनखो घोरः पशुजानुर् मुखाकृतिः

॥३५॥

उद्गतान्त्रो होमलिङ्गो बीजौषधिमहाफलः । वाद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः

॥३६॥

वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । प्राग्वंशकायो द्युतिमान् नानादीक्षाभिर् अन्वितः

॥३७॥

दक्षिणाहृदयो योगी महासत्त्रमयो महान् । उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः

॥३८॥

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । छायापत्नीसहायोऽसौ मणिशृङ्ग इवोत्थितः

॥३९॥

महीं सागरपर्यन्तां सशैलवनकाननाम् । एकार्णवजलभ्रष्टाम् एकार्णवगतः प्रभुः

॥४०॥

दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया । सहस्रशीर्षो लोकादिश् चकार जगतीं पुनः

॥४१॥

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । उद्धृता पृथिवी देवी सागराम्बुधरा पुरा

॥४२॥

वाराह एष कथितो नारसिंहस् ततो द्विजाः । यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर् हतः

॥४३॥

पुरा कृतयुगे नाम सुरारिर् बलदर्पितः । दैत्यानाम् आदिपुरुषश् चकार सुमहत् तपः

॥४४॥

दश वर्षसहस्राणि शतानि दश पञ्च च । जपोपवासनिरतस् तस्थौ मौनव्रतस्थितः

॥४५॥

ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि । प्रीतोऽभवत् ततस् तस्य तपसा नियमेन च

॥४६॥

तं वै स्वयम्भूर् भगवान् स्वयम् आगम्य भो द्विजाः । विमानेनार्कवर्णेन हंसयुक्तेन भास्वता

॥४७॥

आदित्यैर् वसुभिः सार्धं मरुद्भिर् दैवतैस् तथा । रुद्रैर् विश्वसहायैश् च यक्षराक्षसकिन्नरैः

॥४८॥

दिशाभिः प्रदिशाभिश् च नदीभिः सागरैस् तथा । नक्षत्रैश् च मुहूर्तैश् च खेचरैश् च महाग्रहैः

॥४९॥

देवर्षिभिस् तपोवृद्धैः सिद्धैर् विद्वद्भिर् एव च । राजर्षिभिः पुण्यतमैर् गन्धर्वैर् अप्सरोगणैः

॥५०॥

चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस् तथा । ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनम् अब्रवीत्

॥५१॥

ब्रह्मोवाच:

प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत । वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि

॥५२॥

हिरण्यकशिपुर् उवाच:

न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । ऋषयो वाथ मां शापैः क्रुद्धा लोकपितामह

॥५३॥

शपेयुस् तपसा युक्ता वर एष वृतो मया । न शस्त्रेण न वास्त्रेण गिरिणा पादपेन वा

॥५४॥

न शुष्केण न चार्द्रेण न चैवोर्ध्वं न चाप्य् अधः । पाणिप्रहारेणैकेन सभृत्यबलवाहनम्

॥५५॥

यो मां नाशयितुं शक्तः स मे मृत्युर् भविष्यति । भवेयम् अहम् एवार्कः सोमो वायुर् हुताशनः

॥५६॥

सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः । अहं क्रोधश् च कामश् च वरुणो वासवो यमः । धनदश् च धनाध्यक्षो यक्षः किम्पुरुषाधिपः

॥५७॥

ब्रह्मोवाच:

एते दिव्या वरास् तात मया दत्तास् तवाद्भुताः । सर्वान् कामान् इमांस् तात प्राप्स्यसि त्वं न संशयः

॥५८॥

व्यास उवाच:

एवम् उक्त्वा तु भगवाञ् जगामाशु पितामहः । वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्

॥५९॥

ततो देवाश् च नागाश् च गन्धर्वा मुनयस् तथा । वरप्रदानं श्रुत्वैव पितामहम् उपस्थिताः

॥६०॥

देवा ऊचुः:

वरेणानेन भगवन् बाधिष्यति स नोऽसुरः । तत् प्रसीदाशु भगवन् वधोऽप्य् अस्य विचिन्त्यताम्

॥६१॥

भगवन् सर्वभूतानां स्वयम्भूर् आदिकृत् प्रभुः । स्रष्टा च हव्यकव्यानाम् अव्यक्तं प्रकृतिर् ध्रुवम्

॥६२॥

व्यास उवाच:

ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । प्रोवाच भगवान् वाक्यं सर्वदेवगणांस् तथा

॥६३॥

ब्रह्मोवाच:

अवश्यं त्रिदशास् तेन प्राप्तव्यं तपसः फलम् । तपसोऽन्ते च भगवान् वधं विष्णुः करिष्यति

॥६४॥

व्यास उवाच:

एतच् छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः । स्वानि स्थानानि दिव्यानि जग्मुस् ते वै मुदान्विताः

॥६५॥

लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः । हिरण्यकशिपुर् दैत्यो वरदानेन दर्पितः

॥६६॥

आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् । सत्यधर्मरतान् दान्तांस् तदा धर्षितवांस् तथा

॥६७॥

त्रिदिवस्थांस् तथा देवान् पराजित्य महाबलः । त्रैलोक्यं वशम् आनीय स्वर्गे वसति सोऽसुरः

॥६८॥

यदा वरमदोन्मत्तो विचरन् दानवो भुवि । यज्ञीयान् अकरोद् दैत्यान् अयज्ञीयाश् च देवताः

॥६९॥

आदित्या वसवः साध्या विश्वे च मरुतस् तथा । शरण्यं शरणं विष्णुम् उपतस्थुर् महाबलम्

॥७०॥

देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् । भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् । नारायणं विभुं देवं शरण्यं शरणं गताः

॥७१॥

देवा ऊचुः:

त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर् भयात् । त्वं हि नः परमो देवस् त्वं हि नः परमो गुरुः

॥७२॥

त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम । उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयङ्कर । क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः

॥७३॥

वासुदेव उवाच:

भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम् । तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम्

॥७४॥

एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् । अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्मि तम्

॥७५॥

व्यास उवाच:

एवम् उक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् । हिरण्यकशिपोः स्थानम् आजगाम महाबलः

॥७६॥

नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः । नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना

॥७७॥

घनजीमूतसङ्काशो घनजीमूतनिस्वनः । घनजीमूतदीप्तौजा जीमूत इव वेगवान्

॥७८॥

दैत्यं सोऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः । दृप्तैर् दैत्यगणैर् गुप्तं हतवान् एकपाणिना

॥७९॥

नृसिंह एष कथितो भूयोऽयं वामनः परः । यत्र वामनम् आस्थाय रूपं दैत्यविनाशनम्

॥८०॥

बलेर् बलवतो यज्ञे बलिना विष्णुना पुरा । विक्रमैस् त्रिभिर् अक्षोभ्याः क्षोभितास् ते महासुराः

॥८१॥

विप्रचित्तिः शिवः शङ्कुर् अयःशङ्कुस् तथैव च । अयःशिरा अश्वशिरा हयग्रीवश् च वीर्यवान्

॥८२॥

वेगवान् केतुमान् उग्रः सोग्रव्यग्रो महासुरः । पुष्करः पुष्कलश् चैव शाश्वोऽश्वपतिर् एव च

॥८३॥

प्रह्लादोऽश्वपतिः कुम्भः संह्रादो गमनप्रियः । अनुह्रादो हरिहयो वाराहः संहरोऽनुजः

॥८४॥

शरभः शलभश् चैव कुपथः क्रोधनः क्रथः । बृहत्कीर्तिर् महाजिह्वः शङ्कुकर्णो महास्वनः

॥८५॥

दीप्तजिह्वोऽर्कनयनो मृगपादो मृगप्रियः । वायुर् गरिष्ठो नमुचिः सम्बरो विस्करो महान्

॥८६॥

चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च । कालकः कालकोपश् च वृत्रः क्रोधो विरोचनः

॥८७॥

गरिष्ठश् च वरिष्ठश् च प्रलम्बनरकाव् उभौ । इन्द्रतापनवातापी केतुमान् बलदर्पितः

॥८८॥

असिलोमा पुलोमा च बाष्कलः प्रमदो मदः । स्वमिश्रः कालवदनः करालः केशिर् एव च

॥८९॥

एकाक्षश् चन्द्रमा राहुः संह्रादः सम्बरः स्वनः । शतघ्नीचक्रहस्ताश् च तथा मुशलपाणयः

॥९०॥

अश्वयन्त्रायुधोपेता भिन्दिपालायुधास् तथा । शूलोलूखलहस्ताश् च परश्वधधरास् तथा

॥९१॥

पाशमुद्गरहस्ताश् च तथा परिघपाणयः । महाशिलाप्रहरणाः शूलहस्ताश् च दानवाः

॥९२॥

नानाप्रहरणा घोरा नानावेशा महाबलाः । कूर्मकुक्कुटवक्त्राश् च शशोलूकमुखास् तथा

॥९३॥

खरोष्ट्रवदनाश् चैव वराहवदनास् तथा । मार्जारशिखिवक्त्राश् च महावक्त्रास् तथा परे

॥९४॥

नक्रमेषाननाः शूरा गोजाविमहिषाननाः । गोधाशल्लकिवक्त्राश् च क्रोष्टुवक्त्राश् च दानवाः

॥९५॥

आखुदर्दुरवक्त्राश् च घोरा वृकमुखास् तथा । भीमा मकरवक्त्राश् च क्रौञ्चवक्त्राश् च दानवाः

॥९६॥

अश्वाननाः खरमुखा मयूरवदनास् तथा । गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः

॥९७॥

चीरसंवृतगात्राश् च तथा नीलकवाससः । उष्णीषिणो मुकुटिनस् तथा कुण्डलिनोऽसुराः

॥९८॥

किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः । नानावेशधरा दैत्या नानामाल्यानुलेपनाः

॥९९॥

स्वान्य् आयुधानि सङ्गृह्य प्रदीप्तानि च तेजसा । क्रममाणं हृषीकेशम् उपावर्तन्त सर्वशः

॥१००॥

प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैर् विभुः । रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्

॥१०१॥

तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ

॥१०२॥

परम् आक्रममाणस्य जानुदेशे व्यवस्थितौ । विष्णोर् अमितवीर्यस्य वदन्त्य् एवं द्विजातयः

॥१०३॥

हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् । ददौ शक्राय वसुधां विष्णुर् बलवतां वरः

॥१०४॥

एष वो वामनो नाम प्रादुर्भावो महात्मनः । वेदविद्भिर् द्विजैर् एतत् कथ्यते वैष्णवं यशः

॥१०५॥

भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः । दत्तात्रेय इति ख्यातः क्षमया परया युतः

॥१०६॥

तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च । चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते

॥१०७॥

अतिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते । प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते

॥१०८॥

सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै । चातुर्वर्ण्यम् असङ्कीर्णं कृतं तेन महात्मना

॥१०९॥

तेन हैहयराजस्य कार्तवीर्यस्य धीमतः । वरदेन वरो दत्तो दत्तात्रेयेण धीमता

॥११०॥

एतद् बाहुद्वयं यत् ते तत् ते मम कृते नृप । शतानि दश बाहूनां भविष्यन्ति न संशयः

॥१११॥

पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर । दुर्निरीक्ष्योऽरिवृन्दानां युद्धस्थश् च भविष्यसि

॥११२॥

एष वो वैष्णवः श्रीमान् प्रादुर्भावोऽद्भुतः शुभः । भूयश् च जामदग्न्योऽयं प्रादुर्भावो महात्मनः

॥११३॥

यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे । रामोऽर्जुनम् अनीकस्थं जघान नृपतिं प्रभुः

॥११४॥

रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि । धर्षयित्वार्जुनं रामः क्रोशमानं च मेघवत्

॥११५॥

कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः । परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै

॥११६॥

कीर्णा क्षत्रियकोटीभिर् मेरुमन्दरभूषणा । त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता

॥११७॥

कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः । सर्वपापविनाशाय वाजिमेधेन चेष्टवान्

॥११८॥

यस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः । मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम्

॥११९॥

वारणांस् तुरगाञ् शुभ्रान् रथांश् च रथिनां वरः । हिरण्यम् अक्षयं धेनुर् गजेन्द्रांश् च महीपतिः

॥१२०॥

ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः । अद्यापि च हितार्थाय लोकानां भृगुनन्दनः

॥१२१॥

चरमाणस् तपो घोरं जामदग्न्यः पुनः प्रभुः । आस्ते वै देववच् छ्रीमान् महेन्द्रे पर्वतोत्तमे

॥१२२॥

एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च । जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः

॥१२३॥

चतुर्विंशे युगे वापि विश्वामित्रपुरःसरः । जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः

॥१२४॥

कृत्वात्मानं महाबाहुश् चतुर्धा प्रभुर् ईश्वरः । लोके राम इति ख्यातस् तेजसा भास्करोपमः

॥१२५॥

प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च । धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः

॥१२६॥

तम् अप्य् आहुर् मनुष्येन्द्रं सर्वभूतहिते रतम् । यः समाः सर्वधर्मज्ञश् चतुर्दश वनेऽवसत्

॥१२७॥

लक्ष्मणानुचरो रामः सर्वभूतहिते रतः । चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः

॥१२८॥

रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने । पूर्वोदिता तु या लक्ष्मीर् भर्तारम् अनुगच्छति

॥१२९॥

जनस्थाने वसन् कार्यं त्रिदशानां चकार सः । तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः

॥१३०॥

सीतायाः पदम् अन्विच्छन् निजघान महायशाः । देवासुरगणानां च यक्षराक्षसभोगिनाम्

॥१३१॥

यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् । युक्तं राक्षसकोटीभिर् नीलाञ्जनचयोपमम्

॥१३२॥

त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् । दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम्

॥१३३॥

दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम् । जघान सचिवैः सार्धं ससैन्यं रावणं युधि

॥१३४॥

महाभ्रगणसङ्काशं महाकायं महाबलम् । रावणं निजघानाशु रामो भूतपतिः पुरा

॥१३५॥

सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः । वाली विनिहतः सङ्ख्ये सुग्रीवश् चाभिषेचितः

॥१३६॥

मधोश् च तनयो दृप्तो लवणो नाम दानवः । हतो मधुवने वीरो वरमत्तो महासुरः

॥१३७॥

यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् । मारीचश् च सुबाहुश् च बलेन बलिनां वरौ

॥१३८॥

निहतौ च निराशौ च कृतौ तेन महात्मना । समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः

॥१३९॥

विराधश् च कबन्धश् च राक्षसौ भीमविक्रमौ । जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ

॥१४०॥

हुताशनार्कांशुतडिद्गुणाभैः । प्रतप्तजाम्बूनदचित्रपुङ्खैः । महेन्द्रवज्राशनितुल्यसारै । रिपून् स रामः समरे निजघ्ने

॥१४१॥

तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता । वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैर् अपि

॥१४२॥

वर्तमाने मखे येन जनकस्य महात्मनः । भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा

॥१४३॥

एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः । दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान्

॥१४४॥

नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ । न वित्तहरणं चासीद् रामे राज्यं प्रशासति

॥१४५॥

परिदेवन्ति विधवा नानर्थाश् च कदाचन । सर्वम् आसीच् छुभं तत्र रामे राज्यं प्रशासति

॥१४६॥

न प्राणिनां भयं चासीज् जलाग्न्यनिलघातजम् । न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे

॥१४७॥

ब्रह्मचर्यपरं क्षत्रं विशस् तु क्षत्रिये रताः । शूद्राश् चैव हि वर्णांस् त्रीञ् शुश्रूषन्त्य् अनहङ्कृताः

॥१४८॥

नार्यो नात्यचरन् भर्तॄन् भार्यां नात्यचरत् पतिः । सर्वम् आसीज् जगद् दान्तं निर्दस्युर् अभवन् मही

॥१४९॥

राम एकोऽभवद् भर्ता रामः पालयिताभवत् । आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः

॥१५०॥

अरोगाः प्राणिनश् चासन् रामे राज्यं प्रशासति । देवतानाम् ऋषीणां च मनुष्याणां च सर्वशः

॥१५१॥

पृथिव्यां समवायोऽभूद् रामे राज्यं प्रशासति । गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः

॥१५२॥

रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः । श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः

॥१५३॥

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः । दश वर्षसहस्राणि रामो राज्यम् अकारयत्

॥१५४॥

ऋक्सामयजुषां घोषो ज्याघोषश् च महात्मनः । अव्युच्छिन्नोऽभवद् राष्ट्रे दीयतां भुज्यताम् इति

॥१५५॥

सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा । अति चन्द्रं च सूर्यं च रामो दाशरथिर् बभौ

॥१५६॥

ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः । हित्वायोध्यां दिवं यातो राघवो हि महाबलः

॥१५७॥

एवम् एव महाबाहुर् इक्ष्वाकुकुलनन्दनः । रावणं सगणं हत्वा दिवम् आचक्रमे विभुः

॥१५८॥

अपरः केशवस्यायं प्रादुर्भावो महात्मनः । विख्यातो माथुरे कल्पे सर्वलोकहिताय वै

॥१५९॥

यत्र शाल्वं च चैद्यं च कंसं द्विविदम् एव च । अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम्

॥१६०॥

नागं कुवलयापीडं चाणूरं मुष्टिकं तथा । दैत्यान् मानुषदेहेन सूदयाम् आस वीर्यवान्

॥१६१॥

छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । नरकश् च हतः सङ्ख्ये यवनश् च महाबलः

॥१६२॥

हृतानि च महीपानां सर्वरत्नानि तेजसा । दुराचाराश् च निहिताः पार्थिवा ये महीतले

॥१६३॥

एष लोकहितार्थाय प्रादुर्भावो महात्मनः । कल्की विष्णुयशा नाम शम्भलग्रामसम्भवः

॥१६४॥

सर्वलोकहितार्थाय भूयो देवो महायशाः । एते चान्ये च बहवो दिव्या देवगणैर् वृताः

॥१६५॥

प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः । यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने

॥१६६॥

पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् । एतद् उद्देशमात्रेण प्रादुर्भावानुकीर्तनम्

॥१६७॥

कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर् विभोः । प्रीयन्ते पितरस् तस्य प्रादुर्भावानुकीर्तनात्

॥१६८॥

विष्णोर् अमितवीर्यस्य यः शृणोति कृताञ्जलिः

॥१६९॥

एताश् च योगेश्वरयोगमायाः । श्रुत्वा नरो मुच्यति सर्वपापैः । ऋद्धिं समृद्धिं विपुलांश् च भोगान् । प्राप्नोति शीघ्रं भगवत्प्रसादात्

॥१७०॥

एवं मया मुनिश्रेष्ठा विष्णोर् अमिततेजसः । सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः

॥१७१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).