मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २२१

3
ब्रह्मपुराणम् · 221

अध्यायः २२१

व्यास उवाच:

एवं सम्यग् गृहस्थेन देवताः पितरस् तथा । सम्पूज्या हव्यकव्याभ्याम् अन्नेनातिथिबान्धवाः

॥१॥

भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः । भिक्षवो याचमानाश् च ये चान्ये पान्थका गृहे

॥२॥

सदाचाररता विप्राः साधुना गृहमेधिना । पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः

॥३॥

मुनय ऊचुः:

कथितं भवता विप्र नित्यनैमित्तिकं च यत् । नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम्

॥४॥

सदाचारं मुने श्रोतुम् इच्छामो वदतस् तव । यं कुर्वन् सुखम् आप्नोति परत्रेह च मानवः

॥५॥

व्यास उवाच:

गृहस्थेन सदा कार्यम् आचारपरिरक्षणम् । न ह्य् आचारविहीनस्य भद्रम् अत्र परत्र वा

॥६॥

यज्ञदानतपांसीह पुरुषस्य न भूतये । भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते

॥७॥

दुराचारो हि पुरुषो नेहायुर् विन्दते महत् । कार्यो धर्मः सदाचार आचारस्यैव लक्षणम्

॥८॥

तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः । आत्मनैकमना भूत्वा तथैव परिपालयेत्

॥९॥

त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना । तत्संसिद्धौ गृहस्थस्य सिद्धिर् अत्र परत्र च

॥१०॥

पादेनाप्य् अस्य पारत्र्यं कुर्याच् छ्रेयः स्वम् आत्मवान् । अर्धेन चात्मभरणं नित्यनैमित्तिकानि च

॥११॥

पादेनैव तथाप्य् अस्य मूलभूतं विवर्धयेत् । एवम् आचरतो विप्रा अर्थः साफल्यम् ऋच्छति

॥१२॥

तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता । परत्रार्थस् तथैवान्यः कार्योऽत्रैव फलप्रदः

॥१३॥

प्रत्यवायभयात् कामस् तथान्यश् चाविरोधवान् । द्विधा कामोऽपि रचितस् त्रिवर्गायाविरोधकृत्

॥१४॥

परस्परानुबन्धांश् च सर्वान् एतान् विचिन्तयेत् । विपरीतानुबन्धांश् च बुध्यध्वं तान् द्विजोत्तमाः

॥१५॥

धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः । उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः

॥१६॥

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थाव् अनुचिन्तयेत् । समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः

॥१७॥

पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् । उपासीत यथान्यायं नैनां जह्याद् अनापदि

॥१८॥

असत्प्रलापम् अनृतं वाक्पारुष्यं च वर्जयेत् । असच्छास्त्रम् असद्वादम् असत्सेवां च वै द्विजाः

॥१९॥

सायम्प्रातस् तथा होमं कुर्वीत नियतात्मवान् । नोदयास्तमने चैवम् उदीक्षेत विवस्वतः

॥२०॥

केशप्रसाधनादर्शदन्तधावनम् अञ्जनम् । पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम्

॥२१॥

ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि । न विण्मूत्रम् अनुष्ठेयं न च कृष्टे न गोव्रजे

॥२२॥

नग्नां परस्त्रियं नेक्षेन् न पश्येद् आत्मनः शकृत् । उदक्यादर्शनस्पर्शम् एवं सम्भाषणं तथा

॥२३॥

नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् । नाधितिष्ठेच् छकृन्मूत्रे केशभस्मसपालिकाः

॥२४॥

तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च । नाधितिष्ठेत् तथा प्राज्ञः पथि वस्त्राणि वा भुवि

॥२५॥

पितृदेवमनुष्याणां भूतानां च तथार्चनम् । कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुम् अर्हति

॥२६॥

प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः । भुञ्जीत चान्नं तच्चित्तो ह्य् अन्तर्जानुः सदा नरः

॥२७॥

उपघातम् ऋते दोषान् नान्नस्योदीरयेद् बुधः । प्रत्यक्षलवणं वर्ज्यम् अन्नम् उच्छिष्टम् एव च

॥२८॥

न गच्छन् न च तिष्ठन् वै विण्मूत्रोत्सर्गम् आत्मवान् । कुर्वीत चैवम् उच्छिष्टं न किञ्चिद् अपि भक्षयेत्

॥२९॥

उच्छिष्टो नालपेत् किञ्चित् स्वाध्यायं च विवर्जयेत् । न पश्येच् च रविं चेन्दुं नक्षत्राणि च कामतः

॥३०॥

भिन्नासनं च शय्यां च भाजनं च विवर्जयेत् । गुरूणाम् आसनं देयम् अभ्युत्थानादिसत्कृतम्

॥३१॥

अनुकूलं तथालापम् अभिकुर्वीत बुद्धिमान् । तत्रानुगमनं कुर्यात् प्रतिकूलं न सञ्चरेत्

॥३२॥

नैकवस्त्रश् च भुञ्जीत न कुर्याद् देवतार्चनम् । नावाहयेद् द्विजान् अग्नौ होमं कुर्वीत बुद्धिमान्

॥३३॥

न स्नायीत नरो नग्नो न शयीत कदाचन । न पाणिभ्याम् उभाभ्यां तु कण्डूयेत शिरस् तथा

॥३४॥

न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं बुधैः । शिरःस्नातश् च तैलेन नाङ्गं किञ्चिद् उपस्पृशेत्

॥३५॥

अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत् । ब्राह्मणानलगोसूर्यान् नावमन्येत् कदाचन

॥३६॥

उदङ्मुखो दिवा रात्राव् उत्सर्गं दक्षिणामुखः । आबाधासु यथाकामं कुर्यान् मूत्रपुरीषयोः

॥३७॥

दुष्कृतं न गुरोर् ब्रूयात् क्रुद्धं चैनं प्रसादयेत् । परिवादं न शृणुयाद् अन्येषाम् अपि कुर्वताम्

॥३८॥

पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च । विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः

॥३९॥

मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च । देवालयं चैद्यतरुं तथैव च चतुष्पथम्

॥४०॥

विद्याधिकं गुरुं चैव बुधः कुर्यात् प्रदक्षिणम् । उपानद्वस्त्रमाल्यादि धृतम् अन्यैर् न धारयेत्

॥४१॥

चतुर्दश्यां तथाष्टम्यां पञ्चदश्यां च पर्वसु । तैलाभ्यङ्गं तथा भोगं योषितश् च विवर्जयेत्

॥४२॥

नोत्क्षिप्तबाहुजङ्घश् च प्राज्ञस् तिष्ठेत् कदाचन । न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत्

॥४३॥

पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च । मर्माभिघातम् आक्रोशं पैशुन्यं च विवर्जयेत्

॥४४॥

दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः । मूर्खोन्मत्तव्यसनिनो विरूपान् अपि वा तथा

॥४५॥

न्यूनाङ्गांश् चाधनांश् चैव नोपहासेन दूषयेत् । परस्य दण्डं नोद्यच्छेच् छिक्षार्थं शिष्यपुत्रयोः

॥४६॥

तद्वन् नोपविशेत् प्राज्ञः पादेनाकृष्य चासनम् । संयावं कृशरं मांसं नात्मार्थम् उपसाधयेत्

॥४७॥

सायं प्रातश् च भोक्तव्यं कृत्वा चातिथिपूजनम् । प्राङ्मुखोदङ्मुखो वापि वाग्यतो दन्तधावनम्

॥४८॥

कुर्वीत सततं विप्रा वर्जयेद् वर्ज्यवीरुधम् । नोदक्शिराः स्वपेज् जातु न च प्रत्यक्शिरा नरः

॥४९॥

शिरस् त्व् आगस्त्याम् आधाय शयीताथ पुरन्दरीम् । न तु गन्धवतीष्व् अप्सु शयीत न तथोषसि

॥५०॥

उपरागे परं स्नानम् ऋते दिनम् उदाहृतम् । अपमृज्यान् न वस्त्रान्तैर् गात्राण्य् अम्बरपाणिभिः

॥५१॥

न चावधूनयेत् केशान् वाससी न च निर्धुनेत् । अनुलेपनम् आदद्यान् नास्नातः कर्हिचिद् बुधः

॥५२॥

न चापि रक्तवासाः स्याच् चित्रासितधरोऽपि वा । न च कुर्याद् विपर्यासं वाससोर् नापि भूषयोः

॥५३॥

वर्ज्यं च विदशं वस्त्रम् अत्यन्तोपहतं च यत् । कीटकेशावपन्नं च तथा श्वभिर् अवेक्षितम्

॥५४॥

अवलीढं शुना चैव सारोद्धरणदूषितम् । पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत्

॥५५॥

न भक्षयेच् च सततं प्रत्यक्षं लवणं नरः । वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत्

॥५६॥

पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः । तथा मांसविकाराश् च नैव वर्ज्याश् चिरोषिताः

॥५७॥

उदयास्तमने भानोः शयनं च विवर्जयेत् । नास्नातो नैव संविष्टो न चैवान्यमना नरः

॥५८॥

न चैव शयने नोर्व्याम् उपविष्टो न शब्दकृत् । प्रेष्याणाम् अप्रदायाथ न भुञ्जीत कदाचन

॥५९॥

भुञ्जीत पुरुषः स्नातः सायम्प्रातर् यथाविधि । परदारा न गन्तव्याः पुरुषेण विपश्चिता

॥६०॥

इष्टापूर्तायुषां हन्त्री परदारगतिर् नृणाम् । नहीदृशम् अनायुष्यं लोके किञ्चन विद्यते

॥६१॥

यादृशं पुरुषस्येह परदाराभिमर्शनम् । देवाग्निपितृकार्याणि तथा गुर्वभिवादनम्

॥६२॥

कुर्वीत सम्यग् आचम्य तद्वद् अन्नभुजिक्रियाम् । अफेनशब्दगन्धाभिर् अद्भिर् अच्छाभिर् आदरात्

॥६३॥

आचामेच् चैव तद्वच् च प्राङ्मुखोदङ्मुखोऽपि वा । अन्तर्जलाद् आवसथाद् वल्मीकान् मूषिकास्थलात्

॥६४॥

कृतशौचावशिष्टाश् च वर्जयेत् पञ्च वै मृदः । प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः

॥६५॥

अन्तर्जानुस् तथाचामेत् त्रिश् चतुर् वापि वै नरः । परिमृज्य द्विर् आवर्त्य खानि मूर्धानम् एव च

॥६६॥

सम्यग् आचम्य तोयेन क्रियां कुर्वीत वै शुचिः । क्षुतेऽवलीढे वाते च तथा निष्ठीवनादिषु

॥६७॥

कुर्याद् आचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम् । कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च

॥६८॥

यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम् । न विद्यमाने पूर्वोक्त उत्तरप्राप्तिर् इष्यते

॥६९॥

न कुर्याद् दन्तसङ्घर्षं नात्मनो देहताडनम् । स्वापेऽध्वनि तथा भुञ्जन् स्वाध्यायं च विवर्जयेत्

॥७०॥

सन्ध्यायां मैथुनं चापि तथा प्रस्थानम् एव च । तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम्

॥७१॥

शिरःस्नानं च कुर्वीत दैवं पित्र्यम् अथापि च । प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत्

॥७२॥

व्यङ्गिनीं वर्जयेत् कन्यां कुलजां वाप्य् अरोगिणीम् । उद्वहेत् पितृमात्रोश् च सप्तमीं पञ्चमीं तथा

॥७३॥

रक्षेद् दारांस् त्यजेद् ईर्ष्यां तथाह्नि स्वप्नमैथुने । परोपतापकं कर्म जन्तुपीडां च सर्वदा

॥७४॥

उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् । स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत्

॥७५॥

ततः षष्ठ्यां व्रजेद् रात्र्यां ज्येष्ठयुग्मासु रात्रिषु । युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु

॥७६॥

विधर्मिणो वै पर्वादौ सन्ध्याकालेषु षण्ढकाः । क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः

॥७७॥

ब्रुवताम् अविनीतानां न श्रोतव्यं कदाचन । न चोत्कृष्टासनं देयम् अनुत्कृष्टस्य चादरात्

॥७८॥

क्षुरकर्मणि चान्ते च स्त्रीसम्भोगे च भो द्विजाः । स्नायीत चैलवान् प्राज्ञः कटभूमिम् उपेत्य च

॥७९॥

देववेदद्विजातीनां साधुसत्यमहात्मनाम् । गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम्

॥८०॥

परिवादं न कुर्वीत परिहासं च भो द्विजाः । धवलाम्बरसंवीतः सितपुष्पविभूषितः

॥८१॥

सदा माङ्गल्यवेषः स्यान् न वामाङ्गल्यवान् भवेत् । नोद्धतोन्मत्तमूढैश् च नाविनीतैश् च पण्डितः

॥८२॥

गच्छेन् मैत्रीम् अशीलेन न वयोजातिदूषितैः । न चातिव्ययशीलैश् च पुरुषैर् नैव वैरिभिः

॥८३॥

कार्याक्षमैर् निन्दितैर् न न चैव विटसङ्गिभिः । निस्वैर् न वादैकपरैर् नरैश् चान्यैस् तथाधमैः

॥८४॥

सुहृद्दीक्षितभूपालस्नातकश्वशुरैः सह । उत्तिष्ठेद् विभवाच् चैनान् अर्चयेद् गृहम् आगतान्

॥८५॥

यथाविभवतो विप्राः प्रतिसंवत्सरोषितान् । सम्यग् गृहेऽर्चनं कृत्वा यथास्थानम् अनुक्रमात्

॥८६॥

सम्पूजयेत् तथा वह्नौ प्रदद्याच् चाहुतीः क्रमात् । प्रथमां ब्रह्मणे दद्यात् प्रजानां पतये ततः

॥८७॥

तृतीयां चैव गृह्येभ्यः कश्यपाय तथापराम् । ततोऽनुमतये दद्याद् दद्याद् बहुबलिं ततः

॥८८॥

पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया । वैश्वदेवं ततः कुर्याद् वदत शृणुत द्विजाः

॥८९॥

यथास्थानविभागं तु देवान् उद्दिश्य वै पृथक् । पर्जन्यापोधरित्रीणां दद्यात् तु मणिके त्रयम्

॥९०॥

वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् । ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात्

॥९१॥

विश्वेभ्यश् चैव देवेभ्यो विश्वभूतेभ्य एव च । उषसे भूतपतये दद्याद् वोत्तरतः शुचिः

॥९२॥

स्वधा च नम इत्य् उक्त्वा पितृभ्यश् चैव दक्षिणे । कृत्वापसव्यं वायव्यां यक्ष्मैतत् तैति संवदन्

॥९३॥

अन्नावशेषमिश्रं वै तोयं दद्याद् यथाविधि । देवानां च ततः कुर्याद् ब्राह्मणानां नमस्क्रियाम्

॥९४॥

अङ्गुष्ठोत्तरतो रेखा पाणेर् या दक्षिणस्य च । एतद् ब्राह्मम् इति ख्यातं तीर्थम् आचमनाय वै

॥९५॥

तर्जन्यङ्गुष्ठयोर् अन्तः पित्र्यं तीर्थम् उदाहृतम् । पितॄणां तेन तोयानि दद्यान् नान्दीमुखाद् ऋते

॥९६॥

अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः । तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः

॥९७॥

एवम् एभिः सदा तीर्थैर् विधानं पितृभिः सह । सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन

॥९८॥

ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा । देवतीर्थेन देवानां प्राजापत्यं जितेन च

॥९९॥

नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । प्राजापत्येन तीर्थेन यच् च किञ्चित् प्रजापतेः

॥१००॥

युगपज् जलम् अग्निं च बिभृयान् न विचक्षणः । गुरुदेवपितॄन् विप्रान् न च पादौ प्रसारयेत्

॥१०१॥

नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् । शौचकालेषु सर्वेषु गुरुष्व् अल्पेषु वा पुनः । न विलम्बेत मेधावी न मुखेनानलं धमेत्

॥१०२॥

तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणप्रदाता वैद्यश् च श्रोत्रियः सजला नदी

॥१०३॥

जितभृत्यो नृपो यत्र बलवान् धर्मतत्परः । तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम्

॥१०४॥

पौराः सुसंहता यत्र सततं न्यायवर्तिनः । शान्तामत्सरिणो लोकास् तत्र वासः सुखोदयः

॥१०५॥

यस्मिन् कृषीवला राष्ट्रे प्रायशो नातिमानिनः । यत्रौषधान्य् अशेषाणि वसेत् तत्र विचक्षणः

॥१०६॥

तत्र विप्रा न वस्तव्यं यत्रैतत् त्रितयं सदा । जिगीषुः पूर्ववैरश् च जनश् च सततोत्सवः

॥१०७॥

वसेन् नित्यं सुशीलेषु सहचारिषु पण्डितः । यत्राप्रधृष्यो नृपतिर् यत्र सस्यप्रदा मही

॥१०८॥

इत्य् एतत् कथितं विप्रा मया वो हितकाम्यया । अतःपरं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम्

॥१०९॥

भोज्यम् अन्नं पर्युषितं स्नेहाक्तं चिरसम्भृतम् । अस्नेहा अपि गोधूमयवगोरसविक्रियाः

॥११०॥

शशकः कच्छपो गोधा श्वाविन् मत्स्योऽथ शल्यकः । भक्ष्याश् चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ

॥१११॥

पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया । प्रोक्षितं चौषधार्थं च खादन् मांसं न दुष्यति

॥११२॥

शङ्खाश्मस्वर्णरूप्याणां रज्जूनाम् अथ वाससाम् । शाकमूलफलानां च तथा विदलचर्मणाम्

॥११३॥

मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च । पात्राणां चमसानां च अम्बुना शौचम् इष्यते

॥११४॥

तथाश्मकानां तोयेन अश्मसङ्घर्षणेन च । सस्नेहानां च पात्राणां शुद्धिर् उष्णेन वारिणा

॥११५॥

शूर्पाणाम् अजिनानां च मुशलोलूखलस्य च । संहतानां च वस्त्राणां प्रोक्षणात् सञ्चयस्य च

॥११६॥

वल्कलानाम् अशेषाणाम् अम्बुमृच्छौचम् इष्यते । आविकानां समस्तानां केशानां चैवम् इष्यते

॥११७॥

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । शोधनं चैव भवति उपघातवतां सदा

॥११८॥

तथा कार्पासिकानां च शुद्धिः स्याज् जलभस्मना । दारुदन्तास्थिशृङ्गाणां तक्षणाच् छुद्धिर् इष्यते

॥११९॥

पुनः पाकेन भाण्डानां पार्थिवानाम् अमेध्यता । शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा

॥१२०॥

रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम् । प्राक्प्रशस्तं चिरातीतम् अनेकान्तरितं लघु

॥१२१॥

अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम् । कर्मान्तागारशालाश् च स्तनद्वयं शुचि स्त्रियाः

॥१२२॥

शुचयश् च तथैवापः स्रवन्त्यो गन्धवर्जिताः । भूमिर् विशुध्यते कालाद् दाहमार्जनगोकुलैः

॥१२३॥

लेपाद् उल्लेखनात् सेकाद् वेश्म सम्मार्जनादिना । केशकीटावपन्ने च गोघ्राते मक्षिकान्विते

॥१२४॥

मृदम्बु भस्म चाप्य् अन्ने प्रक्षेप्तव्यं विशुद्धये । औदुम्बराणाम् अम्लेन वारिणा त्रपुसीसयोः

॥१२५॥

भस्माम्बुभिश् च कांस्यानां शुद्धिः प्लावो द्रवस्य च । अमेध्याक्तस्य मृत्तोयैर् गन्धापहरणेन च

॥१२६॥

अन्येषां चैव द्रव्याणां वर्णगन्धांश् च हारयेत् । शुचि मांसं तु चाण्डालक्रव्यादैर् विनिपातितम्

॥१२७॥

रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः । रजोऽग्निर् अश्वगोछाया रश्मयः पवनो मही

॥१२८॥

विप्लुषो मक्षिकाद्याश् च दुष्टसङ्गाद् अदोषिणः । अजाश्वं मुखतो मेध्यं न गोर् वत्सस्य चाननम्

॥१२९॥

मातुः प्रस्रवणे मेध्यं शकुनिः फलपातने । आसनं शयनं यानं तटौ नद्यास् तृणानि च

॥१३०॥

सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् । रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु

॥१३१॥

आचामेत यथान्यायं वाससः परिधापने । स्पृष्टानाम् अथ संस्पर्शैर् द्विरथ्याकर्दमाम्भसि

॥१३२॥

पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् । प्रभूतोपहताद् अन्नाद् अग्रम् उद्धृत्य सन्त्यजेत्

॥१३३॥

शेषस्य प्रोक्षणं कुर्याद् आचम्याद्भिस् तथा मृदा । उपवासस् त्रिरात्रं तु दुष्टभक्ताशिनो भवेत्

॥१३४॥

अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु । उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः

॥१३५॥

स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः । नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति

॥१३६॥

आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा । न लङ्घयेत् तथैवाथ ष्ठीवनोद्वर्तनानि च

॥१३७॥

गृहाद् उच्छिष्टविण्मूत्रं पादाम्भस् तत् क्षिपेद् बहिः । पञ्चपिण्डान् अनुद्धृत्य न स्नायात् परवारिणि

॥१३८॥

स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च । नोद्यानादौ विकालेषु प्राज्ञस् तिष्ठेत् कदाचन

॥१३९॥

नालपेज् जनविद्विष्टान् वीरहीनास् तथा स्त्रियः । देवतापितृसच्छास्त्रयज्विसन्न्यासिनिन्दकैः

॥१४०॥

कृत्वा तु स्पर्शनालापं शुध्यत्य् अर्कावलोकनात् । अवलोक्य तथोदक्यां सन्न्यस्तं पतितं शवम्

॥१४१॥

विधर्मिसूतिकाषण्ढविवस्त्रान्त्यावसायिनः । मृतनिर्यातकांश् चैव परदाररताश् च ये

॥१४२॥

एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः । अभोज्यभिक्षुपाखण्डमार्जारखरकुक्कुटान्

॥१४३॥

पतितापविद्धचाण्डालमृताहारांश् च धर्मवित् । संस्पृश्य शुध्यते स्नानाद् उदक्याग्रामशूकरौ

॥१४४॥

तद्वच् च सूतिकाशौचदूषितौ पुरुषाव् अपि । यस्य चानुदिनं हानिर् गृहे नित्यस्य कर्मणः

॥१४५॥

यश् च ब्राह्मणसन्त्यक्तः किल्बिषाशी नराधमः । नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन

॥१४६॥

तस्य त्व् अकरणं वक्ष्ये केवलं मृतजन्मसु । दशाहं ब्राह्मणस् तिष्ठेद् दानहोमविवर्जितः

॥१४७॥

क्षत्रियो द्वादशाहं च वैश्यो मासार्धम् एव च । शूद्रश् च मासम् आसीत निजकर्मविवर्जितः

॥१४८॥

ततः परं निजं कर्म कुर्युः सर्वे यथोचितम् । प्रेताय सलिलं देयं बहिर् गत्वा तु गोत्रकैः

॥१४९॥

प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा । तस्यास्थिसञ्चयः कार्यश् चतुर्थेऽहनि गोत्रकैः

॥१५०॥

ऊर्ध्वं सञ्चयनात् तेषाम् अङ्गस्पर्शो विधीयते । गोत्रकैस् तु क्रियाः सर्वाः कार्याः सञ्चयनात् परम्

॥१५१॥

स्पर्श एव सपिण्डानां मृताहनि तथोभयोः । अन्वर्थम् इच्छया शस्त्ररज्जुबन्धनवह्निषु

॥१५२॥

विषप्रतापादिमृते प्रायानाशकयोर् अपि । बाले देशान्तरस्थे च तथा प्रव्रजिते मृते

॥१५३॥

सद्यः शौचं मनुष्याणां त्र्यहम् उक्तम् अशौचकम् । सपिण्डानां सपिण्डस् तु मृतेऽन्यस्मिन् मृतो यदि

॥१५४॥

पूर्वशौचं समाख्यातं कार्यास् तत्र दिनक्रियाः । एष एव विधिर् दृष्टो जन्मन्य् अपि हि सूतके

॥१५५॥

सपिण्डानां सपिण्डेषु यथावत् सोदकेषु च । पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते

॥१५६॥

तत्रापि यदि वान्यस्मिन्न् अनुयातस् ततः परम् । तत्रापि शुद्धिर् उदिता पूर्वजन्मवतो दिनैः

॥१५७॥

दशद्वादशमासार्धमाससङ्ख्यैर् दिनैर् गतैः । स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि

॥१५८॥

प्रेतम् उद्दिश्य कर्तव्यम् एकोद्दिष्टम् अतः परम् । दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः

॥१५९॥

यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे । तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता

॥१६०॥

पूर्णैस् तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः । दत्तप्रेतोदपिण्डाश् च सर्वे वर्णाः कृतक्रियाः

॥१६१॥

कुर्युः समग्राः शुचिनः परत्रेह च भूतये । अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता

॥१६२॥

धर्मतो धनम् आहार्यं यष्टव्यं चापि यत्नतः । येन प्रकुपितो नात्मा जुगुप्साम् एति भो द्विजाः

॥१६३॥

तत् कर्तव्यम् अशङ्केन यन् न गोप्यं महाजनैः । एवम् आचरतो विप्राः पुरुषस्य गृहे सतः

॥१६४॥

धर्मार्थकामं सम्प्राप्य परत्रेह च शोभनम् । इदं रहस्यम् आयुष्यं धन्यं बुद्धिविवर्धनम्

॥१६५॥

सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम् । यशःकीर्तिप्रदं नॄणां तेजोबलविवर्धनम्

॥१६६॥

अनुष्ठेयं सदा पुम्भिः स्वर्गसाधनम् उत्तमम् । ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् च मुनिसत्तमाः

॥१६७॥

ज्ञातव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः । ज्ञात्वैव यः सदा कालम् अनुष्ठानं करोति वै

॥१६८॥

सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते । सारात् सारतरं चेदम् आख्यातं द्विजसत्तमाः

॥१६९॥

श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित् । न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः । न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने

॥१७०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).