मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २२३

3
ब्रह्मपुराणम् · 223

अध्यायः २२३

मुनय ऊचुः:

सर्वज्ञस् त्वं महाभाग सर्वभूतहिते रतः । भूतं भव्यं भविष्यं च न तेऽस्त्य् अविदितं मुने

॥१॥

कर्मणा केन वर्णानाम् अधमा जायते गतिः । उत्तमा च भवेत् केन ब्रूहि तेषां महामते

॥२॥

शूद्रस् तु कर्मणा केन ब्राह्मणत्वं च गच्छति । श्रोतुम् इच्छामहे केन ब्राह्मणः शूद्रताम् इयात्

॥३॥

व्यास उवाच:

हिमवच्छिखरे रम्ये नानाधातुविभूषिते । नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते

॥४॥

तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् । शैलराजसुता देवी प्रणिपत्य सुरेश्वरम्

॥५॥

इमं प्रश्नं पुरा विप्रा अपृच्छच् चारुलोचना । तद् अहं सम्प्रवक्ष्यामि शृणुध्वं मम सत्तमाः

॥६॥

उमोवाच:

भगवन् भगनेत्रघ्न पूष्णो दन्तविनाशन । दक्षक्रतुहर त्र्यक्ष संशयो मे महान् अयम्

॥७॥

चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा । केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम्

॥८॥

वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् । प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम्

॥९॥

केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते । क्षत्रियः शूद्रताम् एति केन वा कर्मणा विभो

॥१०॥

एतं मे संशयं देव वद भूतपतेऽनघ । त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यम् आप्नुयुः

॥११॥

शिव उवाच:

ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे । क्षत्रियो वैश्यशूद्रौ वा निसर्गाद् इति मे मतिः

॥१२॥

कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति स द्विजः । श्रेष्ठं वर्णम् अनुप्राप्य तस्माद् आक्षिप्यते पुनः

॥१३॥

स्थितो ब्राह्मणधर्मेण ब्राह्मण्यम् उपजीवति । क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति

॥१४॥

यश् च विप्रत्वम् उत्सृज्य क्षत्रधर्मान् निषेवते । ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते

॥१५॥

वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः । ब्राह्मण्यं दुर्लभं प्राप्य करोत्य् अल्पमतिः सदा

॥१६॥

स द्विजो वैश्यताम् एति वैश्यो वा शूद्रताम् इयात् । स्वधर्मात् प्रच्युतो विप्रस् ततः शूद्रत्वम् आप्नुयात्

॥१७॥

तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः । ब्रह्मलोकात् परिभ्रष्टः शूद्रयोनौ प्रजायते

॥१८॥

क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि । स्वानि कर्माण्य् अपाकृत्य शूद्रकर्म निषेवते

॥१९॥

स्वस्थानात् स परिभ्रष्टो वर्णसङ्करतां गतः । ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः

॥२०॥

यस् तु शूद्रः स्वधर्मेण ज्ञानविज्ञानवाञ् शुचिः । धर्मज्ञो धर्मनिरतः स धर्मफलम् अश्नुते

॥२१॥

इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् । अध्यात्मं नैष्ठिकी सिद्धिर् धर्मकामैर् निषेव्यते

॥२२॥

उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् । घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव वा क्वचित्

॥२३॥

शूद्रान्नं गर्हितं देवि सदा देवैर् महात्मभिः । पितामहमुखोत्सृष्टं प्रमाणम् इति मे मतिः

॥२४॥

शूद्रान्नेनावशेषेण जठरे म्रियते द्विजः । आहिताग्निस् तथा यज्वा स शूद्रगतिभाग् भवेत्

॥२५॥

तेन शूद्रान्नशेषेण ब्रह्मस्थानाद् अपाकृतः । ब्राह्मणः शूद्रताम् एति नास्ति तत्र विचारणा

॥२६॥

यस्यान्नेनावशेषेण जठरे म्रियते द्विजः । तां तां योनिं व्रजेद् विप्रो यस्यान्नम् उपजीवति

॥२७॥

ब्राह्मणत्वं सुखं प्राप्य दुर्लभं योऽवमन्यते । अभोज्यान्नानि वाश्नाति स द्विजत्वात् पतेत वै

॥२८॥

सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतोऽशुचिः । स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः

॥२९॥

अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी । विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः

॥३०॥

गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश् च यः । ब्रह्मद्विड् वापि पतति ब्राह्मणो ब्रह्मयोनितः

॥३१॥

एभिस् तु कर्मभिर् देवि शुभैर् आचरितैस् तथा । शूद्रो ब्राह्मणतां गच्छेद् वैश्यः क्षत्रियतां व्रजेत्

॥३२॥

शूद्रः कर्माणि सर्वाणि यथान्यायं यथाविधि । सर्वातिथ्यम् उपातिष्ठञ् शेषान्नकृतभोजनः

॥३३॥

शुश्रूषां परिचर्यां यो ज्येष्ठवर्णे प्रयत्नतः । कुर्याद् अविमनाः श्रेष्ठः सततं सत्पथे स्थितः

॥३४॥

देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः । ऋतुकालाभिगामी च नियतो नियताशनः

॥३५॥

दक्षः शिष्टजनान्वेषी शेषान्नकृतभोजनः । वृथा मांसं न भुञ्जीत शूद्रो वैश्यत्वम् ऋच्छति

॥३६॥

ऋतवाग् अनहंवादी निर्द्वन्द्वः सामकोविदः । यजते नित्ययज्ञैश् च स्वाध्यायपरमः शुचिः

॥३७॥

दान्तो ब्राह्मणसत्कर्ता सर्ववर्णानसूयकः । गृहस्थव्रतम् आतिष्ठन् द्विकालकृतभोजनः

॥३८॥

शेषाशी विजिताहारो निष्कामो निरहंवदः । अग्निहोत्रम् उपासीनो जुह्वानश् च यथाविधि

॥३९॥

सर्वातिथ्यम् उपातिष्ठञ् शेषान्नकृतभोजनः । त्रेताग्निमात्रविहितं वैश्यो भवति च द्विजः

॥४०॥

स वैश्यः क्षत्रियकुले शुचिर् महति जायते । स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः

॥४१॥

उपनीतो व्रतपरो द्विजो भवति संस्कृतः । ददाति यजते यज्ञैः समृद्धैर् आप्तदक्षिणैः

॥४२॥

अधीत्य स्वर्गम् अन्विच्छंस् त्रेताग्निशरणः सदा । आर्द्रहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्

॥४३॥

सत्यः सत्यानि कुरुते नित्यं यः शुद्धिदर्शनः । धर्मदण्डेन निर्दग्धो धर्मकामार्थसाधकः

॥४४॥

यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः । ग्राम्यधर्मान् न सेवेत स्वच्छन्देनार्थकोविदः

॥४५॥

ऋतुकाले तु धर्मात्मा पत्नीम् उपाश्रयेत् सदा । सदोपवासी नियतः स्वाध्यायनिरतः शुचिः

॥४६॥

वहिस्कान्तरिते नित्यं शयानोऽस्ति सदा गृहे । सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा

॥४७॥

शूद्राणां चान्नकामानां नित्यं सिद्धम् इति ब्रुवन् । स्वार्थाद् वा यदि वा कामान् न किञ्चिद् उपलक्षयेत्

॥४८॥

पितृदेवातिथिकृते साधनं कुरुते च यत् । स्ववेश्मनि यथान्यायम् उपास्ते भैक्ष्यम् एव च

॥४९॥

द्विकालम् अग्निहोत्रं च जुह्वानो वै यथाविधि । गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः

॥५०॥

त्रेताग्निमन्त्रपूतेन समाविश्य द्विजो भवेत् । ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः

॥५१॥

वैश्यो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा । एतैः कर्मफलैर् देवि न्यूनजातिकुलोद्भवः

॥५२॥

शूद्रोऽप्य् आगमसम्पन्नो द्विजो भवति संस्कृतः । ब्राह्मणो वाप्य् असद्वृत्तः सर्वसङ्करभोजनः

॥५३॥

स ब्राह्मण्यं समुत्सृज्य शूद्रो भवति तादृशः । कर्मभिः शुचिभिर् देवी शुद्धात्मा विजितेन्द्रियः

॥५४॥

शूद्रोऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम् । स्वभावकर्मणा चैव यत्र शूद्रोऽधितिष्ठति

॥५५॥

विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः । न योनिर् नापि संस्कारो न श्रुतिर् न च सन्ततिः

॥५६॥

कारणानि द्विजत्वस्य वृत्तम् एव तु कारणम् । सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते

॥५७॥

वृत्ते स्थितश् च शूद्रोऽपि ब्राह्मणत्वं च गच्छति । ब्रह्मस्वभावः सुश्रोणि समः सर्वत्र मे मतः

॥५८॥

निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः । एते ये विमला देवि स्थानभावनिदर्शकाः

॥५९॥

स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः । ब्रह्मणो हि महत् क्षेत्रं लोके चरति पादवत्

॥६०॥

यत् तत्र बीजं पतति सा कृषिः प्रेत्य भाविनी । सन्तुष्टेन सदा भाव्यं सत्पथालम्बिना सदा

॥६१॥

ब्राह्मं हि मार्गम् आक्रम्य वर्तितव्यं बुभूषता । संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना

॥६२॥

नित्यं स्वाध्याययुक्तेन न चाध्ययनजीविना । एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः

॥६३॥

आहिताग्निर् अधीयानो ब्रह्मभूयाय कल्पते । ब्राह्मण्यं देवि सम्प्राप्य रक्षितव्यं यतात्मना

॥६४॥

योनिप्रतिग्रहादानैः कर्मभिश् च शुचिस्मिते । एतत् ते गुह्यम् आख्यातं यथा शूद्रो भवेद् द्विजः । ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वम् आप्नुयात्

॥६५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).