मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २२५

3
ब्रह्मपुराणम् · 225

अध्यायः २२५

उमोवाच:

किंशीलः किंसमाचारः पुरुषः कैश् च कर्मभिः । स्वर्गं समभिपद्येत सम्प्रदानेन केन वा

॥१॥

महेश्वर उवाच:

दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु । भक्षभोज्यान्नपानानां वाससां च महामतिः

॥२॥

प्रतिश्रयान् सभाः कुर्यात् प्रपाः पुष्करिणीस् तथा । नित्यकादीनि कर्माणि करोति प्रयतः शुचिः

॥३॥

आसनं शयनं यानं गृहं रत्नं धनं तथा । सस्यजातानि सर्वाणि सक्षेत्राण्य् अथ योषितः

॥४॥

सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः । एवम्भूतो नरो देवि देवलोकेऽभिजायते

॥५॥

तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान् । सहाप्सरोभिर् मुदितो रमित्वा नन्दनादिषु

॥६॥

तस्माच् च्युतो महेशानि मानुषेषूपजायते । महाभागकुले देवि धनधान्यसमाचिते

॥७॥

तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः । महाकार्यो महाभोगो धनी भवति मानवः

॥८॥

एते देवि महाभागाः प्राणिनो दानशालिनः । ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः

॥९॥

अपरे मानवा देवि प्रदानकृपणा द्विजाः । येऽन्नानि न प्रयच्छन्ति विद्यमानेऽप्य् अबुद्धयः

॥१०॥

दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि । याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः

॥११॥

न धनानि न वासांसि न भोगान् न च काञ्चनम् । न गाश् च नान्नविकृतिं प्रयच्छन्ति कदाचन

॥१२॥

अप्रलुब्धाश् च ये लुब्धा नास्तिका दानवर्जितः । एवम्भूता नरा देवि निरयं यान्त्य् अबुद्धयः

॥१३॥

ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् । धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः

॥१४॥

क्षुत्पिपासापरीताश् च सर्वलोकबहिष्कृताः । निराशाः सर्वभोगेभ्यो जीवन्त्य् अधर्मजीविकाः

॥१५॥

अल्पभोगकुले जाता अल्पभोगरता नराः । अनेन कर्मणा देवि भवन्त्य् अधनिनो नराः

॥१६॥

अपरे दम्भिनो नित्यं मानिनः परतो रताः । आसनार्हस्य ये पीठं न यच्छन्त्य् अल्पचेतसः

॥१७॥

मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्य् अबुद्धयः । अर्घार्हान् न च संस्कारैर् अर्चयन्ति यथाविधि

॥१८॥

पाद्यम् आचमनीयं वा प्रयच्छन्त्य् अभिबुद्धयः । शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये

॥१९॥

अभिमानप्रवृद्धेन लोभेन समम् आस्थिताः । सम्मान्यांश् चावमन्यन्ते वृद्धान् परिभवन्ति च

॥२०॥

एवंविधा नरा देवि सर्वे निरयगामिनः । ते चेद् यदि नरास् तस्मान् निरयाद् उत्तरन्ति च

॥२१॥

वर्षपूगैस् ततो जन्म लभन्ते कुत्सिते कुले । श्वपाकपुल्कसादीनां कुत्सितानाम् अचेतसाम्

॥२२॥

कुलेषु तेऽभिजायन्ते गुरुवृद्धोपतापिनः । न दम्भी न च मानी यो देवतातिथिपूजकः

॥२३॥

लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः । सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा

॥२४॥

अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा । स्वागतेनैव सर्वेषां भूतानाम् अविहिंसकः

॥२५॥

यथार्थं सत्क्रियापूर्वम् अर्चयन्न् अवतिष्ठते । मार्गार्हाय ददन् मार्गं गुरुम् अभ्यर्चयन् सदा

॥२६॥

अतिथिप्रग्रहरतस् तथाभ्यागतपूजकः । एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते

॥२७॥

ततो मानुष्यम् आसाद्य विशिष्टकुलजो भवेत् । तत्रासौ विपुलैर् भोगैः सर्वरत्नसमायुतः

॥२८॥

यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् । सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः

॥२९॥

स्वकर्मफलम् आप्नोति स्वयम् एव नरः सदा । एष धर्मो मया प्रोक्तो विधात्रा स्वयम् ईरितः

॥३०॥

यस् तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः । हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः

॥३१॥

लोष्टैः स्तम्भैर् उपायैर् वा जन्तून् बाधेत शोभने । हिंसार्थं निष्कृतिप्रज्ञः प्रोद्वेजयति चैव हि

॥३२॥

उपक्रामति जन्तूंश् च उद्वेगजननः सदा । एवं शीलसमाचारो निरयं प्रतिपद्यते

॥३३॥

स चेन् मनुष्यतां गच्छेद् यदि कालस्य पर्ययात् । बह्वाबाधापरिक्लिष्टे कुले जयति सोऽधमे

॥३४॥

लोकद्विष्टोऽधमः पुंसां स्वयं कर्मकृतैः फलैः । एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु

॥३५॥

अपरः सर्वभूतानि दयावान् अनुपश्यति । मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः

॥३६॥

नोद्वेजयति भूतानि न च हन्ति दयापरः । हस्तपादैश् च नियतैर् विश्वास्यः सर्वजन्तुषु

॥३७॥

न रज्ज्वा न च दण्डेन न लोष्टैर् नायुधेन च । उद्वेजयति भूतानि शुभकर्मा दयापरः

॥३८॥

एवं शीलसमाचारः स्वर्गे समुपजायते । तत्रासौ भवने दिव्ये मुदा वसति देववत्

॥३९॥

स चेत् स्वर्गक्षयान् मर्त्यो मनुष्येषूपजायते । अल्पायासो निरातङ्कः स जातः सुखम् एधते

॥४०॥

सुखभागी निरायासो निरुद्वेगः सदा नरः । एष देवि सतां मार्गो बाधा यत्र न विद्यते

॥४१॥

उमोवाच:

इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः । ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः

॥४२॥

दुष्प्रज्ञाश् चापरे देव ज्ञानविज्ञानवर्जिताः । केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत्

॥४३॥

अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः । एवं त्वं संशयं छिन्धि सर्वधर्मभृतां वर

॥४४॥

जात्यन्धाश् चापरे देव रोगार्ताश् चापरे तथा । नराः क्लीबाश् च दृश्यन्ते कारणं ब्रूहि तत्र वै

॥४५॥

महेश्वर उवाच:

ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस् तथा । परिपृच्छन्त्य् अहरहः कुशलाकुशलं सदा

॥४६॥

वर्जयन्तोऽशुभं कर्म सेवमानाः शुभं तथा । लभन्ते स्वर्गतिं नित्यम् इह लोके यथासुखम्

॥४७॥

स चेन् मनुष्यतां याति मेधावी तत्र जायते । श्रुतं यज्ञानुगं यस्य कल्याणम् उपजायते

॥४८॥

परदारेषु ये चापि चक्षुर् दुष्टं प्रयुञ्जते । तेन दुष्टस्वभावेन जात्यन्धास् ते भवन्ति हि

॥४९॥

मनसापि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् । रोगार्तास् ते भवन्तीह नरा दुष्कृतकारिणः

॥५०॥

ये तु मूढा दुराचारा वियोनौ मैथुने रताः । पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वम् उपयान्ति ते

॥५१॥

पशूंश् च ये वै बध्नन्ति ये चैव गुरुतल्पगाः । प्रकीर्णमैथुना ये च क्लीबा जायन्ति वै नराः

॥५२॥

उमोवाच:

अवद्यं किं तु वै कर्म निरवद्यं तथैव च । श्रेयः कुर्वन्न् अवाप्नोति मानवो देवसत्तम

॥५३॥

महेश्वर उवाच:

श्रेयांसं मार्गम् अन्विच्छन् सदा यः पृच्छति द्विजान् । धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते

॥५४॥

यदि मानुष्यतां देवि कदाचित् सन्नियच्छति । मेधावी धारणायुक्तः प्राज्ञस् तत्रापि जायते

॥५५॥

एष देवि सतां धर्मो गन्तव्यो भूतिकारकः । नृणां हितार्थाय सदा मया चैवम् उदाहृतः

॥५६॥

उमोवाच:

अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः । ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम्

॥५७॥

व्रतवन्तो नराः केचिच् छ्रद्धादमपरायणाः । अव्रता भ्रष्टनियमास् तथान्ये राक्षसोपमाः

॥५८॥

यज्वानश् च तथैवान्ये निर्मोहाश् च तथा परे । केन कर्मविपाकेन भवन्तीह वदस्व मे

॥५९॥

महेश्वर उवाच:

आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः । प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः

॥६०॥

अधर्मं धर्मम् इत्य् आहुर् ये च मोहवशं गताः । अव्रता नष्टमर्यादास् ते नरा ब्रह्मराक्षसाः

॥६१॥

ये वै कालकृतोद्योगात् सम्भवन्तीह मानवाः । निर्होमा निर्वषट्कारास् ते भवन्ति नराधमाः

॥६२॥

एष देवि मया सर्वसंशयच्छेदनाय ते । कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः

॥६३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).