मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २२९

3
ब्रह्मपुराणम् · 229

अध्यायः २२९

मुनय ऊचुः:

श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे । कृष्णस्य येन चाण्डालो गतोऽसौ परमां गतिम्

॥१॥

यथा विष्णौ भवेद् भक्तिस् तन् नो ब्रूहि महामते । तपसा कर्मणा येन श्रोतुम् इच्छाम साम्प्रतम्

॥२॥

व्यास उवाच:

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः । यथा कृष्णे भवेद् भक्तिः पुरुषस्य महाफला

॥३॥

संसारेऽस्मिन् महाघोरे सर्वभूतभयावहे । महामोहकरे नॄणां नानादुःखशताकुले

॥४॥

तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः । कथञ्चिल् लभते जन्म देही मानुष्यकं द्विजाः

॥५॥

मानुषत्वेऽपि विप्रत्वं विप्रत्वेऽपि विवेकिता । विवेकाद् धर्मबुद्धिस् तु बुद्ध्या तु श्रेयसां ग्रहः

॥६॥

यावत् पापक्षयं पुंसां न भवेज् जन्म सञ्चितम् । तावन् न जायते भक्तिर् वासुदेवे जगन्मये

॥७॥

तस्माद् वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् । अन्यदेवेषु या भक्तिः पुरुषस्येह जायते

॥८॥

कर्मणा मनसा वाचा तद्गतेनान्तरात्मना । तेन तस्य भवेद् भक्तिर् यजने मुनिसत्तमाः

॥९॥

स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः । तुष्टे हुताशने तस्य भक्तिर् भवति भास्करे

॥१०॥

पूजां करोति सततम् आदित्यस्य ततो द्विजाः । प्रसन्ने भास्करे तस्य भक्तिर् भवति शङ्करे

॥११॥

पूजां करोति विधिवत् स तु शम्भोः प्रयत्नतः । तुष्टे त्रिलोचने तस्य भक्तिर् भवति केशवे

॥१२॥

सम्पूज्य तं जगन्नाथं वासुदेवाख्यम् अव्ययम् । ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः

॥१३॥

मुनय ऊचुः:

अवैष्णवा नरा ये तु दृश्यन्ते च महामुने । किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज

॥१४॥

व्यास उवाच:

द्वौ भूतसर्गौ विख्यातौ लोकेऽस्मिन् मुनिसत्तमाः । आसुरश् च तथा दैवः पुरा सृष्टः स्वयम्भुवा

॥१५॥

दैवीं प्रकृतिम् आसाद्य पूजयन्ति ततोऽच्युतम् । आसुरीं योनिम् आपन्ना दूषयन्ति नरा हरिम्

॥१६॥

मायया हतविज्ञाना विष्णोस् ते तु नराधमाः । अप्राप्य तं हरिं विप्रास् ततो यान्त्य् अधमां गतिम्

॥१७॥

तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः । महामोहकरी नॄणां दुस्तरा चाकृतात्मभिः

॥१८॥

मुनय ऊचुः:

इच्छामस् तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् । वक्तुम् अर्हसि धर्मज्ञ परं कौतूहलं हि नः

॥१९॥

व्यास उवाच:

स्वप्नेन्द्रजालसङ्काशा माया सा लोककर्षणी । कः शक्नोति हरेर् मायां ज्ञातुं तां केशवाद् ऋते

॥२०॥

या वृत्ता ब्राह्मणस्यासीन् मायार्थे नारदस्य च । विडम्बनां तु तां विप्राः शृणुध्वं गदतो मम

॥२१॥

प्राग् आसीन् नृपतिः श्रीमान् आग्नीध्र इति विश्रुतः । नगरे कामदमनस् तस्याथ तनयः शुचिः

॥२२॥

धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः । प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः

॥२३॥

पितास्य त्व् अकरोद् यत्नं विवाहाय न चैच्छत । तं पिता प्राह किम् इति नेच्छसे दारसङ्ग्रहम्

॥२४॥

सर्वम् एतत् सुखार्थं हि वाञ्छन्ति मनुजाः किल । सुखमूला हि दाराश् च तस्मात् तं त्वं समाचर

॥२५॥

स पितुर् वचनं श्रुत्वा तूष्णीम् आस्ते च गौरवात् । मुहुर् मुहुस् तं च पिता चोदयाम् आस भो द्विजाः

॥२६॥

अथासौ पितरं प्राह तात नामानुरूपता । मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी

॥२७॥

तं पिता प्राह सङ्गम्य नैष धर्मोऽस्ति पुत्रक । न विधारयितव्या स्यात् पुरुषेण विपश्चिता

॥२८॥

कुरु मद्वचनं पुत्र प्रभुर् अस्मि पिता तव । मा निमज्ज कुलं मह्यं नरके सन्ततिक्षयात्

॥२९॥

स हि तं पितुर् आदेशं श्रुत्वा प्राह सुतो वशी । प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम्

॥३०॥

पुत्र उवाच:

शृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् । नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव

॥३१॥

मया जन्मसहस्राणि जरामृत्युशतानि च । प्राप्तानि दारसंयोगवियोगानि च सर्वशः

॥३२॥

तृणगुल्मलतावल्लीसरीसृपमृगद्विजाः । पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया

॥३३॥

गणकिन्नरगन्धर्वविद्याधरमहोरगाः । यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः

॥३४॥

नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः । सृष्टस् तु बहुशः सृष्टौ संहारे चापि संहृतः

॥३५॥

दारसंयोगयुक्तस्य तातेदृङ् मे विडम्बना । इतस् तृतीये यद् वृत्तं मम जन्मनि तच् छृणु । कथयामि समासेन तीर्थमाहात्म्यसम्भवम्

॥३६॥

अतीत्य जन्मानि बहूनि तात । नृदेवगन्धर्वमहोरगाणाम् । विद्याधराणां खगकिन्नराणां । जातो हि वंशे सुतपा महर्षिः

॥३७॥

ततो महाभूद् अचला हि भक्तिर् । जनार्दने लोकपतौ मधुघ्ने । व्रतोपवासैर् विविधैश् च भक्त्या । सन्तोषितश् चक्रगदास्त्रधारी

॥३८॥

तुष्टोऽभ्यगात् पक्षिपतिं महात्मा । विष्णुः समारुह्य वरप्रदो मे । प्राहोच्चशब्दं व्रियतां द्विजाते । वरो हि यं वाञ्छसि तं प्रदास्ये

॥३९॥

ततोऽहम् ऊचे हरिम् ईशितारं । तुष्टोऽसि चेत् केशव तद् वृणोमि । या सा त्वदीया परमा हि माया । तां वेत्तुम् इच्छामि जनार्दनोऽहम्

॥४०॥

अथाब्रवीन् मे मधुकैटभारिः । किं ते तया ब्रह्मन् मायया वै । धर्मार्थकामानि ददानि तुभ्यं । पुत्राणि मुख्यानि निरामयत्वम्

॥४१॥

ततो मुरारिं पुनर् उक्तवान् अहं । भूयोऽर्थधर्मार्थजिगीषितैव यत् । माया तवेमाम् इह वेत्तुम् इच्छे । ममाद्य तां दर्शय पुष्कराक्ष

॥४२॥

ततोऽभ्युवाचाथ नृसिंहमुख्यः । श्रीशः प्रभुर् विष्णुर् इदं वचो मे ।

॥४३॥

विष्णुर् उवाच:

मायां मदीयां नहि वेत्ति कश्चिन् । न चापि वा वेत्स्यति कश्चिद् एव

॥४३॥

पूर्वं सुरर्षिर् द्विज नारदाख्यो । ब्रह्मात्मजोऽभून् मम भक्तियुक्तः । तेनापि पूर्वं भवता यथैव । सन्तोषितो भक्तिमता हि तद्वत्

॥४४॥

वरं च दत्तं गतवान् अहं च । स चापि वव्रे वरम् एतद् एव । निवारितो माम् अतिमूढभावाद् । भवान् यथैवं वृतवान् वरं च

॥४५॥

ततो मयोक्तोऽम्भसि नारद त्वं । मायां हि मे वेत्स्यसि सन्निमग्नः । ततो निमग्नोऽम्भसि नारदोऽसौ । कन्या बभौ काशिपतेः सुशीला

॥४६॥

तां यौवनाढ्याम् अथ चारुधर्मिणे । विदर्भराज्ञस् तनयाय वै ददौ । स्वधर्मणे सोऽपि तया समेतः । सिषेव कामान् अतुलान् महर्षिः

॥४७॥

स्वर्गे गतेऽसौ पितरि प्रतापवान् । राज्यं क्रमायातम् अवाप्य हृष्टः । विदर्भराष्ट्रं परिपालयानः । पुत्रैः सपौत्रैर् बहुभिर् वृतोऽभूत्

॥४८॥

अथाभवद् भूमिपतेः सुधर्मणः । काशीश्वरेणाथ समं सुयुद्धम् । तत्र क्षयं प्राप्य सपुत्रपौत्रं । विदर्भराट् काशिपतिश् च युद्धे

॥४९॥

ततः सुशीला पितरं सपुत्रं । ज्ञात्वा पतिं चापि सपुत्रपौत्रम् । पुराद् विनिःसृत्य रणावनिं गता । दृष्ट्वा सुशीला कदनं महान्तम्

॥५०॥

भर्तुर् बले तत्र पितुर् बले च । दुःखान्विता सा सुचिरं विलप्य । जगाम सा मातरम् आर्तरूपा । भ्रातॄन् सुतान् भ्रातृसुतान् सपौत्रान्

॥५१॥

भर्तारम् एषा पितरं च गृह्य । महाश्मशाने च महाचितिं सा । कृत्वा हुताशं प्रददौ स्वयं च । यदा समिद्धो हुतभुग् बभूव

॥५२॥

तदा सुशीला प्रविवेश वेगाद् । धा पुत्र हा पुत्र इति ब्रुवाणा । तदा पुनः सा मुनिर् नारदोऽभूत् । स चापि वह्निः स्फटिकामलाभः

॥५३॥

पूर्णं सरोऽभूद् अथ चोत्ततार । तस्याग्रतो देववरस् तु केशवः । ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। प्रहस्य देवर्षिम् उवाच नारदम्

॥५४॥

कस् ते तु पुत्रो वद मे महर्षे । मृतं च कं शोचसि नष्टबुद्धिः । व्रीडान्वितोऽभूद् अथ नारदोऽसौ । ततोऽहम् एनं पुनर् एव चाह

॥५५॥

इतीदृशा नारद कष्टरूपा । माया मदीया कमलासनाद्यैः । शक्या न वेत्तुं समहेन्द्ररुद्रैः । कथं भवान् वेत्स्यति दुर्विभाव्याम्

॥५६॥

स वाक्यम् आकर्ण्य महामहर्षिर् । उवाच भक्तिं मम देहि विष्णो । प्राप्तेऽथ काले स्मरणं तथैव । सदा च सन्दर्शनम् ईश तेऽस्तु

॥५७॥

यत्राहम् आर्तश् चितिम् अद्य रूढस् । तत् तीर्थम् अस्त्व् अच्युतपापहन्त्रा । अधिष्ठितं केशव नित्यम् एव । त्वया सहासं कमलोद्भवेन

॥५८॥

ततो मयोक्तो द्विज नारदोऽसौ । तीर्थं सितोदे हि चितिस् तवास्तु । स्थास्याम्य् अहं चात्र सदैव विष्णुर् । महेश्वरः स्थास्यति चोत्तरेण

॥५९॥

यदा विरञ्चेर् वदनं त्रिनेत्रः । स च्छेत्स्यतेयं च ममोग्रवाचम् । तदा कपालस्य तु मोचनाय । समेष्यते तीर्थम् इदं त्वदीयम्

॥६०॥

स्नातस्य तीर्थे त्रिपुरान्तकस्य । पतिष्यते भूमितले कपालम् । ततस् तु तीर्थेति कपालमोचनं । ख्यातं पृथिव्यां च भविष्यते तत्

॥६१॥

तदा प्रभृत्य् अम्बुदवाहनोऽसौ । न मोक्ष्यते तीर्थवरं सुपुण्यम् । न चैव तस्मिन् द्विज सम्प्रचक्षते । तत् क्षेत्रम् उग्रं त्व् अथ ब्रह्मवध्या

॥६२॥

यदा न मोक्षत्य् अमरारिहन्ता । तत् क्षेत्रमुख्यं महद् आप्तपुण्यम् । तदा विमुक्तेति सुरै रहस्यं । तीर्थं स्तुतं पुण्यदम् अव्ययाख्यम्

॥६३॥

कृत्वा तु पापानि नरो महान्ति । तस्मिन् प्रविष्टः शुचिर् अप्रमादी । यदा तु मां चिन्तयते स शुद्धः । प्रयाति मोक्षं भगवत्प्रसादात्

॥६४॥

भूत्वा तस्मिन् रुद्रपिशाचसञ्ज्ञो । योन्यन्तरे दुःखम् उपाश्नुतेऽसौ । विमुक्तपापो बहुवर्षपूगैर् । उत्पत्तिम् आयास्यति विप्रगेहे

॥६५॥

शुचिर् यतात्मास्य ततोऽन्तकाले । रुद्रो हितं तारकम् अस्य कीर्तयेत् । इत्य् एवम् उक्त्वा द्विजवर्य नारदं । गतोऽस्मि दुग्धार्णवम् आत्मगेहम्

॥६६॥

स चापि विप्रस् त्रिदिवं चचार । गन्धर्वराजेन समर्च्यमानः । एतत् तवोक्तं ननु बोधनाय । माया मदीया नहि शक्यते सा

॥६७॥

ज्ञातुं भवान् इच्छति चेत् ततोऽद्य । एवं विशस्वाप्सु च वेत्सि येन । एवं द्विजातिर् हरिणा प्रबोधितो । भाव्यर्थयोगान् निममज्ज तोये

॥६८॥

कोकामुखे तात ततो हि कन्या । चाण्डालवेश्मन्य् अभवद् द्विजः सः । रूपान्विता शीलगुणोपपन्ना । अवाप सा यौवनम् आससाद

॥६९॥

चाण्डालपुत्रेण सुबाहुनापि । विवाहिता रूपविवर्जितेन । पतिर् न तस्या हि मतो बभूव । सा तस्य चैवाभिमता बभूव

॥७०॥

पुत्रद्वयं नेत्रहीनं बभूव । कन्या च पश्चाद् बधिरा तथान्या । पतिर् दरिद्रस् त्व् अथ सापि मुग्धा । नदीगता रोदिति तत्र नित्यम्

॥७१॥

गता कदाचित् कलशं गृहीत्वा । सान्तर् जलं स्नातुम् अथ प्रविष्टा । यावद् द्विजोऽसौ पुनर् एव तावज् । जातः क्रियायोगरतः सुशीलः

॥७२॥

तस्याः स भर्ताथ चिरङ्गतेति । द्रष्टुं जगामाथ नदीं सुपुण्याम् । ददर्श कुम्भं न च तां तटस्थां । ततोऽतिदुःखात् प्ररुरोद नादयन्

॥७३॥

ततोऽन्धयुग्मं बधिरा च कन्या । दुःखान्वितासौ समुपाजगाम । ते वै रुदन्तं पितरं च दृष्ट्वा । दुःखान्विता वै रुरुदुर् भृशार्ताः

॥७४॥

ततः स पप्रच्छ नदीतटस्थान् । द्विजान् भवद्भिर् यदि योषिद् एका । दृष्टा तु तोयार्थम् उपाद्रवन्ती । आख्यात ते प्रोचुर् इमां प्रविष्टा

॥७५॥

नदीं न भूयस् तु समुत्ततार । एतावद् एवेह समीहितं नः । स तद्वचो घोरतरं निशम्य । रुरोद शोकाश्रुपरिप्लुताक्षः

॥७६॥

तं वै रुदन्तं ससुतं सकन्यं । दृष्ट्वाहम् आर्तः सुतरां बभूव । आर्तिश् च मेऽभूद् अथ संस्मृतिश् च । चाण्डालयोषाहम् इति क्षितीश

॥७७॥

ततोऽब्रवं तं नृपते मतङ्गं । किमर्थम् आर्तेन हि रुद्यते त्वया । तस्या न लाभो भवितातिमौर्ख्याद् । आक्रन्दितेनेह वृथा हि किं ते

॥७८॥

स माम् उवाचात्मजयुग्मम् अन्धं । कन्या चैका बधिरेयं तथैव । कथं द्विजाते अधुनार्तम् एतम् । आश्वासयिष्येऽप्य् अथ पोषयिष्ये

॥७९॥

इत्य् एवम् उक्त्वा स सुतैश् च सार्धं । फूत्कृत्य फूत्कृत्य च रोदिति स्म । यथा यथा रोदिति स श्वपाकस् । तथा तथा मे ह्य् अभवत् कृतापि

॥८०॥

ततोऽहम् आर्तं तु निवार्य तं वै । स्ववंशवृत्तान्तम् अथाचचक्षे । ततः स दुःखात् सह पुत्रकैः । संविवेश कोकामुखम् आर्तरूपः

॥८१॥

प्रविष्टमात्रे सलिले मतङ्गस् । तीर्थप्रभावाच् च विमुक्तपापः । विमानम् आरुह्य शशिप्रकाशं । ययौ दिवं तात ममोपपश्यतः

॥८२॥

तस्मिन् प्रविष्टे सलिले मृते च । ममार्तिर् आसीद् अतिमोहकर्त्री । जले प्रविष्टस् त्रिदिवं गतश् च

॥८३॥

भूयोऽभवं वैश्यकुले व्यथार्तो । जातिस्मरस् तीर्थवरप्रसादात् । ततोऽतिनिर्विण्णमना गतोऽहं । कोकामुखं संयतवाक्यचित्तः

॥८४॥

व्रतं समास्थाय कलेवरं स्वं । संशोषयित्वा दिवम् आरुरोह । तस्माच् च्युतस् त्वद्भवने च जातो । जातिस्मरस् तात हरिप्रसादात्

॥८५॥

सोऽहं समाराध्य मुरारिदेवं । कोकामुखे त्यक्तशुभाशुभेच्छः । इत्य् एवम् उक्त्वा पितरं प्रणम्य । गत्वा च कोकामुखम् अग्रतीर्थम् । विष्णुं समाराध्य वराहरूपम् । अवाप सिद्धिं मनुजर्षभोऽसौ

॥८६॥

इत्थं स कामदमनः सहपुत्रपौत्रः । कोकामुखे तीर्थवरे सुपुण्ये । त्यक्त्वा तनुं दोषमयीं ततस् तु । गतो दिवं सूर्यसमैर् विमानैः

॥८७॥

एवं मयोक्ता परमेश्वरस्य । माया सुराणाम् अपि दुर्विचिन्त्या । स्वप्नेन्द्रजालप्रतिमा मुरारेर् । यया जगन् मोहम् उपैति विप्राः

॥८८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).