मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २४२

3
ब्रह्मपुराणम् · 242

अध्यायः २४२

वसिष्ठ उवाच:

एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते । देहाद् देहसहस्राणि तथा च न स भिद्यते

॥१॥

तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्व् अपि । उत्पद्यति तपोयोगाद् गुणैः सह गुणक्षयात्

॥२॥

मनुष्यत्वाद् दिवं याति देवो मानुष्यम् एति च । मानुष्यान् निरयस्थानम् आलयं प्रतिपद्यते

॥३॥

कोषकारो यथात्मानं कीटः समभिरुन्धति । सूत्रतन्तुगुणैर् नित्यं तथायम् अगुणो गुणैः

॥४॥

द्वन्द्वम् एति च निर्द्वन्द्वस् तासु तास्व् इह योनिषु । शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे

॥५॥

जलोदरेऽतिसारे च गण्डमालाविचर्चिके । श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोर् अपि

॥६॥

यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिणाम् । उत्पद्यन्ते विचित्राणि तान्य् एवात्माभिमन्यते

॥७॥

अभिमानातिमानानां तथैव सुकृतान्य् अपि । एकवासाश् चतुर्वासाः शायी नित्यम् अधस् तथा

॥८॥

मण्डूकशायी च तथा वीरासनगतस् तथा । वीरम् आसनम् आकाशे तथा शयनम् एव च

॥९॥

इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा । भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः

॥१०॥

वीरस्थानाम्बुपाके च शयनं फलकेषु च । विविधासु च शय्यासु फलगृह्यान्वितासु च

॥११॥

उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः । मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः

॥१२॥

सिंहचर्मपरीधानः पट्टवासास् तथैव च । फलकं परिधानश् च तथा कटकवस्त्रधृक्

॥१३॥

कटैकवसनश् चैव चीरवासास् तथैव च । वस्त्राणि चान्यानि बहून्य् अभिमत्य च बुद्धिमान्

॥१४॥

भोजनानि विचित्राणि रत्नानि विविधानि च । एकरात्रान्तराशित्वम् एककालिकभोजनम्

॥१५॥

चतुर्थाष्टमकालं च षष्ठकालिकम् एव च । षड्रात्रभोजनश् चैव तथा चाष्टाहभोजनः

॥१६॥

मासोपवासी मूलाशी फलाहारस् तथैव च । वायुभक्षश् च पिण्याकदधिगोमयभोजनः

॥१७॥

गोमूत्रभोजनश् चैव काशपुष्पाशनस् तथा । शैवालभोजनश् चैव तथा चान्येन वर्तयन्

॥१८॥

वर्तयञ् शीर्णपर्णैश् च प्रकीर्णफलभोजनः । विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया

॥१९॥

चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च । चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्य् अपि

॥२०॥

उपाश्रयान् अप्य् अपरान् पाखण्डान् विविधान् अपि । विविक्ताश् च शिलाछायास् तथा प्रस्रवणानि च

॥२१॥

पुलिनानि विविक्तानि विविधानि वनानि च । काननेषु विविक्ताश् च शैलानां महतीर् गुहाः

॥२२॥

नियमान् विविधांश् चापि विविधानि तपांसि च । यज्ञांश् च विविधाकारान् विद्याश् च विविधास् तथा

॥२३॥

वणिक्पथं द्विजक्षत्रवैश्यशूद्रांस् तथैव च । दानं च विविधाकारं दीनान्धकृपणादिषु

॥२४॥

अभिमन्येत सन्धातुं तथैव विविधान् गुणान् । सत्त्वं रजस् तमश् चैव धर्मार्थौ काम एव च

॥२५॥

प्रकृत्यात्मानम् एवात्मा एवं प्रविभजत्य् उत । स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये

॥२६॥

यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम् । याजनाध्यापने चैव तथान्यद् अपि किञ्चन

॥२७॥

जन्ममृत्युविधानेन तथा विशसनेन च । शुभाशुभभयं सर्वम् एतद् आहुः सनातनम्

॥२८॥

प्रकृतिः कुरुते देवी भयं प्रलयम् एव च । दिवसान्ते गुणान् एतान् अतीत्यैकोऽवतिष्ठते

॥२९॥

रश्मिजालम् इवादित्यस् तत्कालं सन्नियच्छति । एवम् एवैष तत् सर्वं क्रीडार्थम् अभिमन्यते

॥३०॥

आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान् । एवम् एतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम्

॥३१॥

क्रियां क्रियापथे रक्तस् त्रिगुणस् त्रिगुणाधिपः । क्रियाक्रियापथोपेतस् तथा तद् इति मन्यते

॥३२॥

प्रकृत्या सर्वम् एवेदं जगद् अन्धीकृतं विभो । रजसा तमसा चैव व्याप्तं सर्वम् अनेकधा

॥३३॥

एवं द्वन्द्वान्य् अतीतानि मम वर्तन्ति नित्यशः । मत्त एतानि जायन्ते प्रलये यान्ति माम् अपि

॥३४॥

निस्तर्तव्याण्य् अथैतानि सर्वाणीति नराधिप । मन्यते पक्षबुद्धित्वात् तथैव सुकृतान्य् अपि

॥३५॥

भोक्तव्यानि ममैतानि देवलोकगतेन वै । इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम्

॥३६॥

सुखम् एवं तु कर्तव्यं सकृत् कृत्वा सुखं मम । यावद् एव तु मे सौख्यं जात्यां जात्यां भविष्यति

॥३७॥

भविष्यति न मे दुःखं कृतेनेहाप्य् अनन्तकम् । सुखदुःखं हि मानुष्यं निरये चापि मज्जनम्

॥३८॥

निरयाच् चापि मानुष्यं कालेनैष्याम्य् अहं पुनः । मनुष्यत्वाच् च देवत्वं देवत्वात् पौरुषं पुनः

॥३९॥

मनुष्यत्वाच् च निरयं पर्यायेणोपगच्छति । एष एवं द्विजातीनाम् आत्मा वै स गुणैर् वृतः

॥४०॥

तेन देवमनुष्येषु निरयं चोपपद्यते । ममत्वेनावृतो नित्यं तत्रैव परिवर्तते

॥४१॥

सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु । य एवं कुरुते कर्म शुभाशुभफलात्मकम्

॥४२॥

स एवं फलम् आप्नोति त्रिषु लोकेषु मूर्तिमान् । प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्

॥४३॥

प्रकृतिश् च तथाप्नोति त्रिषु लोकेषु कामगा । तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च

॥४४॥

त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह । अलिङ्गप्रकृतित्वाच् च लिङ्गैर् अप्य् अनुमीयते

॥४५॥

तथैव पौरुषं लिङ्गम् अनुमानाद् धि मन्यते । स लिङ्गान्तरम् आसाद्य प्राकृतं लिङ्गम् अव्रणम्

॥४६॥

व्रणद्वाराण्य् अधिष्ठाय कर्माण्य् आत्मनि मन्यते । श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्य् अथ

॥४७॥

रागादीनि प्रवर्तन्ते गुणेष्व् इह गुणैः सह । अहम् एतानि वै कुर्वन् ममैतानीन्द्रियाणि ह

॥४८॥

निरिन्द्रियो हि मन्येत व्रणवान् अस्मि निर्व्रणः । अलिङ्गो लिङ्गम् आत्मानम् अकालं कालम् आत्मनः

॥४९॥

असत्त्वं सत्त्वम् आत्मानम् अमृतं मृतम् आत्मनः । अमृत्युं मृत्युम् आत्मानम् अचरं चरम् आत्मनः

॥५०॥

अक्षेत्रं क्षेत्रम् आत्मानम् असङ्गं सङ्गम् आत्मनः । अतत्त्वं तत्त्वम् आत्मानम् अभवं भवम् आत्मनः

॥५१॥

अक्षरं क्षरम् आत्मानम् अबुद्धत्वाद् धि मन्यते । एवम् अप्रतिबुद्धत्वाद् अबुद्धजनसेवनात्

॥५२॥

सर्गकोटिसहस्राणि पतनान्तानि गच्छति । जन्मान्तरसहस्राणि मरणान्तानि गच्छति

॥५३॥

तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च । चन्द्रमा इव कोशानां पुनस् तत्र सहस्रशः

॥५४॥

नीयतेऽप्रतिबुद्धत्वाद् एवम् एव कुबुद्धिमान् । कला पञ्चदशी योनिस् तद् धाम इति पठ्यते

॥५५॥

नित्यम् एव विजानीहि सोमं वै षोडशांशकैः । कलया जायतेऽजस्रं पुनः पुनर् अबुद्धिमान्

॥५६॥

धीमांश् चायं न भवति नृप एवं हि जायते । षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्

॥५७॥

न तूपयुज्यते देवैर् देवान् अपि युनक्ति सः । ममत्वं क्षपयित्वा तु जायते नृपसत्तम । प्रकृतेस् त्रिगुणायास् तु स एव त्रिगुणो भवेत्

॥५८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).