अध्यायः ३४
ब्रह्मोवाच:
योऽसौ सर्वगतो देवस् त्रिपुरारिस् त्रिलोचनः । उमाप्रियकरो रुद्रश् चन्द्रार्धकृतशेखरः
॥१॥विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन् । गन्धर्वयक्षनागांश् च तथान्यांश् च समागतान्
॥२॥जघान पूर्वं दक्षस्य यजतो धरणीतले । यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम्
॥३॥यस्य प्रतापसन्त्रस्ताः शक्राद्यास् त्रिदिवौकसः । शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः
॥४॥स आस्ते तत्र वरदः शूलपाणिर् वृषध्वजः । पिनाकपाणिर् भगवान् दक्षयज्ञविनाशनः
॥५॥महादेवोऽकले देशे कृत्तिवासा वृषध्वजः । एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः
॥६॥मुनय ऊचुः:
किमर्थं स भवो देवः सर्वभूतहिते रतः । जघान यज्ञं दक्षस्य देवैः सर्वैर् अलङ्कृतम्
॥७॥न ह्य् अल्पं कारणं तत्र प्रभो मन्यामहे वयम् । श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः
॥८॥ब्रह्मोवाच:
दक्षस्यासन्न् अष्ट कन्या याश् चैवं पतिसङ्गताः । स्वेभ्यो गृहेभ्यश् चानीय ताः पिताभ्यर्चयद् गृहे
॥९॥ततस् त्व् अभ्यर्चिता विप्रा न्यवसंस् ताः पितुर् गृहे । तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै
॥१०॥नाजुहावात्मजां तां वै दक्षो रुद्रम् अभिद्विषन् । अकरोत् सन्नतिं दक्षे न च काञ्चिन् महेश्वरः
॥११॥जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः । ततो ज्ञात्वा सती सर्वास् तास् तु प्राप्ताः पितुर् गृहम्
॥१२॥जगाम साप्य् अनाहूता सती तु स्वपितुर् गृहम् । ताभ्यो हीनां पिता चक्रे सत्याः पूजाम् असम्मताम् । ततोऽब्रवीत् सा पितरं देवी क्रोधसमाकुला
॥१३॥सत्य् उवाच:
यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो । असत्कृताम् अवस्थां यः कृतवान् असि गर्हिताम् । अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुम् अर्हसि
॥१४॥ब्रह्मोवाच:
एवम् उक्तोऽब्रवीद् एनां दक्षः संरक्तलोचनः
॥१५॥दक्ष उवाच:
त्वत्तः श्रेष्ठा वरिष्ठाश् च पूज्या बालाः सुता मम । तासां ये चैव भर्तारस् ते मे बहुमताः सति
॥१६॥ब्रह्मिष्ठाश् च व्रतस्थाश् च महायोगाः सुधार्मिकाः । गुणैश् चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात् सति
॥१७॥वसिष्ठोऽत्रिः पुलस्त्यश् च अङ्गिराः पुलहः क्रतुः । भृगुर् मरीचिश् च तथा श्रेष्ठा जामातरो मम
॥१८॥तैश् चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति । तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः
॥१९॥इत्य् उक्तवांस् तदा दक्षः सम्प्रमूढेन चेतसा । शापार्थम् आत्मनश् चैव येनोक्ता वै महर्षयः । तथोक्ता पितरं सा वै क्रुद्धा देवी तम् अब्रवीत्
॥२०॥सत्य् उवाच:
वाङ्मनःकर्मभिर् यस्माद् अदुष्टां मां विगर्हसि । तस्मात् त्यजाम्य् अहं देहम् इमं तात तवात्मजम्
॥२१॥ब्रह्मोवाच:
ततस् तेनापमानेन सती दुःखाद् अमर्षिता । अब्रवीद् वचनं देवी नमस्कृत्य स्वयम्भुवे
॥२२॥सत्य् उवाच:
येनाहम् अपदेहा वै पुनर् देहेन भास्वता । तत्राप्य् अहम् असम्मूढा सम्भूता धार्मिकी पुनः । गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः
॥२३॥ब्रह्मोवाच:
तत्रैवाथ समासीना रुष्टात्मानं समादधे । धारयाम् आस चाग्नेयीं धारणाम् आत्मनात्मनि
॥२४॥ततः स्वात्मानम् उत्थाप्य वायुना समुदीरितः । सर्वाङ्गेभ्यो विनिःसृत्य वह्निर् भस्म चकार ताम्
॥२५॥तद् उपश्रुत्य निधनं सत्या देव्याः स शूलधृक् । संवादं च तयोर् बुद्ध्वा याथातथ्येन शङ्करः । दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः
॥२६॥श्रीशङ्कर उवाच:
यस्माद् अवमता दक्ष सहसैवागता सती । प्रशस्ताश् चेतराः सर्वास् त्वत्सुता भर्तृभिः सह
॥२७॥तस्माद् वैवस्वते प्राप्ते पुनर् एते महर्षयः । उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्य् अयोनिजाः
॥२८॥हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः । अभिव्याहृत्य सप्तर्षीन् दक्षं सोऽभ्यशपत् पुनः
॥२९॥भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः । प्राचीनबर्हिषः पौत्रः पुत्रश् चापि प्रचेतसः
॥३०॥दक्ष इत्य् एव नाम्ना त्वं मारिषायां जनिष्यसि । कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे
॥३१॥अहं तत्रापि ते विघ्नम् आचरिष्यामि दुर्मते । धर्मकामार्थयुक्तेषु कर्मस्व् इह पुनः पुनः
॥३२॥ततो वै व्याहृतो दक्षो रुद्रं सोऽभ्यशपत् पुनः
॥३३॥दक्ष उवाच:
यस्मात् त्वं मत्कृते क्रूर ऋषीन् व्याहृतवान् असि । तस्मात् सार्धं सुरैर् यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः
॥३४॥कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु । इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् । ततो देवैस् तु ते सार्धं न तु पूजा भविष्यति
॥३५॥रुद्र उवाच:
चातुर्वर्ण्यं तु देवानां ते चाप्य् एकत्र भुञ्जते । न भोक्ष्ये सहितस् तैस् तु ततो भोक्ष्याम्य् अहं पृथक्
॥३६॥सर्वेषां चैव लोकानाम् आदिर् भूर्लोक उच्यते । तम् अहं धारयाम्य् एकः स्वेच्छया न तवाज्ञया
॥३७॥तस्मिन् धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः । तस्माद् अहं वसामीह सततं न तवाज्ञया
॥३८॥ब्रह्मोवाच:
ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा । स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्व् इह
॥३९॥यदा गृहपतिर् दक्षो यज्ञानाम् ईश्वरः प्रभुः । समस्तेनेह यज्ञेन सोऽयजद् दैवतैः सह
॥४०॥अथ देवी सती यत् ते प्राप्ते वैवस्वतेऽन्तरे । मेनायां ताम् उमां देवीं जनयाम् आस शैलराट्
॥४१॥सा तु देवी सती पूर्वम् आसीत् पश्चाद् उमाभवत् । सहव्रता भवस्यैषा नैतया मुच्यते भवः
॥४२॥यावद् इच्छति संस्थानं प्रभुर् मन्वन्तरेष्व् इह । मारीचं कश्यपं देवी यथादितिर् अनुव्रता
॥४३॥सार्धं नारायणं श्रीस् तु मघवन्तं शची यथा । विष्णुं कीर्तिर् उषा सूर्यं वसिष्ठं चाप्य् अरुन्धती
॥४४॥नैतांस् तु विजहत्य् एता भर्तॄन् देव्यः कथञ्चन । एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे
॥४५॥प्राचीनबर्हिषः पौत्रः पुत्रश् चापि प्रचेतसाम् । दशभ्यस् तु प्रचेतोभ्यो मारिषायां पुनर् नृप
॥४६॥जज्ञे रुद्राभिशापेन द्वितीयम् इति नः श्रुतम् । भृग्वादयस् तु ते सर्वे जज्ञिरे वै महर्षयः
॥४७॥आद्ये त्रेतायुगे पूर्वं मनोर् वैवस्वतस्य ह । देवस्य महतो यज्ञे वारुणीं बिभ्रतस् तनुम्
॥४८॥इत्य् एषोऽनुशयो ह्य् आसीत् तयोर् जात्यन्तरे गतः । प्रजापतेश् च दक्षस्य त्र्यम्बकस्य च धीमतः
॥४९॥तस्मान् नानुशयः कार्यो वरेष्व् इह कदाचन । जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः । जन्तोर् न भूतये ख्यातिस् तन् न कार्यं विजानता
॥५०॥मुनय ऊचुः:
कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती । त्यक्त्वा देहं पुनर् जाता गिरिराजगृहे प्रभो
॥५१॥देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह । भवेन सह संयोगः संवादश् च तयोः कथम्
॥५२॥स्वयंवरः कथं वृत्तस् तस्मिन् महति जन्मनि । विवाहश् च जगन्नाथ सर्वाश्चर्यसमन्वितः
॥५३॥तत् सर्वं विस्तराद् ब्रह्मन् वक्तुम् अर्हसि साम्प्रतम् । श्रोतुम् इच्छामहे पुण्यां कथां चातिमनोहराम्
॥५४॥ब्रह्मोवाच:
शृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् । उमाशङ्करयोः पुण्यां सर्वकामफलप्रदाम्
॥५५॥कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम् । अपृच्छद् धिमवान् वृत्तं लोके ख्यातिकरं हितम्
॥५६॥केनाक्षयाश् च लोकाः स्युः ख्यातिश् च परमा मुने । तथैव चार्चनीयत्वं सत्सु तत् कथयस्व मे
॥५७॥कश्यप उवाच:
अपत्येन महाबाहो सर्वम् एतद् अवाप्यते । ममाख्यातिर् अपत्येन ब्रह्मणा ऋषिभिः सह
॥५८॥किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि । वर्तयिष्यामि यच् चापि यथादृष्टं पुराचल
॥५९॥वाराणसीम् अहं गच्छन्न् अपश्यं संस्थितं दिवि । विमानं सुनवं दिव्यम् अनौपम्यं महर्धिमत्
॥६०॥तस्याधस्ताद् आर्तनादं गर्तस्थाने शृणोम्य् अहम् । तम् अहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः
॥६१॥अथागात् तत्र शैलेन्द्र विप्रो नियमवाञ् शुचिः । तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः
॥६२॥अथ स व्रजमानस् तु व्याघ्रेणाभीषितो द्विजः । विवेश तं तदा देशं स गर्तो यत्र भूधर
॥६३॥गर्तायां वीरणस्तम्बे लम्बमानांस् तदा मुनीन् । अपश्यद् आर्तो दुःखार्तांस् तान् अपृच्छच् च स द्विजः
॥६४॥द्विज उवाच:
के यूयं वीरणस्तम्बे लम्बमाना ह्य् अधोमुखाः । दुःखिताः केन मोक्षश् च युष्माकं भवितानघाः
॥६५॥पितर ऊचुः:
वयं ते कृतपुण्यस्य पितरः सपितामहाः । प्रपितामहाश् च क्लिश्यामस् तव दुष्टेन कर्मणा
॥६६॥नरकोऽयं महाभाग गर्तरूपेण संस्थितः । त्वं चापि वीरणस्तम्बस् त्वयि लम्बामहे वयम्
॥६७॥यावत् त्वं जीवसे विप्र तावद् एव वयं स्थिताः । मृते त्वयि गमिष्यामो नरकं पापचेतसः
॥६८॥यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् । उत्पादयसि तेनास्मान् मुच्येम वयम् एनसः
॥६९॥नान्येन तपसा पुत्र तीर्थानां च फलेन च । एतत् कुरु महाबुद्धे तारयस्व पितॄन् भयात्
॥७०॥कश्यप उवाच:
स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् । पितॄन् गर्तात् समुद्धृत्य गणपान् प्रचकार ह
॥७१॥स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः । सम्मतो बलवांश् चैव रुद्रस्य गणपोऽभवत्
॥७२॥तस्मात् कृत्वा तपो घोरम् अपत्यं गुणवद् भृशम् । उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम्
॥७३॥ब्रह्मोवाच:
स एवम् उक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः । तपश् चकाराप्य् अतुलं येन तुष्टिर् अभून् मम
॥७४॥तदा तम् उत्पपाताहं वरदोऽस्मीति चाब्रवम् । ब्रूहि तुष्टोऽस्मि शैलेन्द्र तपसानेन सुव्रत
॥७५॥हिमवान् उवाच:
भगवन् पुत्रम् इच्छामि गुणैः सर्वैर् अलङ्कृतम् । एवं वरं प्रयच्छस्व यदि तुष्टोऽसि मे प्रभो
॥७६॥ब्रह्मोवाच:
तस्य तद् वचनं श्रुत्वा गिरिराजस्य भो द्विजाः । तदा तस्मै वरं चाहं दत्तवान् मनसेप्सितम्
॥७७॥कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत । यस्याः प्रभावात् सर्वत्र कीर्तिम् आप्स्यसि शोभनाम्
॥७८॥अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः । पावनश् चैव पुण्येन देवानाम् अपि सर्वतः
॥७९॥ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे
॥८०॥सोऽपि कालेन शैलेन्द्रो मेनायाम् उदपादयत् । अपर्णाम् एकपर्णां च तथा चैवैकपाटलाम्
॥८१॥न्यग्रोधम् एकपर्णं तु पाटलं चैकपाटलाम् । अशित्वा त्व् एकपर्णां तु अनिकेतस् तपोऽचरत्
॥८२॥शतं वर्षसहस्राणां दुश्चरं देवदानवैः । आहारम् एकपर्णं तु एकपर्णा समाचरत्
॥८३॥पाटलेन तथैकेन विदधे चैकपाटला । पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः
॥८४॥अपर्णा तु निराहारा तां माता प्रत्यभाषत । निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता
॥८५॥सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी । तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता
॥८६॥एतत् तु त्रिकुमारीकं जगत् स्थावरजङ्गमम् । एतासां तपसां वृत्तं यावद् भूमिर् धरिष्यति
॥८७॥तपःशरीरास् ताः सर्वास् तिस्रो योगं समाश्रिताः । सर्वाश् चैव महाभागास् तथा च स्थिरयौवनाः
॥८८॥ता लोकमातरश् चैव ब्रह्मचारिण्य एव च । अनुगृह्णन्ति लोकांश् च तपसा स्वेन सर्वदा
॥८९॥उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी । महायोगबलोपेता महादेवम् उपस्थिता
॥९०॥दत्तकश् चोशना तस्य पुत्रः स भृगुनन्दनः । आसीत् तस्यैकपर्णा तु देवलं सुषुवे सुतम्
॥९१॥या तु तासां कुमारीणां तृतीया ह्य् एकपाटला । पुत्रं सा तम् अलर्कस्य जैगीषव्यम् उपस्थिता
॥९२॥तस्याश् च शङ्खलिखितौ स्मृतौ पुत्राव् अयोनिजौ । उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी
॥९३॥अथ तस्यास् तपोयोगात् त्रैलोक्यम् अखिलं तदा । प्रधूपितम् इहालक्ष्य वचस् ताम् अहम् अब्रवम्
॥९४॥देवि किं तपसा लोकांस् तापयिष्यसि शोभने । त्वया सृष्टम् इदं सर्वं मा कृत्वा तद् विनाशय
॥९५॥त्वं हि धारयसे लोकान् इमान् सर्वान् स्वतेजसा । ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतीह नः
॥९६॥देव्य् उवाच:
यदर्थं तपसो ह्य् अस्य चरणं मे पितामह । त्वम् एव तद् विजानीषे ततः पृच्छसि किं पुनः
॥९७॥ब्रह्मोवाच:
ततस् ताम् अब्रवं चाहं यदर्थं तप्यसे शुभे । स त्वां स्वयम् उपागम्य इहैव वरयिष्यति
॥९८॥शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः । वयं सदैव यस्येमे वश्या वै किङ्कराः शुभे
॥९९॥स देवदेवः परमेश्वरः स्वयं । स्वयम्भुर् आयास्यति देवि तेऽन्तिकम् । उदाररूपो विकृतादिरूपः । समानरूपोऽपि न यस्य कस्यचित्
॥१००॥महेश्वरः पर्वतलोकवासी । चराचरेशः प्रथमोऽप्रमेयः । विनेन्दुना हीन्द्रसमानवर्चसा । विभीषणं रूपम् इवास्थितो यः
॥१०१॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).